________________ णिग्गंथ 2033 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथ 'दिसा' शब्दे द्रष्टव्या) "णिग्गंथा जिणसासणभवा / " निर्ग्रन्थास्ते भण्यन्ते, ये जिनशासनभवाः प्रतिपन्नपारमेश्वरप्रवचनमुनयः। प्रव०६४ द्वार। पञ्चविधाः श्रमणाः, तत्र निर्ग्रन्था जैनसाधवः / आचा०२ श्रु०१ चू० 101 उ०। सूत्रका स्था०। आ०का ज्ञा०ा प्रश्नाआ०चूला नं। (१)निन्थिशब्दव्याख्यासहिरनगा सगंथा, अहिरन्नसुवण्णगा समणा। सहिरण्यकः सग्रन्थ उच्यते / अत्र हिरण्यग्रहणं बाह्यभ्यन्तरपरिग्रहोपलक्षणं, ततो यः सपरिग्रहः स सग्रन्थः / श्रमणाः पुनरहिरण्यसुवर्णकाः अतो निर्ग्रन्थाः। हिरण्यं रूप्यं, सुवर्ण कनकम्। बृ०१ उ०॥ (ग्रन्थनिक्षेपो गथ' शब्दे तृ०भा०७६३ पृष्ठे उक्तः) प्रस्तुतयोजनामाहसावलेण विमुक्का, अडिमंतरबाहिरेण गंथेण / निग्गहपरमा य वि हू, तेणेवं हों ति निग्गंथा। सावद्यः सपापः कर्मोपादाननिबन्धनत्वाद्यो ग्रन्थः, तेन साभ्यन्तरबाह्येन ये मुक्तास्ते निर्ग्रन्था उच्यन्ते। येऽपि चान्तरं ग्रन्थेन न सर्वथा मुक्तास्तेऽपि, ये न विद्वांसः क्रोधाऽऽदिदोषवेदिनः, तथा निग्रहपरमाः, तन्निर्जयप्रधानाः, तेनैवं कारणेन ते निर्ग्रन्था भवन्ति (2) अथाऽऽन्तरं ग्रन्थमधिकृत्य ये मुक्ताः, ये चामुक्ताः, तदेत दभिधित्सुराहकेई सध्वविमुक्का, कोहाईएहिँ केइ भइयव्वा। सेदिदुर्ग विरचित्ता, जाणसु जो निग्गओ जत्तो।। क्रोधाऽऽदिभिरन्तरग्रन्थैः केचित्सर्वविमुक्ताः सर्वरपि विप्रमुक्ताः, केचित्पुनर्भक्तव्या विकल्पनीयाः-कैश्चिद् मुक्ताः, कैश्चिदपि न मुक्ता इत्यभिप्रायः। अत्र शिष्यः प्राऽऽह-कथनुनामेदं ज्ञास्यते? अमी सर्वथा मुक्ताः, अमी च न मुक्ता इत्युच्यते-श्रेणिद्विकमुपशमश्रेणि-क्षपकश्रेणिलक्षणं, विरचय्य यथोक्तपरिपाट्या स्थापयित्वा ततो जानीहि यो यतः क्रोधाऽऽदेर्निर्गतः, अनिर्गतो वेति। बृ०१ उ० भ० उत्त०। सूत्र०। (श्रेणियप्ररूपणा 'खवगसेढि' शब्देतृ०भा०७२७ पृष्ठे, 'उवसमसेढि' शब्दे द्वि०भा० 1043 पृष्ठे च द्रष्टव्या) (3) एना क्षपक श्रेणिमध्यासीनेन येन यदनन्तानुबन्ध्यादिकं क्षपित, स तेन मुक्त इत्यवसातव्यम् / येऽपि श्रेणिद्वयमद्याऽपि न प्रतिपद्यन्ते, किन्तु सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकानामन्यतमस्मिन् संयमे वर्तन्ते, तेऽपि संकलनचतुष्टयवर्जेंदशभिः कषायैर्मुक्ता इत्यवगन्तव्यम्। यत उक्तम्- "बारसविहे कसाए. खविए उवसामिएय जोगेहिं / लब्भइ चरित्तलंभो, तस्स विसेसा इमे पंच // 1||" ततश्चजे वि अन सव्वगंथे-हि निग्गया होंति केइ निग्गंथा। ते वि य निग्गहपरमा, हवंति तेसिं खउज्जुत्ता।। ये पि च सरागसंयमवर्तिनः सर्वेभ्य आभ्यन्तरग्रन्थेभ्यो न निर्गताः तेऽपि तेषां संज्वलनकषायाऽऽदीनां क्षयोयुक्ता उदयनिरोधोदयप्राप्तविफलीकरणाभ्यां क्षयकरणायोद्यताः सन्तो निग्रहपरमा अन्तरग्रन्थनिग्रहप्रधाना भवन्तीत्यतो निर्ग्रन्था उच्यन्ते। अपिचकलुसफलेन न जुज्जइ, किं चित्तं तत्थ जं विगयरागो। ___ संते विजे कसाए, निगिण्हई सो वि तत्तुल्लो॥ कलुषयन्ति सहजनिर्मलं कर्मरजसा मलिनयन्तीति ''अच्' // 5/1146 / / इति अच्प्रत्यये कलुषा कषायाः, तेषां यत्फलं पुरुषभाषणनयनमुखविकारै रौद्रध्यानानुबन्धाऽऽदिक, तेन सह यन्न युज्यते न संबन्धमुपयाति, विगतरागो विशेषेणापुनर्भावने गतो रागो यस्मात्स विगतरागः, क्षीणमोह इत्यर्थः / तत्र कि चित्रं किमाश्चर्य ? कषायलक्षणकारणाभावान्न किञ्चिदित्यर्थः / यस्तु सतोऽपि विद्यमानानपि कषायानिगृह्णाति, उदीयमानानेव प्रथमतो निरुणद्धि, कथञ्चिदुदयप्राप्तान वा विफलीकरोति, सोऽपि तत्तुल्यो वीतराग इव निष्कषायो मन्तव्यः, सतामपि कषायाणामसत् कल्पनाकरणात्, अतः सरागसंयतोऽपि निर्ग्रन्थोऽभिधीयते। अथपरं प्रश्यतिजइ अभिंतरमुक्का, बाहिरगंथेण मुक्कया किह णु? गिण्हंता उवगरणं जम्हा अममत्तया तेसु॥ यद्यनन्तरोक्तप्रकारेणाभ्यन्तरग्रन्थमुक्ताः, ततो वस्त्रपात्राऽऽदिकमुपकरणं गृह्णन्ततः कथं, नुरिति वितर्के। बाह्यग्रन्थेन मुक्ता उच्येरन्? वस्वाऽऽदेरपि ग्रन्थरूपत्वादित्यभिप्रायः सूरिरहयस्मात्तेषु वस्खपात्राऽऽदिषु न विद्यतेममत्वं मूर्छा येषां ते अममत्वकाः “शेषाद्वा" / / 7 / 3 / 175|| इति कच् प्रत्ययः / मूरिहिताः। तेन बाह्यग्रन्थमुक्ता अप्यभिधीयन्ते। इयमत्र भावनामूर्छा परिग्रहो गीयते तनूपकरणाविधारणमात्रम्, "मुच्छा परिगहो वुत्तो" इति वचनात् / अतः संयमोपष्टम्भाऽऽदिनिमित्तमुपकरणं धारयन्नपि विशुद्धचेतोवृत्तिरपरिग्रह एव ज्ञातव्यः / तदुक्तं परमगुरुभिः- "अज्झत्थविसोहीए, उवगरणं बाहिरं परिहरंतो। अपरिगहो त्ति भणिओ, जिणेहिँ तेलुनंदसीहिं' ||1|| बृ०१ उ०। भ० / उत्त। सूत्रा (4) अथ निर्ग्रन्थनिक्षेपमाह नियुक्तिकृत्णिक्खेवो णियंठम्मी, चउविहाँ दुविहो य होइ दव्वम्मि। आगम णो आगमओ, णो आगमओयसो तिविहो॥३२नि०॥ निक्षेपो न्यासः (नियंठम्मित्ति) निर्गन्थे निर्ग्रन्थविषये चतुर्विधः, नामस्थापनाद्रव्यभावभेदात्। तत्र नामस्थापने क्षुण्णे। द्विविधो भवति द्रव्येआगमतो, नो आगमतश्च / तत्राऽऽगमतः प्राग्वत्, नो आगमतश्च स इति निम्रन्थस्त्रिभेद इति गाथाऽर्थः / उत्त० (पाईटीका) 6 उ०॥ त्रैविध्यमेवाऽऽह- द्रव्यतो एकः, अन्यो न द्रव्यतो भावतः, अपरो द्रव्यतोऽपि भावतोऽपि / तत्र द्रव्यतो निर्ग्रन्थः स उच्यते, यो लिङ्ग सहितो द्रव्यलिङ्ग युक्तो निःशङ्कः सन्नध्यवस्यते, उत्पव्रजतीत्यर्थः / यस्तु प्रव्रज्यायामभिमुखो न तावदद्याऽपि प्रव्रजति, कारणेन वा यः साधुः परलिङ्गे वर्त्तते, स द्वितीयो द्वितीय-भङ्गवर्ती / यस्तु उदयसहितो द्रव्यभावलिङ्गयुक्तः स तृतीयः। उभयथा निर्ग्रन्थ इति भावः / बृ०३ उ०। जाणगसरीरभविए, तव्वइरित्ते यणिण्हवादीसु। भावम्मि णियंठो खलु, पंचविहो होइ णायव्यो / / 33 / / नि०)