________________ णिग्गंथ 2036 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथ णसण्णिगासेणं चरित्तपज्जवेहिं पुच्छा? गोयमा ! णो हीणे, णो तुल्ले, अब्भहिए, अणंतगुणमब्भहिए। एवं०जाव कसायकुसी-- लस्स। णियंठे णं भंते ! णियंठस्स सण्णिगासेणं पुच्छा? गोयमा! णो हीणे, तुल्ले, णो अब्भहिए। एवं सिणायस्स वि। सिणाए णं भंते ! पुलागस्स परट्ठाणसण्णिगासेणं, एवं जहा णियंठस्स वत्तव्वया, तहा सिणायस्स विभाणियव्वा०जाव सिणाएणभंते ! सिणायस्स सट्ठाणसण्णिगासेणं पुच्छा ? गोयमा ! णो हीणे, तुल्ले, णो अभिहिए। (पुलागस्सेत्यादि) (चरितपज्जव त्ति) चरित्रस्य सर्वविरतिरूपपरिणामस्य पर्यवा भेदाश्चरित्रपर्यवाः, ते च बुद्धिकृता अविभागपलिच्छेदाः, विषयकृता वा। (सट्ठाणसन्निगासेणं ति) स्वमात्मीयं सजातीयं स्थानं पर्यवाणामाश्रयः स्वस्थानं पुलाकाऽऽदेः पुलाकाऽऽदिरेव, तस्य सन्निकर्षः संयोजनं स्वस्थानसन्निकर्षः, तेन। (किं हीणे त्ति) विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यवापेक्षया अविशुद्धतरसंयमस्थानसंबन्धित्वेनाविशुद्धतराः पर्यवा हीनाः, तद्योगात्साधुरपि हीनः / तुल्ले ति) तुल्यशुद्धिकपर्यवयोगात्तुल्यः। (अब्भहिए ति) विशुद्धतरपर्यवयोगादिभ्यधिकः / (सिय हीणे त्ति) अशुद्धसंयमस्थानवर्तित्वात्। (सिय तुल्ले त्ति) एकसंयमस्थानवर्तित्वात् / (सियअब्भहिए त्ति) विशुद्धतरसंयमस्थानवर्तित्वात्। (अणंतभागहीणे त्ति) किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश सहस्राणि 1000 / तस्य सर्वजीवान्तकेन शतपरिमाणतया कल्पितेन भागे हृते लब्धे शतम् 100 / द्वितीय प्रतियोगिपुलाकचरणपर्यवागू नव सहस्राणि नवशताधिकानि 6600 / पूर्वभागलब्धं शतं, तत्र प्रक्षिप्त जातानि दश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीन इत्यनन्तभागहीनः / (असंखेज्जभागहीणे व त्ति) पूर्वोक्तकल्पितपर्यायराशेर्दशसहसस्य (10000) लोकाऽऽकाशप्रदेशपरिमाणेनासङ्खये यकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हते लब्धा द्विशती, द्वितीयप्रतियोगिपुलाकचरणपर्यवागग्रं नव सहस्राण्यष्टौ च शतानि 1800 / पूर्वभागलब्धा च द्विशती, तत्र प्रक्षिप्ता जातानि दश सहस्राणि, ततोऽसौ लोकाऽऽकाशप्रदेशपरिमाणाऽसंख्येयकभागहारलब्धेन शतद्वयेन हीन इत्यसङ्ख्येयभागहीनः / (संखेजभागहीणे व त्ति) पूर्वोक्तकल्पितपर्यायरशेर्दशसहस्रस्य | (10000) उत्कृष्टसङ्ख्येय-केन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्रम् / द्वितीयप्रतियोगिपुलाकचरणपर्यवागं नव सहस्राणि 1000 / पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्त, जातानि दश सहस्राणि, ततोऽसावुत्कृष्टसङ्ख्येयकभागहारलब्धेनसहस्रेण हीन इति सङ्ख्येयभागहीनः / (संखेज्जगुणहीणे व त्ति) किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च सहसं, ततश्चोत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन गुणकारेण हीनोऽनभ्यस्य इति संख्येयगुणहीनः / (असंखेज्जगुणहीणे व त्ति) किलैकस्य पुलाकस्य चरणपर्यवागं कल्पनया सहस्रदशकं, द्वितीयप्रतियोगिपुलाकचरणपर्यवागं च द्विशती, ततश्च लोकाऽऽकाशप्रदेशपरिमाणेनासंख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दशसहस्राणि, स च तेन लोकाऽऽकाशपरिमाणासंख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण हीन इति असंख्येयगुणहीनः / (अणतगुणहीणे व त्ति) किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतम् / ततश्च सर्वजीवनन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दशसहस्राणि, सच तेन सर्वजीवानन्तकेन कल्पनया शत-- परिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः / एवमभ्यधिकषट्स्थानकशब्दार्थोऽप्येभिरेव भागापहारगुणकारैयाख्येयः / तथाहिएकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं, तदन्यस्य नवशताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः / तथा यस्य नवसहस्राण्यष्टौ च शतानि पर्यवागं, तस्मात्प्रथमोऽसंख्येयभागाधिकः, तथा यस्य नव सहस्राणि चरणपर्यवाग, तस्मात्प्रथमः संख्येयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहसमानं, तदपेक्षया प्रथमः संख्येयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती, तदपेक्षयाऽऽद्योऽसंख्येयगुणाधिकः, तथा यस्य चरणपर्यवागू शतमानं, तदपेक्षयाऽऽद्योऽनन्तगुणाधिक इति। (पुलाएणं भंते ! वउसस्सेत्यादि) (पर-ट्ठाणसन्निगासेणं ति) विजातीययोगमाश्रित्येत्यर्थः / विजातीयश्च पुलाकस्य वकुशाऽऽदिः, तत्र पुलाको वकुशाद् हीतः, तथाविधविशुद्ध्यभावात्। कसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्टाणे त्ति) पुलाकः पुलाकापेक्षया यथाऽभिहितः, तथा कषायकुशीलापेक्षयाऽपि वाच्य इत्यर्थः। तत्र पुलाकः कषायकुशीलाद्धीनो वा स्यादविशुद्धसंयमस्थानवृतित्वात्, तुल्यो वा स्यात्समानसंयमस्थानवृत्तित्वात्, अधिको वा स्याच्छुद्धतरसंयमस्थानवृत्तित्वात्। यतः पुलाकस्य, कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसंख्येयानि तानि गच्छतः, तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते, हीनपरिणामत्वात्, व्यवच्छिन्ने च पुलाके कषायकुशील एकक एवासंख्येयानि संयमस्थानानि गच्छति, शुभतरपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येयानि संयमस्थानानि गच्छन्ति, ततश्च वकुशो व्यवच्छिद्यते, प्रतिसेवनाकुशीलकषायकुशीलावसंख्येयानि संयमस्थानानि गच्छतः, ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कषायकुशीलस्त्वसंख्येयानि संयमस्थानानि गच्छति, ततः सोऽपिव्यवच्छिद्यते, ततो निर्गन्थस्नातकावेकं संयमस्थानं प्राप्नुत इति। (नियंठस्स जहा वउसस्स त्ति) पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः, चिन्तितः पुलाकोऽवशेषैः सहाथ वकुशश्चिन्त्यते-(वउसे णमित्यादि) वकुशः पुलाकादनन्तगुणाभ्यधिक एव, विशुद्धतपरिणामत्वात्, वकुशात्तु हीनाऽऽदिर्विचित्रपरिणामत्वात्, प्रतिसेवनाकषायकुशीलाभ्यामपि हीनाऽऽदिरेव, निर्गन्थस्नातकाभ्यां तु हीन एवेति / (वउसस्स वत्तव्वया भाणियव्व त्ति ) प्रतिसेवनाकुशीलस्तथा वाच्यो, यथा वकुश इत्यर्थः / कषायकुशीलोऽपि वकुशवद्वाच्यः, केवलं पुलाकाद्बकुशोऽभ्यधिक एवोक्तः, सकषायस्तु षट्स्थानपतितो वाच्यो हीनाऽऽदिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया हीनसमाधिकस्वभावत्वादिति। (20) अथ पर्यवाधिकारात्तेषामेव जघन्याऽऽदिभेदानां पुला काऽऽदिसंबन्धिनामल्पत्वाऽऽदि प्ररूपयन्नाहएएसि णं भंते ! पुलागस्स वउसपडि सेवणाकु सीलक