________________ णिग्गंथी 2050 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथी च्छत, एवं समुद्दिश्य पानकेनाऽऽचमनं कुर्वन्ति, प्रवर्तिन्याः कमठक क्षुल्लका निर्लेपयन्ति, ततः सर्वास्वपि समुद्दिष्टासु मण्डलीषु स्थविरा समुद्दिशति। एवंविधं दृष्ट्वा किं भवति? इत्याहदठूण निहुयवासं, सोयपयत्तं अलुद्धमत्तं च। इंदियदमं च तासिं, विणयं च जणो इमं भणइ 1236 / / तासां संयतीनां निभृतवासं विकथाऽऽदिविरहेण नियापारतयेवाऽऽवस्थानं, शौचप्रयत्नं वारकग्रहणाऽऽदिरूपम्, अलुब्धवत्त्वं च विकृत्यादिप्रत्याख्यानाभिधातम्, इन्द्रियदमं च श्रोत्राऽऽदीन्द्रियनिग्रहणं, विनयं प्रवर्त्तिन्यादिषु अभ्युत्थानाऽऽदिरूपं. दृष्ट्वा जनो लोक इदं ब्रवीतिसच्चं तवो य सीलं, अणहिक्खाओ अ एगमेगस्स। जइ बंभं जइ सोयं, एयासु परंण अन्नासु // 1240 / / बाहिरमलपरिबुद्धा, सीलसुगंधा तवोगुणविसुद्धा। धन्नाण कुलुप्पन्ना, एआ अ वि होज अम्हं पि।।१२४१।। सत्यं वाकर्मणोरविसंवादिता, तपोऽनशनाऽऽदि, शीलं सुस्वभावता, अनधिकखादश्वाविषमभोजनम्, एकैकस्याः परस्परमूषाम्, तथा यदि ब्रह्मचर्यं यदि शौच शुचिसमाचारता। एतानि सत्याऽऽदीनि, यदि परमेतासु संयतीषु दृश्यन्ते, नान्यासु शाक्याऽऽदिपाखण्डिनीषु, ततो यद्यप्येता बाह्यमलेन परिक्षिप्ताः, तथापि शीलेन सुगन्धाः, तपोगुणैरनशनाऽऽदिभिः, यद्वातपसा प्रतीतेन, गुणैश्वोपशमाऽऽदिभिर्विशुद्धाः, धन्यानां कुलोत्पन्नाः, एता येषां कुले उत्पन्नास्तेऽपि धन्या इति भावः / अपिः संभावनायां संभाव्यते / किमर्थः? यदस्माकमपि भगिनी,दुहिता च एतादृशस्वकुलोज्ज्वालनकारिण्यो भवेयुः। एवं तत्थ वसंती-णुवसंतो सो य सिं अगारिजणो। गिण्हंति य संमत्तं, मिच्छत्तपरंमुहो जाओ।॥१२४२।। एवं तत्र वसन्तीनां तासामगारीजन उपशान्तः प्रतिबुद्धः, ततो मिथ्यात्वपराड्मुखो जातः सन् सम्यक्त्वं गृह्णाति, च-शब्दादेशविरतिं वा, कश्चित्तद्गुणग्रामरजितमनाः सर्वविरतिमपि प्रतिपद्यते / गतं भिक्षार्थनाविधिद्वारम्। अथ प्रत्यनीकद्वारमाहतरुणीण अभिवणे, संवरितो संजतो निवारेइ। तह वि य अठायमाणे, सागारिओं तत्युवालभइ / / 1243 / / तरुणीनां संयतीनामभिद्रवणे प्रत्यनीकेन विधीयमाने सति संवृतः संयतीवेषाऽऽच्छादितः संयतो निवारयति, तथाऽपि चातिष्ठति तस्मिन् सागारिकः शय्यातरः, तत्रोपसर्गे , तमुपालभते। एतामेव नियुक्तिगाथां भावयतिगणिणीणऽकहणे गुरुगा, सा वि य न कहेइ जइ गुरूणं तु। सिट्टम्मि य ते गंतुं, अणुसट्ठी मित्तमाईहिं॥१२४४|| कश्चित्तरूणो विषयलोलुपतया संयतीनामुपद्रवं कुर्यात्, ततस्तत्क्षणादेव ताभिः प्रवर्तिन्याः कथनीयम्, यदि न कथयन्ति, ततश्चत्वारो गुरवः / सा च प्रवर्तिनी यदि गुरूणां न कथयति, तदा चतुर्गुरवः, आज्ञाऽऽदयश्च दोषाः, तस्मात्कथयितव्यम्, ततः शिष्टे कथिते ते आचार्यास्तस्याविरतिकस्य पार्श्व गत्वा साध्वीशीलभङ्गस्य दारुणविपाकतासूचिकामनुशिष्टिं ददति / यद्युपरमते ततः सुन्दरम् / अथ नोपरमते, ततो यानि तस्य मित्राणि, आदिशब्दाद्ये वा भ्रात्रादयः स्वजनास्तेषां निवेद्यम्, तैः प्रज्ञापिते यदि स्थितः, ततो लष्टम्। तह वि य अठायमाणे, वसभा भेसिंति तह वि य अठंते। अमुगत्थ घरे पजह, तत्थ य वसभा वतिणिवेसा // 1245|| तथाऽप्यतिष्ठति तस्मिन् प्रत्यनीके, वृषभा गच्छस्य शुभाशुभकार्यचिन्तानियुक्ताः, तंप्रत्यनीकं भापयन्ति, तथाऽप्यतिष्ठति यस्तरुणः कृतकरणः स संयतीनेपथ्यं कृत्वा तस्य संकेतं प्रयच्छति, यथा-अमुकत्र गृहे समागच्छत, ततो वृषभा व्रतिनीवेषं परिधाय तेन साधुना सह तत्र गत्वा प्रत्यनीकस्य शिक्षां कुर्वन्ति, तथाऽप्यनुपशान्ते तस्मिन् सागारिकस्य निवेद्यते, तेनोपलब्धे यदि स्थितः, ततः सुन्दरम्। अथ नास्ति तदानीं सन्निहितःसागारिए असंते, किचकरे भोइयस्स व कहिंति। अण्णत्थ ठाणे जिंती,खेत्तस्सऽसती सति णिवे वा // 1246 / / सागारिके असंनिहिते कृत्यकरस्य ग्रामचिन्तानियुक्तस्य भोगिकस्य ग्रामस्वामिनः कथयति, तेन शासितोऽपि यदि नोपरमते, ततः संयतीरन्यत्र स्थाने क्षेत्रे नयन्ति। अथ नास्ति संयतीप्रायोग्यमपर, स्वयं वा संयता ग्लानाऽऽदिकार्यव्यापृता न शक्नुवन्ति क्षेत्रान्तरं गन्तुं, ततो नृपस्य दण्डिकस्य निवेद्यते, स प्रत्यनीकमुपद्रवन्तं निवारयति / गतं प्रत्यनीकद्वारन्। बृ०१ उ०। नि०चू०। ('गोयर-चरिया" शब्दे तृ०भा० 676 पृष्ठे भिक्षाविधिरुक्तः) अथ निर्ग्रन्थीना मासः। कस्मात्तासां द्वौ मासाविति दारं व्याख्यायते-शिष्यः पृच्छति-किं निर्ग्रन्थीनामभ्यधिकानि महाव्रतानि, येन तासां द्वौ मासौ, निर्ग्रन्थानामेकं मासमेकत्र वस्तुमनुज्ञायते? सूरि राहजइ वि य महव्वयाई, निग्गंथीणं न होंति अहियाई। तह विय निचविहारे, हवंति दोसा इमे तासिं / / 1264 / / यद्यपि च निर्ग्रन्थीनां महाव्रतानि नाधिकानि भवन्ति, तथाऽपि नित्यविहारे मासे मासे क्षेत्रान्तरं संक्रमणे, इमे दोषास्तासां भवन्ति। मंसाइपेसिसरिसा, वसही खेत्तं च दुल्लभं जोग्गं / एएण कारणेणं, दो दो मासा अवरिसासु // 1265 / / मांसाऽऽदिपेशीसदृशाः संवत्यः, सर्वस्याप्यभिलषणीयत्वात, तथा तासा योग्या वसतिर्दुर्लभा, क्षेत्रं च तत्प्रायोग्योपेतं दुर्लभ, ततो यथोक्तगुणविकलायां वसतौ दोषदुष्ट वा क्षेत्रे स्थाप्यमानानां बहवः प्रवचनविराधनाऽऽदयो दोषा उपढौकन्ते / एतेन कारणेन तासामवर्षासु वर्षावासं विमुच्य द्वौ द्वौ मासावेकत्र वस्तुमनुज्ञायते। अथ द्वयोरुपरि वसन्तीनां दोषान्, द्वितीयपदं चोप दर्शयतिदुण्हं उवरि वसंती, पायच्छित्तं च होंति दोसा य / विइयपयं च गिलाणे, वसती भिक्खं च जयणाए / / 1266 / /