________________ णिक्खित्त 2025 - अभिधानराजेन्द्रः - भाग 4 णिक्खित्त सोलस भंगविगप्पा, पढमेऽणुन्नान सेसेसु // 586|| पाश्वविलिप्तः कटाहः१, अनत्युष्णो दीयमान इक्षुरसाऽऽदिः 2, अपरिशाटिः परिशाट्यभावः 3, (अघट्टते इति) उदश्चनेन पिठरकर्णाघट्टने 4, इत्येतानि चत्वारि पदान्यधिकृत्य षोडश भङ्गा भवन्ति। भङ्गानां च नयनार्थमियं गाथापयसमदुग अब्भासे-माणं भंगाण तेसिमह रयणा / एगंतरिय लहु गुरु, लहुगुरु दुगुणा य वामेसु / / 587 / / अस्या व्याख्या-इह यावतां पदानां भङ्गा अमुनेष्यन्ते, तावन्तो द्विका ऊधिःक्रमेण स्थाप्यन्ते-२/२, 2/2 ततः प्रथमो द्विको द्वितीयेन द्विकेन गुण्यते, जाताश्चत्वारः, तैस्तृतीयो द्विको गुण्यते, जाता अष्टौ, तैरपि चतुर्थो द्विको गुण्यते, जाताः षोडश। एतावन्तश्चतुर्णा पदानां भङ्गा भवन्ति / तेषां च पुनर्भङ्गानामेषा रचना-प्रथमपत्तावेकान्तरितं लघुगुरुप्रथम लघु, ततो गुरु, पुनर्लघु, पुनर्गुरु / एवं यावत् षोडशो भङ्गः / ततः प्रज्ञापकापेक्षया वामेषु वामपाज्ञेषु द्विगुणा द्विगुणा लघुगुरवः / तद्यथाद्वितीयपक्तौ प्रथमं द्वौ लघू, ततो द्वौ गुरू, ततो भूयोऽपि द्वौ लघू, एवं यावत् षोडशो भङ्गः। तृतीयपक्तौ प्रथमं चत्वारो लघवः, ततश्चत्वारो गुरवः, ततश्चत्वारो लघवः, पुनश्चत्वारो गुरवः / चतुर्थपड्क्त्यां प्रथममष्टी लघवः, ततोऽष्टौ गुरवः। स्थापना-अत्र ऋजर्वोऽशाः शुद्धाः, वक्राश्चाशुद्धाः / इह षोडशाना भङ्गानामाद्ये भङ्गेऽनुज्ञा, नशेषेषु पञ्चदशसु भङ्गेषु / सम्प्रत्युष्णग्रहणे दोषानाहदुविह विराहण उसिणे, छडणे हाणी य भाणभेओ य। उष्णेऽत्युष्णे इक्षुरसाऽऽदौ दीयमाने द्विधा विराधना-आत्मविराधना, परविराधना च। तथाहि-यस्मिन् भाजने तत्-अत्युष्णं गृह्णाति, तेन तप्त सभाजनंहस्तेन साधुण्हन् दह्यते, इत्यात्मविराधना। येनापि स्थालेन दात्री ददाति, तेनाप्यत्युष्णेन सा दह्यत इति / तथा-(छडुणे हाणी यत्ति) अत्युष्णमिक्षुरसाऽऽदि कष्टन दात्री दातुं शक्नोति, कष्टनच दाने कथमपि साधुसत्कभाजनागहिरुज्झनेहानिदीयमानस्येक्षुरसाऽऽदेः, तथा-(भाण-भेओ य इति) तस्य भाजनस्य साधुना वा नयनायोत्पाटितस्य पतद्ग्रहणाऽऽदेर्दात्र्या वा दानायोत्पाटितस्योदश्चनस्य गण्डरहि-तस्य अत्युष्णतया झगिति भूमौ मोचने भङ्गः स्यात् / तथा च षड्-जीवनिकायविराधनेति। संप्रति वायुकायमधिकृत्यानन्तरपरम्परे दर्शयतिवाउक्खित्ताऽणंतर-परम्परा पप्पडिय वत्थी॥५८८।। वातोत्क्षिप्ताः समीरणोत्पाटिताः पर्पटिकाः शालिपर्पटिका अनन्तरनिक्षिप्त, परम्परनिक्षिप्तं वस्तीति। विभक्तिलोपाद्वस्तौ। उपलक्षणमेतत्समीरणाऽऽपूरितवस्तिदृतिप्रभूतिव्यवस्थित मण्डकाऽऽदि। संप्रति वनस्पतिवंशविषयं द्विविधमपि निक्षिप्तमाहहरियाइ अणंतरिया, परंपरं पिढरमाइसु वणम्मि। पूपाइ पीढ़ेऽणंतर, भरए कुउपाइसू इयरा // 586|| वने वनस्पतिविषये अनन्तरनिक्षिप्तं हरिताऽऽदिषु सचित्तब्रीहिकाप्रभृतिषु अनन्तरिता निक्षिप्ताः, अपूपाऽऽदय इति शेषः / हरिताऽऽदीनामेवोपरि स्थितेषु पिठराऽऽदिषु निक्षिप्ता अपूपाऽऽदयः परम्परनिक्षिप्तम् / तथा बलीवर्दाऽऽदीनां पृष्ठे अनन्तरनिक्षिप्ता अपृपाऽऽदयः, तत्रानन्तरनिक्षिप्तम्। बलीयर्दाऽऽदिपृष्ठ एव भरके कुतुपाऽऽदिषु वा भाजनेषु निक्षिप्ता मोदकाऽऽदयः परम्परनिक्षिप्तम् / इह सर्वत्रानन्तरनिक्षिप्तं न ग्राह्यम्, सचित्तसंघट्टनाऽऽदिदोषसंभवात् / परम्परनिक्षिप्तं तु सचित्तसंघट्टनाऽऽदिपरिहारेण यतनया ग्राह्यमिति सम्प्रदायः। पिं० आचा०ा पञ्चा०ा नि०चू०। निक्षिप्तं न ग्राह्यम्असणं पाणगं वा वि, खाइमं साइमं तहा। उदगम्मि हुन्जा निक्खित्तं, उत्तिंगपणगेसु वा // 56 // अशनं पानकं वाऽपि खाद्यं स्वाद्यं, तथा उदके भवेन्निक्षिप्तमुत्तिझपनकेषु वा कीटिकानगरोल्लीषु वेत्यर्थः / "उदयनिक्खित्तं दुविहंअणंतर, परंपरं च। अणंतरंणवणीतपोग्गलियमादी। परंपरं-जलघडोवरि भायणत्थं दधिमादी' एवं 'उत्तिंगपणएसु" भावनीयमितिसूत्रार्थः // 56 / / तं भवे भत्तपाणं तु, संजयाण अकप्पियं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं / / 6 / / तद्भवेद् भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति सूत्रार्थ // 60 // तथाअसणं पाणगं वा वि, खाइमं साइमं तहा। तेउम्मि हुज्ज निक्खित्तं,तंच संघट्टिया दए।६१|| अशनं पानकं वाऽपि खाद्यं स्वाद्यं, तथा तेजसि भवेद् निक्षिप्त तेजसीत्यग्री, तेजस्काय इत्यर्थः / तच संघट्य यावद्भिक्षां ददामि तावत्तापातिशयेन मा भूदुर्त्तिष्यत इत्याघट्य दद्यादिति सूत्रार्थः // 61 / / तं भवे भत्तपाणं तु, संजयाण अकप्पियं / दिति पडिआइक्खे, न मे कप्पइ तारिसं // 62|| तद्भवे भक्तपानं तुसंयतानामकल्पिकम्, अतो ददतीं प्रत्याचक्षीतन मम कल्पते तादृशमिति सूत्रार्थः॥६२।। एवं उस्सिकिया ओसक्किया उज्जालिया पजालिया निव्या-विया उस्सिचिया निस्सिचिया ओवत्तिया ओयारिया दए॥६३।। यावद्भिक्षां ददामि तावद् मा भूद् विध्यास्यतीत्युत्सिच्य दद्यात्। (एवं ओसक्किया) अवसM, अतिदाहभयादुल्मकान्युत्सार्येत्यर्थः / (एवं उज्जालिया पजालिया) उज्ज्वाल्यार्द्धविध्यातं सकृदिन्धनप्रक्षेपण, प्रज्वाल्य पुनः पुनः / एवं (निव्वाविया) निर्वाप्य, दाहभयादेवेति भावः / एवं (उस्सिचिया निस्सिंचिया) उत्सिच्यातिभृतादुज्झनभयेन, ततो वा दानार्थं तीमनाऽऽदीनि निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्यात्। उद्वर्तनभयेन वा तद्रहितमुदकेन निषिच्य। एवं (ओवत्तिया ओयारिआ) अपवर्त्य तेनैवाग्रिनिक्षिप्तेन भाजनेना