________________ णिगोय 2031 - अभिधानराजेन्द्रः - भाग 4 णिगोय ख्येयगुणाः, द्रव्याणामसंख्येयगुणत्वात्। तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः युक्तिः प्राक्तन्येव / तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः संख्येयगुणाः, द्रव्याणां संख्येगुणत्वात्। तदेवमुक्ता निगोदाः। अधुना निगोदजीवानिधिकृत्य भेदप्रश्नमाह-('एवं निओयजीवा वि' इत्यारभ्य 'पएसट्टयाए संखेजगुणा' इति यावद् मूले संक्षिप्तमुक्तमिति विभावनीयं सुधीभिः / ) "निगोयजीवा णं भंते !" इत्यादि सुगमम् / भगवानाह- गौतम ! निगोदजीवा द्विविधाः प्रज्ञप्ताः / तद्यथासूक्ष्मनिगोदा बादरनिगोदजीवाश्च / चशब्दौ निगोदजीवतया तुल्यतासुचकौ / एवमन्यत्राऽपि यथायोगं भावनीयौ / "सुहुमनिगोयजीवा णं भंते !" इत्यादि पर्याप्तापर्याप्तविषयं सूत्रं त्विदं पाठसिद्धम / सम्प्रति द्रव्यार्थतया संख्या पिपृच्छिषुराह-"सुहमनिगोयजीवा णं भंते ! दव्वदयाए'इत्यादि प्रश्नसूत्र सुगमम्। भगवानाह-गौतम ! नो संख्येया नाप्यसंख्येयाः, किं त्वनन्ताः; प्रतिनिगोदमनन्तानां निगोदजीव- | द्रव्याणां भावात्। एवमपर्याप्तसूत्रं वक्तव्यम् / तदेवं सामान्यतो निगोदद्रव्यविषयं सूत्रकमुक्तम् / एवं सूक्ष्मनिगोदजीवविषयं सूत्रत्रिकं, बादरनिगोदजीवविषयं सूत्रत्रिकं वक्तव्यम्। सर्वसंख्यया नव सूत्राणि। एवमेट प्रदेशार्थताविषयाण्यपि नव सूत्राणि, नानात्वाभावात् / भावना सर्वत्रापि सुप्रतीता / ये किल द्रव्यार्थतयाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ताः, प्रतिद्रव्यम संख्याताना प्रदेशानां भावात्। सर्वसंख्यया चागून्यष्टादश सूत्राणि / साम्प्रतमेतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदजीवाना द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह"एएसिणं' इत्यादि / सर्वस्तोका बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया, निगोदानां स्तोकत्वात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतया असंख्येयगुणाः, निगोदानामसंख्येयगुणत्वात् / तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्तका द्रव्यार्थतया असंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया संख्येयगुणः / कारण पूर्ववदूह्यम्। प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्ताः, प्रदेशार्थतया द्रव्याणां स्तोकत्वात् तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, द्रव्याणामसंख्येयगुणत्वात्। एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता प्रदेशार्थतया, द्रव्यार्थप्रदेशार्थतया सर्वस्तोकाः, बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतया असंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतया असंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता व्यार्थतया संख्येयगुणाः, तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, प्रतिबादरनिगोदपर्याप्तजीवमसंख्येयानां प्रदेशाना भावात्, तेभ्यः सूक्ष्मबादरनिगोदजीवाश्च पर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, बादरनिगोदापर्याप्तभ्यो बादरनिगोदपर्याप्तानामसंख्यातगुणत्वात्। तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्तकाः प्रदेशार्थतया असंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः। भावना प्रागिव। सम्प्रति सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाहएते सिणं भंते ! सुहमाणं निगोदाणं बायराणं पज्जत्तगाणं अपजत्तगाणं निओयजीवाणं सुहमाणं वायराणं पज्जत्तगाणं अपज्जत्तगाणं दव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्ठयाए कयरे 20 जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा बायरनि-ओया पज्जत्ता दवट्ठयाए, बायरनिओदा अपजत्ता दवट्ठयाए असंखेजगुणा, सुहुमनिगोदा अपज्जत्ता दव्वट्ठयाए असंखेअगुणा, सुहमनिओदा पजत्ता दवट्ठयाए संखेजगुणा, सुहुमनिओएहिंतो पजत्तएहिंतो दव्वट्ठयाए बायरनिओदजीवा पजता अणंतगुणा, बायरनिओदजीवा अपञ्जत्ता दव्वट्ठयाए असंखेजगुणा, सुहमनिओयजीवा अपज्जत्ता दव्वट्ठयाए असंखेजगुणा, सुहुमनिओयजीवा पज्जत्ता दव्वट्ठयाए संखेज्जगुणा, पएसट्ठयाए, सव्वत्थोवा, वायरनिओदजीवा पज्जत्ता पएसट्ठयाए, बायरनिओदजीवा अपज्जत्ता पएसट्ठयाए असंखेज्जगुणा, सुहुमनिओयजीवा अपज्जत्ता पएसट्टयाए असंखेजगुणा, सुहुमनिओदजीवा पजत्ता पएसट्ठयाए संखेज्जगुणा, सुहुमनिओदजीवेहिंतो पज्जत्तएहितो बायरनिओया पन्जत्ता पदेसट्ठयाए अणंतगुणा, बायरनिओया अपजत्ता पएसट्टयाए असंखेज्जगुणा०जाव सुहुमनिओया पजत्ता पएसट्ठयाए संखेज्जगुणा, दव्वट्ठपदेसट्ठयाए सव्वत्थोवा, बायरनिओया पज्जत्ता दव्वट्ठयाए, बायरनिओदा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणाजाव निगोदा पज्जत्ता दव्वट्ठयाए संखेजगुणा, सुहमनिओएहिंतो पज्जत्तएहिंतो बायरनिओदजीवा पञ्जत्ता दव्वट्ठयाए अणंतगुणा, सेसा तहेव०जाव सुहुमनिओदजीवा पज्जत्तगा दव्वट्ठयाए संखेज्जगुणा, सुहुमनिओयजीवेहिंतो पजत्तएहिंतो दव्वट्ठयाए बायरनिओयजीवा पज्जत्ता, पएसट्टयाए असंखेजगुणा, सेसं तहेव०जाव सुहुमनिओया पजत्ता पएसट्ठयाए संखेनगुणा। 'एएसिण' इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह-गौतम! सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसंख्येयगुणाः, तेभ्यः सूक्ष्भनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसंख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाःपर्याप्ता द्रव्यार्थतया संख्येयगुणाः। अत्र सर्वत्रापि युक्तिः प्रागुक्तैव। सूक्ष्मनिगोदेभ्यः द्रव्यार्थतया बादरनिगोदजीवाः पर्याप्ता अनन्तगुणाः एकैकस्मिन् निगोदे अनन्ताना जीवानां भावात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ताः, द्रव्यार्थतया असंख्येयगुणाः, निगोदानामसंख्यातगुणत्वात् / एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतया असंख्येगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया संख्येयगुणाः, प्रदेशार्थतया सर्वस्तोकाः, बादरनिगोदजीवाः पर्याप्तकाः प्रदेशार्थतया, निगोदानां स्तोकत्वात् / तेभ्यो बादरनिगोदजीवाः अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, निगोदानामसंख्येयगुणत्वात्। एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतया असंख्येयगु