SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ णिग्गंथी 2047- अमिधानराजेन्द्रः - भाग 4 णिग्गंथी अस्यापि व्याख्या प्राग्वत, नवरमबाहिरिके क्षेत्रे कल्पते निर्ग-न्थीनां हेमन्तग्रीष्मेषु द्वौ मासौ वस्तुमिति। अथ भाष्यविस्तरः-- एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्वो। जं इत्थं णाणत्तं, तमहं वोच्छं समासेणं // 1207 / / एष एव निर्ग्रन्थसूत्रोक्तः 'पवजा सिक्खापय," इत्यादिकः क्रमो नियमानिन्थीनामपि ज्ञातव्यो भवति / यत्पुनरत्र विहारद्वारे नानात्वं, तदहं वक्ष्ये समासेन। प्रतिज्ञातमेव निर्वाहयतिनिगंथीणं गणहर-परूवणा खेत्तमग्गणा चेव। वसही वियार गछ-स्स आणणा वारए चेव / / 1208|| भत्तट्ठणए य विही, पडिणीए भिक्खनिग्गमे चेव / निग्गंथाणं मासो, कम्हा तासिंदुवे मासा? / / 1206 / / निग्रन्थीनां यो गणधरो गच्छवर्तापकः, तस्य प्ररूपणा कर्त्तव्या। ततः क्षेत्रस्य संयतीप्रायोग्यस्य मार्गणा प्रत्युपेक्षणा वक्तव्या। ततस्तासां योग्या वसतिर्विचारभूमिश्च, संयतीगणधरस्यानयना, ततो वारको लघुघटस्वरूपं, तदनन्तरं भक्तार्थनं समुद्देशनम्, तस्य विधिर्व्यवस्था, ततः प्रत्यनीककृतोपद्रवतो यथा निवारणं, ततो भिक्षायां निर्गमः, ततो निर्ग्रन्थानां कस्मादेको मासः? तासां च कस्माद् द्वौ मासौ? एतानि द्वाराणि वक्तव्यानीति द्वारगाथाद्वयसमुदायार्थः / (अत्र गणधरलक्षणं 'गणहर' शब्दे तृतीयभागे 820 पृष्ठे समुक्तम्) अथ क्षेत्रमार्गणाद्वारमाहखित्तस्स उपडिलेहा, कायव्वा होइ आणुपुथ्वीए। किं वच्चई गणहरो, जो चरई सो तणं वहइ // 1212 / / क्षेत्रस्य संयतीप्रायोग्यस्य, आनुपूर्व्या 'थुइमंगलमामंतण'' इत्यादिना पूर्वोक्तक्रमेण, प्रत्युपेक्षणा गणधरेण कर्तव्या। अथ कि केन हेतुना गणधरः स्वयमेव क्षेत्रप्रत्युपेक्षणाय व्रजति? उच्यते-यो बलीवर्दाऽऽदिश्चारि चरति, स एवतृणभारंवहति, यो निर्ग्रन्थीगणस्यधिपत्यमनुभवति,सएव सर्वमपि तचिन्ताभरमुद्वहति। आह-संयत्यः किमर्थं नगच्छन्ति? इत्युच्यतेसंजइगमणे गुरुगा, आणादी सउणिपेसिपेल्लणया। लोभे तुच्छा आसिया--वणाय एमाइणो (भवे) दोसा।।१२१३।। यदि संयत्यः क्षेत्र प्रत्युपेक्षितुं गच्छन्ति, तत आचार्यस्य चतुर्गुरवः, आज्ञाऽऽदयश्च दोषाः / यथा शकुनिका पक्षिणी श्येनस्य गम्या भवति (पेसि त्ति) यथा वा मांसपेशिका, आम्रपेशिका वा सर्वस्याऽप्यभिलषणीया, तथा एता अपि / अत एव (पेल्लणय त्ति) विषयार्थिना प्रेर्यन्ते। तथा तुच्छास्ताः, ततो येन तेनाप्याहाराऽऽदिलोभेनोपप्रलोभ्य 'आसियावणं' अपहरणं तासां क्रियते, एवमादयो दोषा भवति। इदमेव भावयतितुच्छेण वि लोभिज्जइ, भरुयच्छाऽऽहरणनिगडिसडेणं / गंतनिमंतणवहणे, चेइयरूढाण अक्खिवणं!|१२१४|| तुच्छेनाल्पाऽऽहारवस्त्वादिना स्त्री लोभ्यते, अत्र च भृगुकच्छप्राप्तेन निकृतिश्राद्धेनोदाहरणम् / कथमित्याह-"णंत त्ति' वस्त्राणि, तैर्निमन्त्रणां कृत्वा, वहने प्रवहणे चैत्यवन्दनार्थमारूढानां संयतीनामाक्षेपणमपहरणं कृतमिति / "जहा भरुअच्छे आगंतुगवाणियओ, स च निइयसड्ढो संजईओ ववईओ दटूण कवडसङ्घत्तणं पडिवण्णो। ताओ सस्स वीसंभियाओ / गमणकाले पवत्तिणि विन्नवेइवहणट्ठाणमंगलट्ठा पडिलेहणं करेमि, तो संजईओ पट्टवेह, अम्हे वि अणुग्गहिया होज्जामो। तओ पट्टविया। तत्थ गया कवडसद्देणं भणतिपढमवहणे चेइयाई वंदह, तो पडिलेहणं करेमि ति / ताओ जाणंति-अहो ! विवेको / तओ चेइयवंदणत्थमारूढाणं पयट्टियं वहणंजाव आसियावियाओ"। एएहि कारणेहिं, न कप्पई संजईण पडिलेहा। गंतव्व गणहरेणं, विहिणा जो वण्णिओ पुच्विं / / 1215 / / एतैः कारणैः संयतीनां क्षेत्रप्रत्युपेक्षा कर्तुं न कल्पते, कैः पुनस्तर्हि प्रत्युपेक्षणायां गन्तव्यमित्याहगन्तव्यं गणधरेण विधिना, कः पुनर्विधिरित्याहयः पूर्वमत्रैव मासकल्पः प्रकृते स्थविरकल्पिकविहारद्वारे वर्णितः। आह-कीदृशं क्षेत्रं प्रत्युपेक्षणीयम्? उच्यतेजत्थाहिवई सूरो, समणाणं सोय जाणइ विसेसं। एतारिसम्मि खेत्ते, समणाणं होइ पडिलेहा / / 1216 / / जहियं दुस्सीलजणो, तक्करसावयभयं च जहिं नस्थि / निप्पचवायखेत्ते, अजाणं होइ पडिलेहा॥१२१७।। यत्र ग्रामाऽऽदावधिपतिर्भागिकाऽऽदिकः शूरः चौरवरटाऽऽदिभिरनभिभवनीय इत्यर्थः / स च श्रमणानां साधूनां विशेष जानातियथेदृशममीषां दर्शने व्रतम्, ईदृशश्च समाचारः, एतादृशे क्षेत्रे साध्वीयोग्ये श्रमणानां प्रत्युपेक्षणा भवति। तथा यत्र दुःशीलजनस्तस्करश्वापदभयं वा यत्र नास्ति, ईदृशे निष्प्रत्यपाये क्षेत्रे आर्यिकाणां प्रायोग्ये प्रत्युपेक्षणा कर्तव्या भवति। अथ वसतिद्वारमाहगुत्ता गुत्तदुवारा, कुलपुत्ते सत्तमंत गंभीरे। भीयपरिस मद्दविए, ओभासण चिंतणा दोण (पुस्तकान्तरे'थंडिलआसणवारगमंडलपडिणीयवारणया' इति पाठः।)।१२१८|| गुप्ता वृत्या, कुड्येन वा परिक्षिप्ता, गुप्तद्वारा कपाटद्वयोपेतद्वारा, यस्यां च शय्यातरः कुलपुत्रकः / कथंभूतः? सत्त्ववान न केनापि क्षोभ्यते, महदपि च प्रयोजनं कर्तुमध्यवस्यति / गम्भीरो नाम-संयतीनां परुषाऽऽद्याचरणं दृष्ट्वाऽपि विपरिणामं न याति। तथा भीता चकिता पर्षत् यस्य स भीतपर्षत्, आजैकसारतया यस्य भृकुटीमात्रमपि दृष्ट्वा परिवारः सर्वोऽपि भयेन कम्पमानस्तिष्ठति, न च क्वचिदन्याये प्रवृत्तिं करोति / मार्दयमस्तब्धता, तद्विद्यते यस्य समार्दविकः, एवंविधो यदि कुलपुत्रको भवति। ततः (ओभासण त्ति) संयतीनामुपाश्रयस्यावभाषणं कर्त्तव्यम्। अवभाषिते च यद्य-सावुपाश्रयमनुजानीते, ततो भण्यते (चिंतण त्ति) यथा स्वकीयाया दुहितुः, स्नुषायावा चिन्तां करोषि, तथा यद्येतासामपि प्रत्यनीकाऽऽद्युपसर्गरक्षणे चिन्तां कर्तुमुत्सहसे. ततोऽत्र स्थापयामः। स प्राऽऽहवाढं करोमि चिन्ता, परं कथं पुनः संरक्षणीयाः? ततो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy