________________ णिग्गंथी 2051 - अभिधानराजेन्द्रः - भाग 4 णिग्गम द्वयोगसियोरुपरि वसन्ति, ततः प्रायश्चित्तं, दोषाश्च भवन्ति, द्वितीयपद च ग्लाने च सति वसति, भैक्षं च यतनया ग्रहीतव्यम्। भावार्थो निन्थानामिव द्रष्टव्यः। मासावाससूत्रम्से गामंसि वान्जाव रायहाणिंसि वा परिक्खेवंसि वा बाहिरियंसि कप्पइ निग्गंथीणं हेमंतगिम्हासु चत्तारि मासा वत्थए, अंतो दो मासे, बाहिं दो मासे, अंतो वसमाणीणं अंतो भिक्खायरिया, बाहिं वसमाणीणं बाहिं भिक्खायरिया / / 6 / अस्य व्याख्या प्राग्वत्। नवरं सबाहिरिके क्षेत्रे अन्तद्वी मासौ, बहिर्दी मासावित्येवं चतुरो मासान् निर्ग्रन्थीनां वस्तु कल्पत इति। अथ भाष्यम्एसेव कमो नियमा, सपरिक्खे सबाहिरीयम्मि। नवरं पुण नाणत्तं, अंतो बाहिं चउम्मासा।।१२६७।। एष एव पूर्वसूत्रोक्तः क्रमो नियमात् सपरिक्षेपे सबाहिरिके क्षेत्रे वसन्तीनां संयतीनां द्रष्टव्यः, नवरं पुनर्नानात्व विशेषोऽयम्-अन्तरभ्यन्तरे, बहिबाहिरिकायामेवमुभयोश्चत्वारो मासाः पूरणीयाः। चउण्हं उवरि वसंती, पायच्छित्तं च होंति दोसा य। नाणत्तं असईएँ तु, अंतो वसही बहिं चरइ / / 1268|| चतुर्णा मासानामुपरि यदि सबाहिरिके क्षेत्रे संयती वसनि, तदा तदेव प्रायश्चित्तं, त एव दोषाः, द्वितीयमपि तदेव मन्तव्यम,नानात्व विशेषः, पुनरबाहिरिकाया वसतेः, शय्यातरस्य वा यथोक्तगुणस्यासत्यभावे, अन्तः प्राकाराभ्यन्तरे, (वसहि त्ति) वसतौ पूर्वस्यामेव स्थिताः, बहिर्वाहिरिकायां चरन्ति भिक्षाचर्यामटन्ति। जोग्गवसहीऍ असई, तत्थेव ठिया चरंति बाहिं तु / पुव्वगहिए विगिंचिय, तत्तो चिय मत्तगादी वि।।१२६६॥ बहिः संयतीयोग्याया वसतेरभावे, तत्रैवाभ्यन्तरोपाश्रये स्थिताः सत्यो बहिश्वरन्ति, पूर्वगृहीतं शौचकत्तृणमगलाऽऽदि परित्यज्य तत एव बाहिरिकाया मात्रकाऽऽदीनप्यानेतव्यानि, न केवलं भिक्षेत्यादिशब्दार्थः / श्रुतसंहननाऽऽदिविषया सामाचारी, क्षेत्रकालाऽऽदिविषया वा स्थितिः स्थविरकल्पिकानामिव द्रष्टव्या / तदेवमुक्त आर्यिकाणामपि मासकल्पविधिः / बृ०१ उ० (निर्ग्रन्थीनां दूरतः परिहरणीयत्वं 'वसई' शब्दे वक्ष्यते) णिग्गम पुं०(निर्गम) निर्गमनं निर्गमः, कुतः सामायिक निर्गतमित्येवमादिरूपे निर्गमने, विशे०। अनु आ०म०। निर्गमस्य षड्डिधो निक्षेपःनामं ठवणा दविए,खेत्ते काले तहेव भावे य। एसो उ निग्गमस्स य,निक्खेवो छविहो होइ।।१५३३।। नामस्थापनानिर्गमौ नामाऽऽवश्यकाऽऽद्युक्तानुसारेण भावनीयो। द्रव्याद् द्रव्यस्य वा निर्गमः, क्षेत्रात्क्षेत्रस्य वा, कालात्कालस्य वा, भावाद्भावस्य वा निर्गम इत्यादि वाच्यम् / इति नियुक्तिगाथासंक्षेपार्थः ||1533|| विस्तरार्थं तु भाष्यकारः प्राऽऽहदव्वाओ दव्वस्स व, विणिग्गमो दव्वनिग्गमो सो य। तिविहो सचित्ताई, तिविहाओ संभवो नेओ।।१५३४॥ द्रव्याद् द्रव्यस्य वा निर्गमो द्रव्यनिर्गमः / स च सचित्ताऽऽदिद्रव्यसंबन्धित्वात् सचित्ताऽदिस्विविधः / तस्य च त्रिविधस्य सचित्ताऽऽदेस्त्रिविधादेव सचित्ताऽऽदेर्द्रव्यात्संभव उत्पादोज्ञेय इति॥१५३४|| तथाहिपभबो सचित्ताओ, भूमेरंकुरपयंगवफाई। किमिगब्भसोणियाई, मीसाओथीसरीराओ॥१५३५।। किमिधुणघुणचुण्णाई, दारूओ जंव निग्गय जत्तो। दव्वं विगप्पवसओ, जह सब्भावोवयारेहिं / / 1536 / / सचित्ताद् भूमिद्रव्यात्सचित्तद्रव्यस्याङ्कुरस्य प्रभवो निर्गमो ज्ञातव्यः, मिश्रस्य तु पतङ्गद्रव्यस्य, तस्य हि पक्षाऽऽदिप्रदेश अचित्ताः, शेषं तु सचित्तमिति मिश्रता / अचित्तस्य तु वाष्पद्रय्यस्या तदेवं सचित्तात्सचित्ताऽऽदेस्विविधस्य निर्गम इत्युक्तम् / अथ मिश्रात्स्त्रीशरीरद्रव्यात्सचित्तद्रव्यस्य कृमेर्निर्गमो वेदितव्यः, मिश्रस्य तु गर्भद्रव्यस्य मिम्भरूपस्य, तद्गतकेशाऽऽदीनामचित्तत्वात्, शेषस्य तु सचित्तत्वान्मिश्रताः अचित्तस्य तु शोणितद्रव्यस्य / मिश्रात्सचित्ताऽऽदेर्निगम इत्यपि भावितम्। अचित्तद्रव्याद्दारुणः काष्ठात्सचित्तस्य कृमिद्रव्यस्य निर्गमः, मिश्रस्य तुघुणस्य, पतङ्गवदस्यापि मिश्रत्वात्, अचित्तस्यतुधुणचूर्णस्य घुणाऽऽकृष्ट श्लक्ष्णतदवयवनिवहस्येत्यर्थः / अचित्तात्सचित्ताऽऽदेः निर्गम इत्यपि गतम् / तथा- 'जं व' इत्यादि। 'यद्वा- द्रव्यं यस्माद् द्रव्याद्विकल्पवशतो मानसकल्पनासमारोपाद्यथा सद्भावेन सद्भूतप्र-कारेण, उपचारेण वा निर्गतम्,सोऽपि द्रव्यान्निर्गमो द्रव्यनिर्गम उच्यते। तत्र यथा सद्भावेन विकल्पवशाद्यथा दुग्धाऽऽदिद्रव्यात् घृताऽऽदिद्रव्यस्य निर्गमः। अत्र हि भूमेः "संमूर्छजचटकन्यायेन"दुग्धात् घृताऽऽदिनिर्गमोन दृश्यत इति 'विकल्पवशतः' इत्युच्यते, दुग्धस्य च दधिधृताऽऽदिभावेन परिणाभिकारणता समीक्ष्यते, इत्येतावता यथा सद्भावेनेत्यभिधीयते। उपचारेण तु रूपकाऽऽदेर्द्रव्यागोजनाऽऽदेर्निर्गम इत्यादि सर्व यथासंभवमन्यदपि स्वबुद्ध्याऽभ्यूह्य वक्तव्यमिति // 1535 / / 1536 / / क्षेत्रनिर्गममाहखित्तस्स विनिग्गमणं, सरूवओ नऽत्थितं जमकिरियं / खेत्ताओ खेत्तम्मि वि, हविज दव्वाइनिग्गमणं / / 1537 / / उवयारओं खेत्तस्स य, विनिम्गमो लोगनिक्खुडाणं व / लद्धं विनिग्गयं ति य, जह खेत्तं राउला उत्ति / / 1538 / / यथा द्रव्यस्यापि क्वचित्कल्पनया निर्गम उच्यते, न तु स्वरूपतः, एवं क्षेत्रस्याऽपि स्वरूपेण कुतोऽपि निर्गमो नास्ति, तस्याऽक्रियत्वेन तदयोगात्। क्षेत्रात्पुनः निर्गमोऽस्ति, यथा आयुःक्षयाऽऽदिसमये ऊद्धधिोलोकाऽऽदिक्षेत्रादेवनारकद्रव्याऽऽदेर्निर्गमः / क्षेत्रेऽपिधान्याऽऽदेर्निर्गमोद्रष्टव्यः, नतु क्षेत्रस्य