________________ णिक्खित्त 2024 - अभिधानराजेन्द्रः - भाग 4 णिक्खित्त तं तु अणंतर इयरं, परित्तऽणंतं च वणकाए // 577 / / यत्र निक्षेपे सचित्तमिश्रे आद्या चतुर्भङ्गी भवति, प्रथमा चतुर्भङ्गी भवतीत्यर्थः / तत्रचतुष्वपि भङ्गेषु, अपिशब्दाद् द्वितीयतृतीयचतुर्भङ्गयोरपि, आधेषु त्रिषु भड्नेषु वर्तमानमनन्तरं, परम्परा च। वनस्पतिविषये परीतकमनन्तं वा तत्सर्वमग्राह्यम्, सामर्थ्यत्वात् / द्वितीयतृतीयचतुर्भङ्गयोश्चतुर्थे चतुर्थभने वर्तमानं ग्राह्यम्, तत्र दोषाभावात्। सम्प्रति सचित्ताऽऽदिभिस्त्रिभिरपि मतान्तरेण तामेव चतुर्भङ्गी कल्प्याकल्प्वविधि प्रदर्शयतिअहव ण सचित्तमीसे, उ एगओ एगओ य अचित्तो। एत्थं चउक्कभंगो, तत्थाऽऽइतिए कहा नऽत्थि / / 578|| अथवेति प्रकारान्तरताद्योतकः, णमिति वाक्यालङ्कारे। इह चतुर्भङ्गी प्रतिपक्षपदोपन्यासे भवति। तत्रैकस्मिन् पक्षे सचित्तमिश्रे एकः, एकश्च अचित्तः, तत् प्रागुक्तक्रमेण चतुर्भङ्गी भवति / तद्यथा-सचित्तमिश्रे सचित्तमिश्रम्, सचित्तमिश्रे अचित्तम्, अचित्ते सचित्तम्, अचित्ते अचित्तमिति / अत्राऽपि प्रागिवैकैकस्मिन् भने पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षट्त्रिंशत् षट्त्रिंशद् भेदाः / सर्वसंख्यया चतुश्चत्वारिंशं भङ्ग शतम्। तत्राऽऽदित्रिके आदिमे भङ्गत्रये, कथा नास्ति ग्रहणे वार्ता न विद्यते। सामर्थ्याचतुर्भङ्गी कल्पते। तदेवं 'पुढवी' इत्यादिमूलगाथायाः पूर्वार्द्ध व्याख्यातम्। सम्प्रति "एक्कछ दुहाणंतर" इत्यवयव व्याचिख्यासुर्द्धितीयचतुर्भङ्गयाः सत्कस्य तृतीयस्य भङ्गस्य सामान्यतोऽशुद्धस्य विषये विशेष विभणिषुरनन्तरं, परम्परया वा मार्गणा करोतिजं पुण अचित्तदव्वं, निक्खिप्पइ चेयणेसु दव्वेसु। तहिं मग्गणा उ इणमो, अणंतर परंपरं होइ / / 576 / / यत्किमपि अचित्तं द्रव्यमोदनाऽऽदि चेतनेषु सचित्तेषु, मिश्रेषु वा निक्षिप्यते, तत्रेयमनन्तरं, परम्परया वा मार्गणा परिभावनं भवति। ओगाहिमादणंतरं, परंपरं पिढरगाइ पुढवीए। नवणीयाइ अणंतरं, परंपरं नावमाईसु // 580 / / अवगाहिमाऽऽदि पक्वान्नमण्डकप्रभृति, पृथिव्यामनन्तरनिक्षिप्तम; पृथिव्या एवोपरि स्थिते पिठरकाऽऽदौ यन्निक्षिप्तमवगाहिमाऽऽदि, तत्परम्परनिक्षेप उक्तः। सम्प्रत्यप्कायमाश्रित्याऽऽह-(नवणीए इत्यादि) नवनीताऽऽदिम्रक्षणस्त्यानीभूतघृताऽऽदिसचित्ताऽऽदिरूपे उदके निक्षिप्तमनन्तरनिक्षिप्त, तदेव नवनीताऽऽदि, अवगाहिमाऽऽदि वा, जलमध्यस्थितेषु नावादिषु स्थितं परम्परनिक्षिप्तम्। संप्रति तेजस्कायमधिकृत्यानन्तरपरम्परे व्याख्यानयन "अग-णिम्भि सत्तविहो'' इत्यप्यवयवं व्याख्यानयतिविज्झायमुम्मुरिंगा-लमेव अप्पत्तपत्त समजाले। वोकंते सत्त दुगं, जंतोऽलित्ते य जयणाए।।५८१|| इह सप्तधाऽग्निः / तद्यथा-विध्यातो, मुर्मुरोऽङ्गारः, अप्राप्तः, प्राप्तः, समज्वालो, व्युत्क्रान्तश्च / तत्र यः स्पृष्टतया प्रथमतं नोपलभ्यते, पश्चात्त्विन्धनप्रक्षेपे वर्द्धनमपि गच्छति, स व्युत्क्रान्तः। एते सप्त * 'अहवण त्ति' अखण्डमव्ययपदमथवेत्यस्यार्थे / वृ०१ उ०। भेदास्तेजस्कायस्य / तत्र एकैकस्मिन् भेदे भेदद्विकम् / तद्यथाअनन्तरनिक्षिप्तम; परम्परनिक्षिप्तं च। तत्र यद् विध्याताऽऽदिरूपे वही मण्डकाऽऽदि प्रक्षिप्यतेतत् अनन्तरनिक्षिप्तम्। यत्पुनररुपरि स्थापिते पिठरकाऽऽदौ क्षिप्तं तत्परम्परनिक्षिप्तम् तत्र सप्तानां भेदानां मध्ये यमेव तमेव वाऽधिकृत्य यन्त्रेषु रसपाकस्थाने कटहाऽऽदौ अवलिप्ते मृत्तिकाखरण्टिते यतनया परिशाटिपरिहारेण ग्रहणभिक्षुरसस्य कल्पते। सम्प्रत्येनामेव गाथां व्याख्यानयन् प्रथमतो विध्या ताऽऽदीनां स्वरूपं गाथाद्वयेनाऽऽहविज्झाओ त्ति न दीसइ, अग्गी दीसेइ इंधणे छूढे / आपिंगलमगणिकणा, मुम्मुरे निजालइंगाले // 582 / / अप्पत्ता उचउत्थे , जाला पिठरं तु पंचमे पत्ता। छ8 पुण कन्नसमा, जाला समइच्छिया चरिमे // 583 // सुगमम, नवरम् (अप्पत्ता उ चउत्थे जाला इति ) चतुर्थे अप्राप्ताऽऽख्योभेदः पिठरमप्राप्ता ज्वाला द्रष्टव्या पश्चममेवमन्यत्राप्यक्षरगमनिका कार्या। संप्रति "जंतोऽलित्ते य जयणाए" इत्यवयवं व्याचिख्यासुराहपासोलित्त कडाहे, परिसाडी नऽत्थितं पि य विसालं। सो विय अचिरच्छूढो, उच्छ्रसो नाइउसिणो य / / 554|| इह यदीति सर्वत्राऽध्याहियते, यद्यदि कटाहः पिटरविशेषः, पिठरः पार्श्वेषु मृत्तिकयाऽवलिप्तो भवति, दीयमाने चेक्षुरसे यदि परिशाटिर्नोपजायते, तदपि च कटाहरूपं भाजनं यदि विशालं विशालमुखं भवति, सोऽपि चेक्षुरसोऽचिरक्षिप्त इति कृत्वा यदि नात्युप्णो भवति तदा स दीयमान इक्षुरसः कल्पते / इह यदि दीयमानस्येक्षुरसस्य कथमपि विन्दुर्बहिः पतति, तर्हि स लेप एव वर्तते, न तु चुल्लीमध्यस्थितः तेजस्कायमध्यपतितः, पाश्वोपलिप्त इति कटाहस्य विशेषणमुक्तम्। तथा विशालमुखादाकृष्यमाण उदञ्चनःपिठरस्य कर्णे न लगति, ततो न पिठरस्य भङ्ग इति न तेजस्कायविराधनेति विशालग्रहणम्। अनत्युष्णग्रहणे तु कारण स्वयमेव वक्ष्यति। सम्प्रत्युदकमधिकृत्य विशेषमाहउसिणोदगं पिघेप्पइ, गुलरसपरिणामियं न अचुसिणं / जंतु अघट्टियकन्नं, घट्टियपडणम्मि मा अग्गी // 585|| उष्णोदकमपि गुमरसपरिणामिनमनत्युष्णं गृह्यते / किमुक्तं भवति? यत्र कटाहे गुडः पूर्व क्वथितो भवति, तस्मिन निक्षिप्तं जलमीपत्तप्तमपि कटाहसंसक्तगुडरसमिश्रणात् सत्वरमचित्तीभवति,ततस्तदनन्तरमपि कल्पते। अत्राऽपिपावावलिप्तकटाहस्थितमपरिशाटितमिति विशेषणद्वयमनुपात्तमपि द्रष्टव्यम्। तथा यत् अघटितकर्णम्, न यस्मिन् दीयमाने पिठरस्य कर्णावुदश्चनेन प्रविशता निर्गच्छता वा घट्येते, तद्दीयमानं कल्पते इत्याह-(घट्टियपडणम्मि मा अग्गी) उदञ्चनेन प्रविशता निर्गच्छता वा पिठरस्य कर्णयोर्घट्यमानयोर्लेपस्योदकस्य वा पतनेन माऽग्निर्विराध्येतेकृत्वा / एतेन च वक्ष्यमाणो षोडशभङ्गानामाद्यो भङ्गो दर्शितः। सम्प्रति तानेव षोडश भङ्गान दर्शयतिपासोलित्त कडाहे, नचुसिणो अपरिसाडऽघट्टते।