________________ णितियवास 2070 - अभिधानराजेन्द्रः - भाग 4 णितियवास यत आगमवचनमेवं व्यवस्थितम्"खेत्तेण अद्धजोयण, कालेण जाव भिक्खवेलं ति। खेत्तेण य कालेण य, जाणसु सपरक्कम थेरं / / 1 / / " अस्या अयं भावार्थ:-यदि जड धाबलहीनताऽऽदिकारणैः प्रभातोत्थितः प्रस्तुतभिक्षाचरवेलायामर्द्धयोजनं गन्तुं शक्नोति, तदा सपराक्रमत्वाद्विहारमेव कार्यते, न नित्यवासम्। यत आह"खेत्तेण अद्धगाउय, कालेणं जाव भिक्खवेलं ति। खेत्तेण य कालेण य, जाणसु अपरक्कम थेरं / / 1 / / " एवं पुनश्चाक्रमणरहितत्वान्नित्यवासं यतनया कार्यते। साचेयलेशतः"मासे मासे वसही, तणडगलाई य अन्न गेण्हति। भिक्खायरियवियारा, जहिं ठिया तत्थ नऽन्नासु // 1 // " अस्या इयमक्षरगमनिका-वातोद्रेकोपद्रुतोऽपि मूर्छाऽऽदिरोगाऽऽघ्राततनुजजाबलहीनतया ज्ञानाऽऽदिग्रहणकारणेन वा नित्यवास कुर्वाणो मासे मासे अन्यां वसति, तृणडगलाऽऽदीनि चान्यानि गृह्णाति, भिक्षा नान्यविभागे, विचारश्च बहिर्भूमियत्र विभागे स्थितास्तत्रैव, नान्यत्रेति गाथार्थः। वसत्यादिविभागासंप्राप्तौ किं कर्त्तव्यमित्याह"अट्टाए जाव एक, करेंति भागं असंथरगाम। अट्ठाए चिय वसहि, विभजती जाव मूलवसहीए" ||1|| अस्या अयं भावार्थ:-(अट्ठाए त्ति) यदि तृणडगलाऽऽदिविभागेनस्थातुं शक्नोति, तदैकमेव ग्राममष्टसप्तषष्ठाऽऽदिहीयमानभागैः प्रकर्वन् यावत्सकलमपि ग्राममेकेनैव विभागेन विधाय वसतिंचान्यान्यां गृह्णाति, तदभावे एकस्यामपि स्थितः संस्तारकंयतीनां विधत्ते, मा चित्तशुद्धेरभावे पापबन्धः स्यादिति / ततस्तच्छुद्धिनिमित्तमागममर्यादापरिपालनार्थ चानयात युक्त्या तिष्ठति, तत आराधको भवतीति गाथाऽर्थः। यत्पुनः पूर्वमेवंविधं प्रतिपादितम्-मासकल्पाऽऽदिना विहरतः संयमाऽऽत्मविराधना, सूत्रार्थो भयहानिरपीति। तदज्ञानविजृम्भितम्। नहि विदितपरमार्थाः संविग्ना मोक्षसुखाभिलाषिण एवं विध परमपुरुषाऽऽसे वितं सकलशास्त्रप्रतिपादितं परमनिर्जराकारणमेकान्ततः प्रभावनाकारणं समस्तभव्यप्राणित्राणक्षममुदितोदितमासकल्पविहारमतिदुष्करमवीरपुरुषाणामेवंविधाऽऽलम्बनजालपरिकल्पनया दूषयन्ति / तथाहि-यत्तावत्प्रतिपादितम् अवश्य मार्ग गतानां पृथिवीकायाऽऽदीनां विराधना संयमविराधना, सा न संभवति / यत ईर्यासमितिसमिताः साधवो भवन्ति / यत उक्तम्-"जुगमेत्तरदिट्टी, पयं पयं चक्खुणा विसोहंतो। अव्वक्खित्ताऽऽउत्तो, इरियासमिओ मुणी होइ॥१॥" अधमार्गे क्वापि सचेतनाया मिश्राया भुवः संभवः, कापि च हरितायाः, संभवो भविष्यति, ततोऽवश्यंभाविनी विराधनेति / न / तत्रावश्यंभाविगमनसंभवे शास्त्रेऽप्यनुज्ञानात्, केवलमत्र प्रायश्चित्तशुद्धेश्व निर्दोष एवेति। यचेर्यायुक्तस्यापि चड्क्रमणकृता विराधनाऽवश्यंभाविनीति भवता संभावितम् / तत्राऽपि न दोषलेशोऽप्यस्ति। यतः"उच्चालियम्मि पाए, इरियासमियरस संकमट्ठाए। आवजेज कुलिंगी, मरेज तं जोगमासज्ज / / 1 / / नहु तस्स तन्निमित्तं, बंधो सुहुमो विदेसिओ समए। अणवज्जो उवओगे-ण सव्वभावेण सो जम्हा॥२॥" इत्यतस्तेषां भगवतां परमसंयमिनां धीरपुरुषचवरितानुगामिनां परीषहोपसर्गदत्तोरस्थलानां मासकल्पविहारिणां नास्त्येव संयमबाधागन्धोऽपि / यच-परिश्रमेत्यादिनाऽऽत्मविराधनेत्युक्तम् / तदपि सुखधीबन्धनं व्यतिरिच्यान्यद् न साधयति / यतः प्रायः प्राणिनां रोगशोकभयभोगाऽऽदयः पूर्वोपात्तकर्मवसतः संभवन्ति, न यथाकथचित्, तत्पुनर्नित्यवासेऽपि समानम् / यदि पुनरेतदुच्यतेविशेषतो बाह्यकारणकलापमासाद्य तदुदयमासादयति, तदा तस्याङ्गीकृतत्वादवश्यवेद्यत्वादात्मविरोधनाऽपि न भवति। यतोऽवश्यवेद्यकर्मणां केनाऽपि त्राणं कर्तुं न शक्यते, अवश्यवेद्यत्वादेव। यच्चोक्तम्-अपरापरग्रामनगराऽऽदिगमने अपरिचितजनसकाशादुचितभक्तपानादेरसंभवे वातपित्ताऽऽदिक्षोभः स्यादिति। तदपि बालप्रलापकल्पम् / यतो व्रतग्रहणकाले तदङ्गीकृतमेव लाभालाभाऽऽदिकम् / यतः सर्वदैव साधूनामयमाशयविशेषः-"लाभालाभेसुखे दुःखे, जीविते मरणे तथा। स्तुतौ निन्दाविधाने च, साधवः समचेतसः॥१॥ अन्यच्चाऽऽपूर्वापूर्वग्रामनगरा-ऽऽदौ विहारं विदधता शिष्योपधिश्रावकप्रतिबोधाऽऽहाराऽऽदेर्वि-शेषतो लाभः सम्भवति, विशेषदेशनाश्रवणाद्विशेषतो भावसम्भवादिति / तथाहिलोकेऽप्येवमेव दृश्यते-देशान्तराऽऽयातप्राघूर्णकस्य सविशेषस्नानविलेपनचीरप्रदानपर्युपास्तिवचनश्रवणाऽऽदेस्तथैव दर्शनादिति; नित्यवासिना पुनः सर्वाऽभाव एव, असकृ-दायातप्राघूर्णकस्येव / उक्तं च--"अतिपरिचयादवज्ञा, भवति विशिष्टेऽपि वस्तुनि प्रायः / लोकः प्रयागवासी, कूपे स्नानं सदाचरति"||१|आगमेऽप्यभाणि-"पडिबंधो लहुयत्तं," इत्यादि। यदपि प्रतिपादितम् सूत्रार्थोभयहानिः स्यादिति। तदपि मिथ्यात्वतिमिरावगुण्ठितचेतसो वञ्चना। यतो न हि विहारवता संयमस्वाध्यायाऽऽद्यनुष्ठानं व्यतिरिच्यान्यत् कर्त्तव्यमस्तिा यः पुनर्विहारे वस्तुपरिकर्मणादौ तव्याघात उद्भावितः,सोऽङ्गीकृत एव; यतः सूत्रार्थोभयाभ्यासोऽपि संयमाऽऽद्यनुष्ठाननिमित्तमेव विधीयते, न जनरजनार्थम् / यत एतदुच्यते- "निचम्मि स सज्झाओ।" अन्यच्च "पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवद्धाः / संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः // 1 // " इति / यदपि मुग्धबुद्धिबन्धनार्थ किञ्चित्प्रयोगश्चेति जल्पितम्। तदपि न विदुषां मनागप्यसुखमुत्पादयति। साक्षाद्धेतोरसिद्धताऽऽङ्गनाऽऽलिङ्गितत्वान्नोत्सहते मासकल्पाऽऽधुचितविहारनिषेधव्यापारान्तरं प्रति, अनेकोपपत्तिभिर्मासकल्पविहारस्य संयम प्रति श्रवणतया समर्थितत्वादिति। अतः स्थितमिदम्मोक्षार्थ ग्रहीतदीक्षेण संयमार्थिना मासकल्पाऽऽदिना विहर्त्तव्यमिति / अस्यार्थस्यान्वयव्यतिरेकाभ्यामुपदेशमालाविधायकेन भगवता धर्मदासगणिनाऽपि तथैव समर्थितत्वात्। तथा च तत्सूत्रम्"कारणनीयावासे, सुठुतरं उज्जमेण जइयव्वं। जह ते संगमथेरा, सपाडिहेरा तथा आसि" // 1 // अस्यायमक्षरार्थः-कारणे हीनजवाबलत्वलक्षणे नित्यवासः कारणनित्यवासः, कारणनित्यवासे सुष्टुतरमतिशयेन यतितव्यमुद्यमेनाप्रमादेनेत्यर्थः / यथा-ते भगवन्त आगमप्रसिद्धाः संगमस्थविरसूरयः सप्रातिहार्या अप्रमत्ताऽऽदिगुणगणाऽऽवर्जितहृदयतया देवैरपि स्तूयन्ते, तदा, यदाऽसौ भगवान् वद्धवासमगमत्, आसीद् भूयादिति गाथाऽर्थः / दर्श०४ तत्त्व। जाहे वि अपरितंता गामाऽऽगरनगरपट्टणमडंता। तो केइ निअयवासी, संगमथेरं ववइसंति|११|