________________ णिक्खमणपवेस 2023 - अभिधानराजेन्द्रः - भाग 4 णिक्खित्त गिहत्थसहितो त्ति काउं चोरपारदारिओ त्ति काउं जाहे संका भवति, ताहे दंडपासियाऽऽदीहिं गेण्हणाऽऽदी दोसा / काइयसण्णा उभयं ते वोसिरतो दवावि / असतीए उड्डाहो / लोगो अवण्णं भासति, पादथंडिलाऽऽदी ण पमज्जति संजमविराहणा। निचू०८उ०ा कल्पसूत्रे सामाचार्यामेकपञ्चाशत्तमसूत्रे-"निक्खमित्तए वा पवि-सित्तए वा'' इति पदद्वयमधिकमिव दृश्यत इति प्रश्ने, उत्तरम्- "भत्तपाणपडिआइक्खित्तए" इति वचनात् कश्चित्सामान्यतो विहितानशनः, कश्चिच्च कृतपादपोपगमनो भिक्षुर्विहर्तुं प्रवर्तितुमिच्छेदित्यर्थः संगच्छते, तदनुसारेण सामान्येन कृतानशनस्य 'निक्खमित्तए वा' इत्यादिविशेषणानि यथा संभवं संगच्छन्त एव, न तु कृतपादपोपगमनस्येतिन काऽप्यधिकतेति / 22 प्र०ा सेन०२ उल्ला०। (स्थविरकल्पिका जिनकल्पिका वा कदा निष्क्रामन्ति, कदावा प्रविशन्तीति 'थविरकल्प' शब्दे वक्ष्यते) (राज्याभिषेके निष्क्रमणप्रवेशविषयः'रायाभिसेय' शब्दे णिक्खमणाभिसेय पुं०(निष्क्रमणाभिषेक) निष्क्रमणाभिषेक सामग्याम, भ०६ श०३३ उ०॥ णिक्खममाण त्रि०(निष्क्रामत्) निर्गच्छति, आचा०१ श्रु०१ चू०२ अ०३उ। णिक्खमित्तए अव्य०(निष्क्रमितुम्) प्रवेष्टुमित्यर्थे , कल्प०६ क्षण / द०प० णिक्खम्म अव्य०(निष्क्रम्य) गेहान्निःसृत्य प्रव्रजितो भूत्वेत्यर्थे , सूत्र०१ श्रु० 10 अ०। स्वदर्शनविहितां प्रव्रज्यां गृहीत्वेत्यर्थे, सूत्र० 2 श्रु०१ अ० णिक्खय (देशी) निहते, देना० 4 वर्ग 32 गाथा। णिक्खसरिअ (देशी) मुषिते, देवना० ४वर्ग 41 गाथा। णिक्खित्त त्रि०(निक्षिप्त) स्वस्थानन्यस्ते, प्रश्न०३ आश्र० द्वार। विमुक्ते, ज्ञा०१ श्रु०१०) सुप्तोत्थिते, दे०ना०५ वर्गव्यवस्था-पिते, आचा०२ श्रु०१ चू०१अ०७उ० परित्यक्ते, व्य०२ उ०। "णिक्खित्तं णामगरलिगाबद्धं स्थापयति।" नि०चू०१ उ०। सचित्तस्योपरि स्थापिते, तच एषणादोषदुष्टत्वान्न ग्राह्यम्। प्रव०६७ द्वार। जीत०) अथ निक्षिप्तद्वारमाहसञ्चित्तमीसएसुं, दुविहं काएसु होइ निक्खित्तं / एकेक तं दुविहं, अणंतर परंपरं चेव / / 572 / / इह कल्पनीयं निक्षिप्तं द्विधा-सचित्तेषु, मिश्रेषु च / एकैकमपि द्विधा। तद्यथा-अननतरं, परम्परं च / तत्रानन्तरमव्यवधानेन, परम्परं व्यवधानेन। यथा सचित्तपृथिवीकायस्योपरि स्थापनिका, तस्या उपरि देयं वस्त्विति / इह परिहार्यापरिहार्यविभागं विना सामान्यतो निक्षिप्त सचित्ताचित्तमिश्ररूपभेदात् त्रिधा।तत्र च त्रयश्चतुर्भङ्गाः। तद्यथा-सचित्ते सचित्तम् 1, मिश्रे सचित्तम् 2, सचित्ते मिश्रम३, मिश्रे मिश्रमित्येका चतुर्भङ्गी तथा-सचित्ते सचित्तम्१, अचित्ते सचित्तम् 2, सचित्ते अचित्तम् 3, अचित्ते अचित्तमपि द्वितीया चतुर्भङ्गी। तथा–मिश्रे मिश्रम् 1, अचित्ते मित्रम् 2, मिश्रे अचित्तम् 3, अचित्ते अचित्तमिति तृतीया चतुर्भगी।। * पुस्तकान्तरे-- "सचित्तमीसएहिं दुविहं काएहि' इतिपाठः। सम्प्रत्यस्यैवानन्तरपरम्परविभागमाहपुढवीआउकाए-तेऊवाऊवणस्सइतसाणं। एक्के को दुगभेओ-ऽणंतरपरऽगणिम्मि सत्तविहो / 573 / पृथिव्यप्तेजोवायुवनस्पतित्रसकायानां सचित्ताना प्रत्येकं सचितपृथिव्यादिषु निक्षेपः संभवति, तत्र पृथिवीकायस्य निक्षेपः षोढा / तद्यथा-पृथिवीकायस्य पृथिवीकाये निक्षेप इत्येको भेदः, पृथिवीकायस्याप्काये इति द्वितीयः, पृथिवीकायस्य तेजस्काये इतितृतीयः, वातकाये इति चतुर्थः, वनस्पतिकाये इति पञ्चमः, जसकाये इति षष्ठः। एवमष्कायाऽऽदीनामपि निक्षेपः प्रत्येकं षोढा भावनीयः। सर्वसङ्ख्यया षत्रिंशत् भङ्गाः / एकैकोऽपि च भेदो द्विधा। तद्यथा-अनन्तरेण, परम्परया च / अनन्तरपरम्परव्याख्यानं च प्रागेव कृतम् / केवलमग्निकाये पृथिव्यादीनां निक्षेपः सप्तधा। एतच स्वयमेव वक्ष्यति। संप्रति पृथिवीकाये निक्षेपस्य यदुक्तं प्रत्येकं घोढात्वं, तत्सूत्रकृत् साक्षादृर्शयतिसचित्तपुढविकाए, सचित्तो चेव पुढवि निक्खित्तो। आऊतेउवणस्सइ-समीरणतसेसु एमेव // 574|| सचित्तपृथिवीकार्य सचित्तपृथिवीकायो निक्षिप्तः। एवं च पृथिवीकाये इव अप्तेजोवनस्पतिसमीरणत्रसेषु सचित्त एव पृथिवीकायो निक्षिप्त इति पृथिवीकायनिक्षेपः षोढा। एवं शेषकायेष्वतिदेशमाहएमेव सेसयाण वि, निक्खेवो होइ जीवकाएसु। एक्के को सट्ठाणे, परठाणे पंच पंचेव // 575 / / एवमेव पृथिवीकायस्येव, शेषाणामप्कायाऽऽदीना, निक्षेपो भवति, जीवनिकायेषु पृथिव्यादिषु। तत्र एकैको भङ्गः स्वस्थाने, शेषाः पञ्च पञ्च परस्थाने तथाहि-पृथिवीकायस्य पृथिवीकाये निक्षेपः स्वस्थाने, अप्कायाऽऽदिषु शेषेषु पञ्चसु परस्थाने / एवमप्कायाऽऽदीनामपि भावनीयम्। ततः स्वस्थाने एकैको भङ्गः, परस्थाने पञ्च पञ्च / तदेवं प्रथमचतुर्भङ्गिकायाः सचित्ते सचित्तमित्येवंरूपे प्रथमे भड्ने षट्त्रिंशभेदाः। सम्प्रति प्रथमचतुर्भङ्गया एव शेषं भङ्गत्रय, द्वितीयतृतीयचतुर्भङ्गयौ चाऽतिदेशतः प्रतिपादयतिएमेव मीसएसु वि, मीसाण सचेयणेसु निक्खेवो। मीसाणं मीसेसु य, दोण्हं पि य होइ चित्तेसु // 576 / / एवमेव सचित्तेषु इव मिश्रेष्वपि मिश्रपृथिव्यादिनिक्षेपः षट्त्रिंशदभेदोऽवगन्तव्यः / एतेन प्रथमचतुर्भङ्गो व्याख्यातः / एवमेव मिश्राणां पृथिव्यादीनां मिश्रेषु पृथिव्यादिषु निक्षेपः षट्त्रिंशद् भेदः / अनेन प्रथमचतुर्भङ्गचाश्चतुर्थो भङ्गो व्याख्यातः। सर्वसंख्यया प्रथमचतुर्भङ्गयां चतुश्चत्वारिंशं भङ्ग शतम् / एवमेव द्वयोरपि सचित्तमिश्रयोरचित्तेषु निक्षिप्यमाणयोर्ये द्वे चतुर्भङ्ग्यौ प्रागुक्ते, तत्रापि प्रत्येक प्रत्येक चतुश्चत्वारिंश भङ्गशतं भवति / सर्वसङ्ख्यया भङ्गानां शतानि चत्वारि द्वात्रिंशदधिकानि भवन्ति / उक्ता निक्षेपस्य भेदाः। सम्प्रत्यस्यैव निक्षेपस्य पूर्वोक्तं चतुर्भङ्गीत्रयमधिकृत्य कल्प्याकल्प्यविधिमाहजत्थ उ सचित्तमीसे, चउमंगो तत्थ चउसु वि अगेज्झं।