________________ णिग्गंथी 2046 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथी निकारणम्मि मग्गओं, कारणे समगं च पुरतो वा // 1226 / / एवं वसतिविचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतीप्रायोग्य क्षेत्रं, ततः संयतीवर्गस्याऽऽनयनं तत्र क्षेत्रे भवति। कथम् ? इत्थाह-निष्कारणे निर्भये, निराबाधे वा सति साधवः पुरतः स्थिताः, संयत्यस्तु मार्गतः पृष्ठतः स्थिता गच्छन्ति, कारणे तु समकं वा साधूनां पार्चतः, पुरतो वा साधूनामग्रतः स्थिताः संयत्यो गच्छन्ति। निप्पच्चवायसंबं-धिभाविए गणहरऽप्पविइ तइए। तेणादिभए सत्थे-ण सद्धि कयकरणसहिते वा // 1230 // निष्प्रत्यपाये संयतीनां ये संबन्धिनः स्वज्ञातीयाः, भाविताश्च सम्यक्परिणतजिनवचना निर्विकाराः संयताः, तैः सह गणधर आत्मद्वितीयः, आत्मतृतीयो वा संयतीर्विवक्षितं क्षेत्रं नयति / अथ स्तेनाऽऽदिभयं वर्त्तते, ततः सार्थेन सार्द्ध नयति, यो वा संयतः कृतकरण इषुशास्त्रेण सहितः संयतीस्तत्र नयति,सचगणधरात्स्वयं पुरतः स्थितो गच्छति, संयत्यस्तु मार्गतःस्थिताः। अत्रैव मतान्तरमुपन्यस्य दूषयन्नाहउभयट्ठाइनिविटुं, मा पेल्ले वतिणि तेण पुरतेगे। तं तु न जुज्जइ अविणय, विरुद्ध उभयं च जयणाए।।१२३१।। एके सूरयो बुवते उभयं कायिकीसंज्ञे, तदर्थम्, आदिशब्दादपरस्मिन् वा क्वचित्प्रयोजने विनिविष्टमुपविष्ट सन्तं संयतं, व्रतिनी मा प्रेरयतु, इत्यनेन हेतुना संयत्यः पुरतो गच्छन्ति। अत्राऽऽचार्य आह-तत्तुयदुक्तं, न युज्यते कुतः? इत्याह-पुरतो गच्छन्तीना तासामविनयः साधुषु संजायते, लोकविरुद्ध चैवं परिस्फुट भवति-अहो ! महेलाप्रधानमासा दर्शनं, यत एवमतो मार्गतः स्थिता एव ता गच्छन्ति, उभयं च कायिकीसंज्ञारूपं यतनया कुर्यात्। का पुनर्यतना? इति चेदुच्यते यत्रैकः कायिकी संज्ञा वा व्युत्सृजति, तत्र सर्वेऽपि तिष्ठन्ति, तथास्थिताँश्व तान् दृष्ट्वा संयत्योऽपि नाग्रतः समागच्छेयुः, ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीति / गतं गच्छस्याऽऽनयनमिति द्वारम्। अथ वारकद्वारमाहजहियं च आगरिजणो, चोक्खन्भूतो सुईसमायारो। कुडमुहदद्दरएणं, वारगनिक्खेवणा भणिया।।१२३२।। यस्मिश्च ग्रामाऽऽदावगारीजनोऽविरतिकालोकः, चोक्षभूतः शुचिसमाचारश्च वर्तते, तत्र वारकग्रहणं निर्ग्रन्थीभिः कर्त्तव्यम् / अथ न कुर्वन्ति, ततश्चत्वारो गुरवः / यच्च प्रवचनोड्डाहाऽऽदिकं, तन्निष्पन्नं प्रायश्चित्तम् / यत एवमतः कुटमुखे घटकण्ठके श्लक्ष्णचीवरदर्दरकेण पिहितस्य वारकस्य निक्षेपणा भणिता भवति।। थीपडिबद्धे उवस्सएँ, उस्सग्गपदेण संवसंतीओ। वचंति काइभूमि, मत्तगहत्थाण आयमणं // 1233 / / उत्सर्गपदेन संयतीभिः स्त्रीप्रतिबद्धे उपाश्रये वस्तव्यमिति कृत्वा तत्र संवसन्त्यो यदा कायिकी भूमिं व्रजन्ति, तदा मात्रकहस्तावारकं हस्ते गृहीत्वा व्रजन्ति, तासामगारीणां प्रत्ययो जायते-एताः कायिकी कृत्वा पश्चादाचमनं करिष्यन्ति, अहो ! शुचिसमाचारा इति। तत्र च गतास्तासामदर्शनीभूता आचमनं कुर्वन्ति। सच वारको अन्तर्लिप्तः कर्त्तव्यः कुतः? इत्यत आह दुक्खं विसुयावेठ, पणगस्स य संभवो अलित्तम्मि। संदंते तसपाणा, आवञ्जणतक्कणाऽऽदीया।।१२३४।। वारकोऽलिप्तः सन् किम्? (विसुयावेउंति) शोषयितुं दुःखं दुःखकरो भवति, अलिप्ते च पानकभावितत्वात्पनकस्य संभवः संमूर्छन भवति, अलिप्तश्च वारकः पानके प्रक्षिप्ते सति स्यन्दते परिगलति, स्यन्दने च उसप्राणिनः कीटिकामक्षिकाऽऽदयः समागच्छेयुः / (आवजणं ति) यदनन्तकायनिकायविकलेन्द्रियेषु संघट्टनाऽऽदिकमापद्यते, तन्निष्पन्नं प्रायश्चित्तम्। (तक्कणाई यत्ति) ततोवारकानपानकेन परिमलति मक्षिकाः पतन्ति, तासां ग्रसनार्थ गृहकोकिला धावति, तस्या अपि भक्षणार्थ मार्जारीत्येवं तर्कणम् , तदादयो दोषा भवेयुः। यत्र पुनः कायिकीभूमौ सागारिकं भवति, तत्रेयं यतनासागारिए परंमुह-दगसद्दमसंफुसंतिओ णेत्तं। पुलएज्ज मा य तरुणी, तो अच्छदवं तु जा दिवसो।।१२३५|| ("दृशो नियच्छ०" ||8|4|181 / / इत्यादिना 'पुलए' आदेशः।) सागारिके सति पराङ्मुखीभूय कायिकीं कृत्वा नेत्रं भगमसंस्पृशन्त्यो दकशब्दं पानक प्रक्षालनानुमापकं कुर्वते, तथा तरुण्यः रिचयः किमत्रास्ति पानकं, न वेति जिज्ञासया मा प्रलोकन्तामिति हेतोस्तस्मिन्वारके तावदच्छमकलुषं द्रवं पानकं प्रक्षिप्त तिष्ठति, यावदिवसः, ततः सन्ध्यासमये तत्पानकं पिवन्ति। गतं वारकद्वारम्। अथ भक्तार्थनाविधिद्वारमाहमंडलिठाणस्सऽसती, बला व तरुणीसु अहिपतंतीसु। पत्तेयकमढ जण-मंडलिथेरी उ परिवेसे // 1236|| यद्यसागारिकं, ततो मण्डल्या समुद्दिशन्ति, अथ मण्डलीभूमिः सागारिकबहुला, ततो मण्डलिस्थानस्यासति, बलाद्वा प्रणयेन तरुणीष्वभिपतन्तीषु तत्रौर्णिकमल्पमधः प्रस्तीर्य तस्योपरि सौत्रिकं तत्राप्यलावुपात्रकाणि स्थापयित्वा प्रत्येकं कमटकेषु भुञ्जते, प्रवर्तिनी च पूर्वाभिमुखा धुरि निविशते, तत एका मण्डलिस्थविरा यमलजननी सहोदरा सर्वासामपि परिवषयेत्, आत्मनोऽपि योग्यमात्मीये कमठके प्रक्षिपेत्। ओगाहिमाइविगई, समभाएं करेइ जत्तिया समणी। तासिं पच्चयहेतुं, अणहिक्खट्ठा अकलहो अ॥१२३७।। अवगाहिम पक्वान्नम्, आदिशब्दाद् घृताऽऽदिकाश्च विकृतीः, यावत्यः श्रमण्यः, तावतः समभागान्, मण्डलिस्थविराकरोति। किमर्थम्? तासां श्रमणीनां प्रत्ययार्थम्, तथा-(अणहिक्खट्ट त्ति) अनधिकखादनार्थ, सर्वासमप्यविषमसमुद्देशनार्थम्, अकलहश्चैवं भवति, असंखडं न भवतीत्यर्थः। ताश्च समुद्देष्टमुपविशन्त इत्थं ब्रूतेनिव्वीइए विइयाई, विगईओ लंवणा वए विइया। अण्ण गिलायंविलिया, अज्ज अहं देह अन्नासिं / / 1238|| एका व्यादिसंख्याविकृतयो मुत्कलाः, शेषाणां प्रत्याख्यानम्, अपरा भणति-अद्य मामेतावन्तो लम्वनाः कवलाः, इत ऊर्द्ध नियमः। अन्याऽभिधत्ते-अद्याहमन्नग्लाना, ग्लानपर्युषितमन्नं मया भोक्तव्यमित्येवं प्रतिपन्नाभिग्रहा। तदपरा बूते-अद्याहमाचाम्लिका, कृता चाम्लप्रत्याख्याना, अत इदं विकृ त्यादिक मन्यासा प्रय