________________ णिद्देस 2073 - अभिधानराजेन्द्रः - भाग 4 णिद्देस एत्थ विसेसाहिगओ, समासउद्देसनिद्देसो।।१५०२।। अज्झयणं उद्देसो, तं चिय सामाइयं ति निद्देसो। बुद्धीऍ जहासंभव-माजोज्जं सेसएसं पि॥१५०३।। औदयिको भावः, क्षायिको भाव इत्यादि / अथवा-ज्ञानं, दर्शन, चारित्रमित्यादिको ज्ञानाऽऽदीनां क्षायिकक्षायोपशमिकभाववृत्तित्वाद्भावनिर्देशः / इह च प्रत्येकमष्टविधे उद्देशे निर्देशे च समासोद्देशः, समासनिर्देशश्च विशेषेणाधिकृतः / तथाहि-प्रस्तुतेऽध्ययनम्, इत्येष समासोद्देशः, सामायिकमिति च विशेषाभिधानरूपत्वात्समासनिर्देशः। एवं स्वबुद्ध्या यथासम्भवं शेषेष्वपि श्रुतस्कन्धचतुर्विशतिस्तवाऽऽद्यध्ययनेष्वायोज्यम्, यथा श्रुतस्कन्ध इति समासोद्देशः, आवश्यकमिति समासनिर्देश इत्यादि / / 1502 / / 1503 // उत्तरगाथासंबन्धनार्थमाहसामाइयं नपुंसय-मस्स पुडं थी नपुंसगं वा वि। निविट्ठा तत्थिच्छइ, कं निद्देसं नओ को णु? ||1504|| इह सामायिकमिति नपुंसकतया रूढम् / अस्य च त्रिविधो निर्देष्टा उच्चारयिता, स्त्रीपुन्नपुंसकभेदात् / तत्रेदं नयैर्विचार्यतेको नयः के निर्देशमिच्छति? किं निर्देश्यवशात्, निर्देशकवशाद्वा? इति विनेयः पृच्छतीति गाथाऽर्थः / / 1504 / / अरिंभश्च प्रश्न सत्याहदुविहं पि नेगमनओ, निद्दिढं संगहो य ववहारो। निद्देसयमुझुसुओ, उभयसरिच्छं च सहस्स।।१५०५।। नैके गमा वस्तुधर्मपरिच्छेदा यस्याऽसौ ककारवर्णनाशान्नैगमः, अनेकप्रकारवस्त्वभ्युपगमपर इत्यर्थः / नैगमश्चासौ नयश्च नैगमनयः। स द्विविधमपि निर्देश्यवशान्निर्देशकवशाच निर्देशमिच्छति, इति शेषः, लोकव्यवहारपरत्वात्, अनेकगमरूपत्याचस्य नयस्य / लोके च निर्देश्यवशात्, निर्देशकवशाच निर्देशप्रवृत्तिर्दृश्यते तत्र निर्देश्यवशाद् यथा-'वासवदत्ता, तरङ्ग वती, प्रियदर्शनाकथा' इत्यादि। निर्देष्ट्रवशात्तु मनुना प्रणीतो ग्रन्थो मनुः, अक्षपादेनोक्तोऽक्षपाद इत्यादि। लोकोत्तरे तु निर्देश्यवशात् षट्जीवनिकायप्रतिपादकमध्ययनं षट्जीवनिका, साध्वाचारप्रतिपादको ग्रन्थ आचार इत्यादि। तथा निर्देशकवशानिर्देशो यथा-कपिलेन प्रणीतं कापिलीयमध्ययनं, हरिकेशिना प्रणीतं हरिकेशीयं, केशिगौतमाभ्यामभिहितं कैशिगौतमीयं, नन्दिसंहिता, जिनप्रवचनमित्यादि। एवं सावधविरमणरूपं सामायिक रूढितो नपुंसकमिति कृत्वा निर्देश्यवशान्नैगमो नपुंसकनिर्देशमेवास्य मन्यते। यथा-सामायिक नपुंसकमिति / तथा सामायिकं निर्देष्टुः स्त्रीपुनपुंसकलिङ्गत्वात्तद्वशात्सामायिकरय त्रिलिङ्ग ताऽप्येतन्मतेन भवति। यथासामायि-कं स्त्री, सामायिकं पुरुषः, सामायिकं नपुंसकमिति। यथा वा देवदत्ताऽऽदिना घटाऽऽदिशब्दे समुचारिते स घटाऽऽदिशब्द उच्चारयितृदेवदत्ताऽऽदिपरिणामत्वाद्देवदत्ताऽऽदिशब्दत्वेन टयपदिश्यते, तथा तदभिधेयपृथुबुध्नोदराऽऽद्याकारघटाऽऽदिपदार्थपरिणाम-त्वाद् घटाऽऽदिशब्दत्वेनापि लोके निर्दिश्यते / एवं स्वाभिधेयसावद्यविरमणपर्यायत्वात्सामायिकस्य नैगमो नपुंसकनिर्देशं मन्यते / अभिधायक स्त्रीपुरुषाऽऽदिपरिणामत्वात्तु लिङ्ग त्रय निर्देशमप्य स्याभ्युपगच्छति, यथा- 'सामायिकं स्त्री' इत्यादि। आह–'दुविहं पि णेगमणओ' एतावन्मात्रोक्तो निर्देश्यवशाद्, निर्देशकवशाच द्विविध निर्देशमिच्छतीति कुतो लभ्यते? इति / अत्रोच्यते-"निद्दिष्ट संगहो य ववहारो" इतिवचनात्। अत्र ह्ययमर्थः-निर्दिष्टमभिधेयं वस्त्वङ्गीकृत्य संग्रहव्यवहारौ निर्देशमिच्छतः, निर्देश्यपर्यायत्वात् वचनस्य, इत्यादियुक्तिश्च भाष्ये वक्ष्यते / तदिद निर्दिष्ट वस्त्याश्रित्येतिवचनात्प्रागपि "दुविह पि' इत्यत्र निर्दिष्ट निर्देश-कवशानिर्देश इति गम्यते / (निद्देसयमुज्जुसुओ ति) निर्दिशतीति निर्देशको वक्ता, तमगी कृत्य ऋजुसूत्रो निर्देशमिच्छति / यथा-'सामायिकं स्त्री' इत्यादि। वक्तृपर्यायत्वाद्वचनस्येत्यादि युक्तिस्त्रापि भाष्येऽभिधास्यते / (उभयसरिच्छं च सद्दस्स त्ति) उभयमिह निर्देश्यं निर्देशकं च वस्तु तस्योभयस्य सदृशं समानलिङ्गमेवाऽऽश्रित्य शब्दनयस्य, निर्देशप्रवृत्तिरिति गम्यते। यदि हि निर्देश्यं नपुंसकं, तदा निर्देष्टाऽपि स्त्रीपुनपुंसकलक्षणो नपुंसकमेव, वक्तुर्वाच्योपयोगानन्यत्वेन तद्रूपत्वात् / उपयोगप्रधाना हि शब्दनयाः, ततो यो यत्रोपयुक्तः स तद्रूप एव, यथाऽग्न्युपयुक्तोऽग्निः, तथा च सति स्त्रीपुरुषावपि यदारूढितो नपुंसके सामायिके उपयुक्तौ भवतः, तदा निर्देश्यनपुंसकोपयुक्तत्वान्नपुंसकमेव, तदुपयोगानन्यत्वेन तद्रूपत्वादिति। स्त्रीपुरुषौ वा नपुंसकं ब्रूत इत्यस्य त्वर्थस्य शब्दनयमतेनासम्भव एवेति नियुक्तिगाथासंक्षेपार्थः / / 1505 / / अथ विस्तरार्थमभिधित्सुर्भाष्यकारः प्राऽऽहजं संववहारपरो-ऽणेगगमो णेगमो तओ दुविहं / इच्छइ संववहारो, दुविहो जं दीसए पायं / / 1506 / / यद्यस्माल्लोकव्यवहारपरोऽनेकगमश्च नैगमनयः, ततस्तस्मानिर्देश्यवशानिर्देशकवशाच द्विविधमपि निर्देशमिच्छति / लोकव्यवहारश्व प्रायो द्विधा दृश्यते // 1506 / / कथम्? इत्याहछज्जीवणियाऽऽयारो, निद्दिट्ठवसेण तह सुयं चऽण्णं / तं चेव य जिणवयणं, सव्वं निद्देसयवसेणं / / 1507 / / जह वा निद्दिट्टवसा, वासवदत्तातरंगवइयाई। तह निद्देसगवसओ,लोए मणुरक्खवाउत्ति // 1508 / / लोको द्विधा-अर्हद्दर्शनानुगतो लोकोत्तररूपः, तद्व्यतिरिक्तश्च / तत्र लोकोत्तरे निर्दिष्टार्थवशानिर्देशो यथा-षट्जीवनिका नामाध्ययनम्, आचारः, आवश्यकमित्यादि। (तह सुयं च ण्णं, तं चेव येत्यादि) तथा अत्रैवलोकोत्तरेतदन्यच श्रुतं निर्देशकवशात्सर्वमपि जिनप्रवचनमुच्यते। तथा अन्यत्किमपि श्रुतं निर्देशकवशादेवोच्यते। तथा भद्रबाहुनिमित्त, नन्दसहिता, कापिलीयमित्यादि। यथावा-इतरलोके निर्दिष्टवशाद्वासवदत्ता, तरङ्गवतीत्यादिनिर्देशः, निर्देशकवशात्तु मनुः, अक्षपाद इत्यादि // 1507 / 1508 // तथा किम्? इत्याशङ्कय प्रकृते योजयन्नाहतह निद्दिट्ठवसाओ, नपुंसगं नेगमस्स सामइयं / थीपुंनपुंसगंवा, तं चिय निद्देसयवसाओ॥१५०६।। यथा षट् जीवनिका, आचार इत्यादौ निर्दिष्टार्थवशानिर्देशः, तथाऽत्रापि सावध विरमणलक्षणनिर्दिष्ट नपं सकार्थवशात्सामायिकम्, इति नपुंसक निर्देशः, यथा वा मनुः, अक्षपादइ--