________________ णिग्गंथी 2048 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथी 25 ऽभिधातव्यम्-यथा किलाक्षिणी स्वहस्खेन परहस्तेन वा उपद्रूयमाणे रक्ष्येते, तथैता अपि यद्यात्ममानुषैः, परमानुषैर्वा उपद्रूयमाणा रक्षसि, तत एता रक्षिता भवन्तीति / यद्येव प्रतिपाद्योपाश्रयस्य दान करोति, ततः स्थापनीयाः। अथाप्रतिपद्यामाने स्थापयन्ति, ततश्चत्वारो गुरुकाः अन्याऽऽचार्यभिप्रायेणामुमेवार्थमाहघणकुड्डा सकवाडा, सागारियभाउभगिणिपेरंता। निप्पचवाय जोग्गा, वित्थिन्नपुरोहडावसही // 1216 / / घनकुड्या पक्वेष्टकाऽऽदिमयभित्तिका, सकपाटा कपाटोपेतद्वारा, सागारिकसत्कानां मातृभगिनीनां गृहाणि पर्यन्ते पार्श्वतो यस्याः सा सागारिकमातृभगिनीगृहपर्यन्ता। गाथायामनुक्तोऽपि गृहशब्दो द्रष्टव्यः। निष्प्रत्यपाया दुर्जनप्रवेशाऽऽदिप्रत्यपायरहिता, विस्तीर्ण पुरोहडं' गृहपश्चाद्धागो यस्यां सा विस्तीर्णपुरोहडा, एवंविधा वसतिः संयतीनां योग्या। नासन्न-नातिदूरे, विहवापरिणयवयाण पडिवेसे। मज्झत्थऽवियाराणं, अकुऊहलभावियाणं च / / 1220 / / विधवाश्च ताः परिणतवयसश्च थविरस्त्रियः तासां, तथा मध्यस्थानां कन्दर्पाऽऽदिभावविकलानामविकाराणां गीताऽऽदिविकाररहितानाम्, अकुतूहलानाम्- संयत्यो भोजनाऽऽदिक्रिया कथं कुर्वन्तीति कौतुकवजिताना, भावितानां साध्वीसामाचारीवासितानां संबन्धि यत्प्रतिवेश्म प्रत्यासन्नगृह, तत्र नाविदूरे संयतिप्रतिश्रयो ग्राह्यः / ___ अथान्याऽऽचार्यप्रतिपाद्यशय्यातरस्वरूपमाहभोइयमहत्तराऽऽदी, बहुसयणो पिल्लओ कुलीणो य। परिणतवओ अमीरू, अणभिग्गहिओ अकूतुहली।।१२२१।। कुलपुत्त सत्तमंतो, भीयपरिस भद्दओ परिणओ अ। धम्मट्ठी य विणीतो, अञ्जासेजायरो भणिओ / / 1222 / / यो भोगिक महत्तराऽऽदिर्बहुस्वजनो बहुपाक्षिकः, तथा प्रेरकः षङ्गाऽऽदीनां स्वगृहे प्रविशन्तीनां निवारकः, कुलीनः, परिणतवयाश्च प्रतीतः, अभीरुरुत्पन्ने महत्यपि कार्ये न बिभेति, कथमेतत् कर्तव्यमिति ? अनभिगृहीत आभिग्रहिकमिथ्यात्वरहितः, अकुतूहली संयतीनां भोजनाऽऽदिदर्शने कौतुकवर्जितः / यस्तु कुलपुत्रकः, सत्त्ववान् न केनाप्यभिभवनीयः, भीतपर्षत् प्राग्वत्, भद्रकः शासने बहुमानवान्, परिणतो वयसा मत्या वा, धर्मार्थी धर्मश्रद्धालुः, विनीतो विनयवान्। एष आर्याणां शय्यातरोभणितस्तीर्थकरैः / गत वसतिद्वारम्। बृ० 130 / ('वसहि' शब्दे विशेषविधिः) अथ विचारद्वारमाहअणॉवायमसंलोगा, अणॉवाया चेव होइ संलोगा। आवायमसंलोगा, आवाया चेव संलोगा।।१२२३।। अनापाता असंलोकाः 1, अनापाताश्चैव संलोकाः 2, आपाता असंलोकाः 3, आपाताः संलोकाश्चेति 4 / चतस्रो विचारभूमयः। एतासु संयतीनां विधिमाहबीयारे बहि गुरुगा, अंतो वि य तइयवञ्जिते चेव। तइए वि जत्थ पुरिसा, उवेंति वेसित्थियाओ य॥१२२४।। यदि 'पुरोहडे' विद्यमाने संयत्यो ग्रामाद् बहिर्विचारभुवं गच्छन्ति, ततश्चतुर्ध्वपि स्थण्डिलेषु प्रत्येकं चतुर्गुरुकाः, अन्तरेऽपि च ग्रामाभ्यन्तरे पुरोहडाऽऽदौ आपातासंलोकलक्षणं तृतीयस्थण्डिलं वर्जयित्वा शेषेषु त्रिषु स्थण्डिलेषु गच्छन्तीनां त एव चत्वारो गुरुकाः। तृतीयेऽपि स्थण्डिले यत्र पुरुषा वेश्यास्त्रियश्चोपयन्ति आपतन्ति, तत्र चत्वारो गुरुकाः। यत्र तु कुलजानां स्त्रीणामापातो भवति तत्र गन्तव्यम्। किं पुनः कारणं प्रथमाऽऽदीनि स्थण्डिलानि तासां नानु जायन्ते? उच्यतेजत्तो दुस्सीला खलु, वेसित्थिनपुंसहेट्ठतेरिच्छा। सा उ दिसा पडिकुट्ठा, पढमा बिइया चउत्थी य / / 1225 / / (जत्तो त्ति) यस्यां दिशि दुःशीलाः परदाराभिगामिनः पुरुषाः, तथा वेश्याः स्त्रियो, नपुंसकाश्च (हेढ त्ति) अधो नापिताः, तिर्यश्चश्च वानराऽऽदय आपतन्ति, सा तु सा पुनर्दिग्, प्रथमा द्वितीया चतुर्थी च प्रतिबिद्धा, प्रथमाऽऽदीनि स्थण्डिलानीत्यर्थः / अथैनामेव नियुक्तिगाथां व्याचष्टेचारभडघोडमिंठा, सोलगतरुणाय जे य दुस्सीला। उन्भामित्थी-वेसी-अपुमे सु उविंति उतदट्ठा।।१२२६।। चारभटा राजपुरुषः, घोटाश्चेटाः, मिण्ठाः गजपरिवर्तकाः, सोलास्तुरगचिन्तानियुक्ताः / एवमादयो ये तरुणाः सन्तो दुःशीलाः, ते प्रथमद्वितीययोः स्थण्डिलयोरनापातत्वादेकान्तमिति कृत्वा बभ्रामकस्त्रीषु वा वेश्यासु वा (अपुमेसु त्ति) नपुंसकेषु वा पूर्वाप्राप्तेषु, तदर्थ तेषामुद् भ्रामकरत्रीप्रभृतीनां प्रतिसेवनार्थमायान्तीति। चतुर्थे तु स्थण्डिले संलोकत्वादेते दुःशीलाऽऽदयः संयतीवर्गान् पश्येयुः, संयतीवर्गेण वा ते दृश्येरन्नित्यतस्त दपि निषिध्यतेहिट्ठ उवासणहेउं, णेगाऽऽगमणम्मि गहण उडुहो। वानरमयूरहंसा, छाला सुणगादितेरिच्छा।।१२२७।। अधस्तादुषासनमध्ये लोचकर्म, तद्धेतोरधो नापिते पूर्वप्राप्ते लध्वनेकेषां मनुष्याणां मध्ये लोचकर्मकारापकर्मणामागमने सति यादीर्णमोहास्ते संयति गृह्णन्ति, ततो ग्रहणे उड्डाहो भवति, तथा वानरमयूरहंसाः, छगलाः, शुनकाऽऽदयश्व तिर्यश्चस्तत्राऽऽयाताः संयतीमुपसर्गयेयुः / यत एवं ततः किमित्यत आहेजइ अंतो वाघाओ, बहिया तासिं तइय अणुन्नाया। सेसा णाणुन्नाया, अजाण वियारभूमीओ।।१२२८|| यद्यन्तरे ग्रामाभ्यन्तरे व्याघातः पुरोहडाऽऽदेरभावः, ततो बहिस्तासां तृतीया विचारभूमिरापातासंलोकरूपाऽनुज्ञाता, तत्राऽपि स्वीणामेवाऽऽपातो ग्राह्यो, न पुरुषाणां, शेषा विचारभूमयोऽनापातासंलोकाऽऽद्या आर्यिकाणां नानुज्ञाताः / गतं विचारद्वारम् / वृ०१ उ०। ('वसहि' शब्दे रात्रौ मात्रकयतना) अथ संयतीगच्छस्याऽऽनयनमिति द्वारमाहपडिलेहियं च खेत्तं, संजइवग्गस्स आणणा होइ।