SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ णितियवास 2066 - अभिधानराजेन्द्रः - भाग 4 णितियवास नित्यवासफलम्-ननु किमित्येवमुपदिश्यते? यावता मासकल्पे-न विहरतामवश्यंभाव्येव जीवोपमर्दः, सूत्रार्थोभयहानिरपि जायते, मार्गगमनश्रमसंभवादपरिचितजनादुपयोगिभक्तपानाऽऽद्यसंप्राप्तेर्वा वातपित्ताऽऽदिक्षोभादात्मविराधनासंभवाच प्रत्यक्षं दोष एव दृश्यत इति / प्रयोगश्चात्र-अयुक्तमिदं मासाऽऽदिविहारेण ग्रामानुग्रामभ्रमणमिति पक्षः। संयमाऽऽत्मविराधनाहेतुत्वादिति हेतुः। तथाविध-कष्टसाध्यसावद्यानुष्ठानादिति दृष्टान्तः। यद्यत्संयमाऽऽत्मविराधनाहेतुभूतमनुष्ठानं तत्तत्संयभवतामनारम्भणीयमेव, यथा कृष्यादिसावद्यानुष्ठानम्,तथाभूतं चेदं मासकल्पाऽऽदिना ग्रामानुग्रामभ्रमणमित्युपनयः / अतो न युक्तमिदमिति निगमनम्। न चास्य हेतोरसिद्धत्वाऽऽदिदोषोद्भावनाऽपि कर्तुं शक्यते, पूर्वमेव सूत्रार्थोभयसंयमाऽऽत्मविराधनायाः सप्रपञ्चं प्रतिपादितत्वात्। अन्यचैकत्र निवासे गुण एव दृश्यते यतो मार्गगमनाभावात्समस्तजीवोपमर्दाभावे संयमवृद्धिरुपजायते / व्यायामाभावात्प्रासुकैषणीयोचितभक्तपानलाभसंभवाच्च वातपित्ताऽऽदेः क्षोभावादात्मविराधनाऽपि न भवति। तथाऽऽचार्यनिवासपुस्तकाऽऽद्यविकलपठनका-रणकलापसंभवात् सूत्रार्थोभयवृद्धयः शिष्या दीप्ता भवन्ति। उक्तंच-"आरोग्यबुद्धिविनयोद्यमशास्त्ररागाः, पञ्चाऽऽन्तरा जगति पाठगुणा भवन्ति / आचार्यपुस्तकनिवाससहायवल्भाः, बाह्याश्च पञ्च पठनं परिवर्द्वयन्ति // 1 // " अन्यचागमोऽप्येवमेव व्यवस्थितः। यतः--"पंचसमिया तिगुत्ता, उज्जुत्ता संजमे तवे चरणे। वाससयं पि वसंता, मुणिणो आराहगा भणिया ||1 // " इत्याद्यनेकगुणकलापोपेतत्वाद् नित्यवासस्य, युक्तमेव तत्करणमिति मन्तव्यम्। एवं व्यवस्थितेऽपि यदन्यथापरिकल्पन, तत्कदाग्रहग्रहगृहीतवचन-मिवापकर्णनोयमिति स्थितम्।। अत्रोच्यते-यत्तावत्प्रतिपादितम्-'भासाऽऽदिविहारे' इत्यादिना पृथिव्यादिमर्दाऽऽदिना संयमाऽऽदेविराधनेति दूषणकदम्बकम् / तद् नित्यवासेऽपि समानमेव / यतो विहारपरिहारेण सर्वदैकत्र निवासवता प्रासुकैषणीयवसतिलाभाभावाद् गृहस्थाइवाऽऽश्रयाभावेषु मुक्तसमस्तजीवोपमर्दाऽऽदयः स्वयंग्रहकरणकारणानुमोदनाऽऽदौ प्रवर्तन्ते / ततश्चैषणायामपि जीवनिकायानामाकुट्यापि विराधनोत्पद्यते / ततश्च प्राणातिपात (विरमण) महाव्रतभङ्गनिरर्थकताया अपि शिरस्तुण्डमुण्डनाऽऽदेवैयर्थ्यं स्यात् / अन्यथैकत्र निवासे प्रतिदिनमाहाराऽऽदिदानवन्दनाऽऽदिप्रतिपत्त्योपगृहीतानां साधूनामनादिभवाभ्यासवशवर्तिना प्रतिबन्धाऽऽदयः संभवन्ति। उक्तंच-पडिबंधो लहुयत्तं, न जणुवयारोन देसविन्नाणं। नाऽऽणाराह--णमेए, दोसा अविहारपक्खम्मि" / / 1 / / ततश्च प्रतिबन्धात्संबन्धः, संबन्धाचित्तविप्लुतिः, चितविप्लुतेरकार्यप्रवृत्तिरिति। एवंवाऽतिस्फुटतरा संयमविराधना-यदाच चित्तविप्लुत्या प्रेरितः स्त्रीसेवाऽऽदौ प्रवर्तते, तदा न केवल प्रथमव्रतभङ्गः, अपितु पश्चानामपीति / तथाहि-रमणीरमणमनाःसंकेतस्थाने व्रजन्नागच्छन् वा व यास्यसि, कुतो वा प्रत्यावृत्तः? इति के नचित्पेरितोऽलीकशठोत्तरदानाय वक्ति-उदरबाधा मेऽस्ति, ततः शरीरचिन्तायै गमिष्यामि, तां वा कृत्वा सभागतः, इति वदतो मृषावादः। स्वाम्यादिभिरननुज्ञातमतो निषेवतोऽदत्ताऽऽदानम्। तत्स्नेहात् तु प्राणातिपातमैथुनपरिग्रह (विरमण) व्रतभङ्गोऽपि स्त्रीपरिगहकरणाद्भवति / अन्यच्चसूत्रार्थो भयहानिरपि तदशगस्या तथा--समस्तानां कषायाणां वृद्धिरुपजायतेऽनुरागवशगस्य, तदसप्राप्तौ ज्वराऽऽद्युत्मादसभवादात्मविराधना / प्रवचनोपघातश्चयथैत श्वेतभिक्षवो वदन्तिचेलाञ्चलमपि प्रमादायाः संबन्धिनमस्माभिः परित्यज्यते, व्यापारः पुनरेतेषामीदृशः। प्रयोगश्चात्र-भवभ्रमण-भीरूणां गृहीतव्रतयतीनां समस्तानर्थनिबन्धनो नित्यवास इति अयुक्त एवेतिपक्षः। समस्तप्रमादनिबन्धनत्वादिति हेतुः / गृहवासवदिति दृष्टान्तः। यद्यत्प्रमादनिबन्धनं तत् तद् पुनर्यतीनामयोग्यम्, यथा-गृहवासनिषेधनम्, प्रमादनि बन्धनश्वायमित्युपनयः। ततोऽयुक्तोऽयमिति निगमनम्।नचास्य हेतोरसिद्धताऽऽदिदोषोद्भावना विभावयितुं शक्यते, पूर्वोक्तयुक्तेरतिप्रतीतत्वात्। यथोक्तम्-आगमोऽप्येवमेवेत्यादि, तस्यायुक्ततरतमत्वाद् वक्तुमहानिर्धर्मता चाऽऽवेदिता भवति। यतस्तत्राय प्रक्रमः"जो होज उ असमत्थो, रोगेण व पेल्लिओ झुसियदेहो। सव्वमवि जहा भणियं, कयाइन तरेज काउंजे" ||1|| अस्या भावार्थः यः स्यादसमर्थो विकृष्टतपश्चरणाऽऽदिना, रोगेण च, राजभयाऽदिना प्रेरितः स्वाभाविकशक्तेश्च्यावितः, तथा झुषितदेहो जराऽतिव्याप्तत्वादशक्तिनिविष्टः / किं बहुनोक्तेनैवमादिकारणैः सर्वमपि यथा भणितं यथाऽऽगमे प्रतिपादितं क्रियाऽनुष्ठानं, कदाचनाऽपि यदि कथञ्चिद, विधातुं, (न तरेज त्ति) न शक्नुयावति। 'जे' इति पादपूरणे निपात इति गाथाऽर्थः। तदा कि प्राप्ताऽऽलम्बन इव समस्तमपि त्यजेदेवेत्याह-- 'सो विय निययपरक्कम-ववसायधिइबलं अगूहेंतो। मोचूण कूडचरिय, जयई जइतो अवस्स जई"||१|| अस्या व्याख्या-सोऽपि च पूर्वोक्तकारणैः सकलशक्तिरहितोऽपि निजपराक्रमव्यवसायधृतिबलमगोपयन् कूटचरितं मुक्त्वा , यत-ते यदि शक्तिपराक्रमोचितं विधत्ते, तदा यतिरेवाऽसौ, सुसाधुरेवेति, न पुनरन्योऽसाधुरित्यर्थः / तत इत्थंभूतस्यापि युक्तसंयमानुष्ठानस्यागत्यैवेति काकाऽऽवेदितम्, समर्थस्य पुनः का वार्ता? इति गाथाऽर्थः। अतो हेतोर्नित्यवासमपि समस्तानर्थबीजभूतं विदधाना यदीत्थं भूता भवन्ति, तदैवाऽऽराधना, नान्यथेत्यावेदयन्निदं गाथात्रयमाह"निम्मम निरहकारा, उज्जुत्ता नाणदंसणचरित्तम्मि। एगवखेत्ते वि ठिया, खवेंति पोराणयं कम्मं / / 1 / / जियकोहमाणमाया, जियलोहपरीसहा य जे धीरा। बूढावासे वि ठिया, खवेंति पोराणयं कम्मं / / 2 / / पंचसमिया तिगुत्ता, उज्जुत्ता संजमे तवे चरणे। वाससयं पि वसंता, मुणिणो आराहगा भणिया ||3|| सुगम चेदम, नवरमस्य विवरणं विदधताऽत्राभिहितम्-किमिदमेकार्थिकगाथात्रयम्? उच्यते-अत्यादरख्यापनपरम् / आदरश्चात्र सकलशक्तिरहितत्वाद् जङ्घाबलहीनतया चाऽऽगमनिषिद्धमपि नित्यवास कुर्वन् यदि यथाशक्तयोछच्छति-निर्ममत्वाऽऽदिविशेषणयुक्तो भवति, तदैवाऽऽराधको, नान्यथेत्यावेदितमिति। __आगमनिषेधश्चेतः सूत्रादेवावसीयते-- "साहेउ अट्टमासे, वासासु सभूमिओ निवा जंति। परबलरुद्धे वि पुरे, हावंतो मासकप्पं तु / / 1 / / कालाइदोसओ जइ, तदचओ एस कीरई नियमा। सव्वेण तह वि करइ, संथारग........याईहिं // 2 // वृद्धावासे पि, न यथाकथञ्चिदेव, कुशलः काशावलम्बनतोऽप्यवसेयः।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy