SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ णिग्गम 2052 - अभिधानराजेन्द्रः - भाग 4 णिग्गम स्वरूपेण निर्गमः / किं सर्वथा नास्ति? इत्याह-उपचारतः कल्पनामात्रेण, क्षेत्रस्यापि निर्गमः समस्त्येव, यथा लोकक्षेत्रान्निष्कुटा निर्गता इति; तेषां स्वरूपेणाऽवस्थितानां निर्गमक्रियाभावेऽपि निर्गता इव निर्गता इति निर्गमोपचारः। तथा लब्ध विनिर्गतं क्षेत्रं राजकुलात्, निर्गत भरताऽऽदिक्षेत्रं दुःषमाऽऽदिकालाद्दुर्भिक्षाऽशिवाऽऽदेर्वेत्यादिति // 1537 // 1538 // कालनिर्गममाहकालो वि दव्वधम्मो, निक्किरिओ तस्स निम्गमो पभवो। तत्तो चिय दवाओ, पभवइ काले व जं जम्मि / / 1536 / / उवयारओ व सरओ, विणिग्गओ णिग्गओ य तत्तोऽहं। अहवा दुक्कालाओ, नरो व बालाइकालाओ॥१५४०|| कालोऽपि वर्तनारूपो द्रव्यधर्म एव / स च स्वरूपेण निष्क्रियः , द्रव्यद्वारेणैव तक्रियाप्रवृत्तेः / तस्य च तत एव स्वाश्रयभूताव्यान्निर्गमः प्रभव उत्पत्तिः / यथा-हरिताऽऽदिकं यस्मिन् वर्षाऽऽदिके काले प्रभवत्युत्पद्यते स कालनिर्गम इति।अथवा-उपचारतोऽपि कालनिर्गमा यथा-शरत्समयोऽसौ निर्गत आविर्भूतः, ततो वा शरत्कालाद्, दुष्कालाद्वा निर्गतो निस्तीर्णोऽहं बालाऽऽद्यवस्थातो वा नरो निर्गत इत्याधुपचारतः कालनिर्गम इति / 1536 / / 1540 / / अथ भावनिर्गममाहभावो विदव्वधम्मो, तत्तो चिय तस्स निग्गमो पभवो। दव्वस्स व भावाओ, विणिग्गमो भावओऽवगमो॥१५४१।। रूवाइपोग्गलाओ, कसायनाणादओ य जीवाओ। निंति एभवंति ते वा, तेहिंतो तचिओगम्मि / / 1542 / / भावोऽपि कालवद्रव्यधर्म एव। तस्य च ततो द्रव्याद्द्यो निर्गमः प्रभवः स भावनिर्गमः, द्रव्यस्य वा भावान्निर्गमो भावनिर्गमः / कः? इत्याहभावतो भावमाश्रित्य यो द्रव्यस्थापगमो विनाशः। इदमुक्तं भवति यदा द्रव्यं पूर्वपर्यायेण विनश्यति, अपूर्वपर्यायेण तूत्पद्यते, तदा पूर्वपर्यायात्प्राक्तनभावाद् द्रव्यस्य निर्गतत्वाद्भावान्निर्गमी भावनिर्गम इत्युच्यते / तथा रूपाऽऽदयो भावाः पुद्गलद्रव्यात्, कषायज्ञानाऽऽदयश्च जीवान्निर्गच्छन्ति प्रभवन्तीति भावाना निर्गमो भावनिर्गम उच्यते। (ते वा तेहिंतो त्ति) अथवा ते पुदलजीवाऽऽदयः पदार्थास्तेभ्यो रूपाऽऽदिभ्यः कषायाऽऽदिभ्यश्च भावेभ्यस्तद्वियोगे प्राक्तनभावविनाशे निर्गच्छन्तीति भावेभ्यो निर्गमो भावनिर्गम इत्युच्यत इति / तदेवं विनेयमतिव्युत्पादनार्थमभिहितः षड्डिधो निर्गमः // 1541 / / 1542|| इदानीं प्रकृते यावता प्रयोजनं तदुपदर्शयितुं प्रशस्तभावनिर्गमस्वरूपं तावद्दर्शयन्नाहतत्थ पसत्थं मिच्छ-तण्णाणाविरइभावनिग्गमणं / जीवस्स संभवंति य, जं सम्मत्तादओ तत्तो।।१५४३।। तत्रानन्तरोक्ते भावनिर्गमे प्रशस्तं शुभं निर्गमनम् / किम्? इत्याहमिथ्यात्वाऽज्ञानाविरतिलक्षणादप्रशस्तभायात् यनिंगमने निःसरणं जीवस्य। किमिति? इत्याह यद्यस्मात्संभवन्त्येव ततो मिथ्यात्वाऽऽद्यप्रशस्तभावनिर्गमाञ्जीवस्य मुक्तिपदप्राप्तिहेतवः सम्यक्त्वाऽऽदयो गुणा इति ||1543 // भवत्येवं, प्रस्तुते केन प्रयोजनम्? इत्याहएत्थ उपसत्थभाव-प्पसूइमेत्तं विसेसओऽहिगयं। अपसत्थावगमो विय, सेसा वि तदंगभावाओ // 1544|| इह च प्रक्रमे सामायिकाध्ययनं प्रस्तुतम् / तच क्षायोपशमिके भावे वर्त्तते। अत इह तस्यैव प्रशस्तक्षायोपशमिकभावस्य या प्रसृतिर्महावीरात् तनिमिरूपा, तयैव विशेषतोऽधिकृतमधिकारः। तथाऽप्रशस्तमिथ्यात्वाऽऽदिविषयौदयिकभावस्य योऽपगमो विनाशस्तेनापि चाधिकारः, तदपगमाभावे प्रशस्तभावप्रसूतेरेवायोगादिति / शेषास्तु निर्गमभेदास्तदङ्गभावेन प्रशस्तभावनिर्गमकारणतयाऽऽनन्तर्येण पारम्पर्येण वा कोऽपि कथञ्चिद् व्याप्रियत इतीह निर्दिष्टा इति / / 1544 / / तदङ्गत्वमेव द्रव्याऽऽदीनां दर्शयतिवीरो दव्वं खेत्तं, महसेणवणं पमाणकालो य। भावो य भावपुरिसो, समासओ निग्गमंगाई।।१५४५।। यतो द्रव्यात्सामायिकं निर्गतं, तद् द्रव्यमत्र श्रीमन्महावीरो मन्तव्यः, यस्मिँश्च क्षेत्रे तन्निर्गतं, तदिह महसेनवनमवगन्तव्यम् / कालस्तु प्रथमपौरुषीलक्षणः प्रमाणकालः / भावस्तु भावपुरुषो वक्ष्यमाणलक्षणः / एतानि समासतः संक्षेपतः सामायिकस्य निर्गमाङ्गानीति / / 1545 / / एतदेव दर्शयतिसामइयं वीराओ, महसेणवणे पमाणकाले य / भावपुरिसा हि भावो, विणिग्गओ वक्खमाणोऽयं / / 1546 / / गतार्था, नवरं श्रीमन्महावीरजीवलक्षणाद्भावपुरुषादयं वक्ष्यमाणविस्तरस्वरूपः सामायिकलक्षणोभावो विनिर्गतः, इह चक्षायो-पशमिके भावे वर्तमानत्वात् 'सामायिकलक्षणो भावः" इत्युक्तम् // 1546|| अथ महावीरलक्षणस्य द्रव्यस्य निर्गमं तावदभिधित्सुराह-- इच्चेवमाइ सव्वं, दव्वाहीणं जओ जिणस्सेव। तो निग्गमणं वोत्तुं, वोच्छं सामाइयस्स तओ॥१५१७।। इत्येवमादिकं क्षेत्रकालनिर्गमनाऽऽदिकं सामायिकाध्ययनाऽ5-- वश्यकश्रुतस्कन्धाऽऽचाराऽऽदिकं वा सर्वमपि यतो यस्माद् द्रव्यस्य महावीरलक्षणस्याधीनम्, ततस्तस्यैव महावीरजिनस्य निर्गमनमुक्त्वा, ततः सामायिकस्य निर्गमनं वक्ष्य इति // 1547 / / ननु महावीरजिनस्याऽपि निर्गमनं कथं वक्तव्यम्? इत्याहमिच्छत्ताइतमाओ, स निग्गओ जह य केवलं पत्तो। जह य पसूयं तत्तो, सामइयं तं पवक्खामि / / 1558 / / तमिति तदेतत्सर्वं प्रवक्ष्यामीति गाथार्थः // 1548 / / विशे०। अत्र वक्ष्यमाणो भावः सामायिकलक्षणः, एतत्र सर्व भगवन्महावीरलक्षणद्रव्याधीनमतस्तस्यैव प्रथमतो मिथ्यात्वाऽऽदिभ्यो निर्ग--- ममभिधित्सुराहपंथं किर देसित्ता, साहूणं अडविविप्पणट्ठाणं। संमत्तपढमलंभो, बोधव्वो बद्धमाणस्स // 146 / / पन्थान किले त्याप्तवादे, देशयित्वा कथयित्वा, साधुभ्यः सूत्रे षष्ठी प्राकृ तत्वात् / (अमवि त्ति) प्राकृ तत्वादेवात्र सप्तम्या लोपः। अटव्यां पथो विप्रनष्टेभ्यः परिभ्रष्टेभ्यः, पुनस्तेभ्य एव दे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy