SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जत्तो 1361 - अभिधानराजेन्द्रः - भाग 4 जम जत्तो अव्य० (यतम्)"त्तो दो तसो वा" 82 / 160 / इति प्राकृतसूत्रेण तसः 'तो' इत्यादेशः / प्रा०२पाद। यस्मात्कारणादित्यर्थे, पञ्चा० १०विव०। जत्थकामोसाइत्तन० (यत्रकामावसायित्व) स्वाभिलषितस्य समाप्ति पर्यन्तनयने योगसिद्धिभेदे, द्वा०२६ द्वा०। जत्थ अय्य०(जत्थ) (यत्र यत्र) यद्-त्रल। यस्मिन् यस्मिन्नित्यर्थे, वाच०। "उवहाण जत्थ जत्थ जं सुत्ते, एसा सुत्तवीप्सा, जत्थ उद्देसगे, जत्थ अज्झयणे, जत्थ सुयक्खधे, जत्थं अंगे का-लुकालिय अंगाणंगेसु णेया।" नि० चू०१ उ०। जदिअव्य०(यदि) अभ्युपगमे, नि० चू०२ उ०। जदिच्छा स्त्री० (यदृच्छा) अभिसंधिराहित्ये, बृ०३ उ०। जदुणंदण पुं० (यदुनन्दन) श्रीकृष्णे, स्था० 8 ठा०। जपधा० (जप) उच्चारणे, वाचि च / भ्वा०-पर०-सक०-सेट्। अभि आभिमुख्येन जपे, सम्यक् कथने च / उप-भेदे, न०। वाच०। भावे अप। पुं०। मन्त्राभ्यासे, अनु०॥ तत्प्रकारो यथा"मनः संहृत्य विषया-न्मन्त्रार्थगतमानसः। न द्रुतं न विलम्बं च, जपेन्मौक्तिकपङ्क्तिवत्॥ जपः स्यादक्षरावृत्ति-मानसोपांशुवाचिकैः। धिया यदक्षरश्रेणी, वर्णस्वरपदात्मिकाम् / / उच्चरेदर्थमुद्दिश्य, मानसः स जपः स्मृतः। जिह्वोष्ठौचालयेत् किञ्चित्, देवतागतमानसः।। किञ्चिच्छ्रवणयोग्यः स्या-दुपांशुः स जपः स्मृतः। मन्त्रमुचारयेद्वाचा, वाचिकः स जपः स्मृतः।। उच्चैर्जपाद्विशिष्टः स्या-दुपांशुर्दशभिर्गुणैः। जिह्वाजपः शतगुणः सहस्रो मानसः स्मृतः।। जिह्वाजपः स विज्ञेयः, केवलं जिह्वाया बुधैः" / वाच०। जप्पपु० (जल्प) छलजातिनिग्रहस्थानसाधनोपालम्भपरे भाषणे, स्था० ६ठा०। नि० चू०। स०। जप्पभिइ अव्य० (यतः प्रभृति) यस्मात्कालादारभ्येत्यर्थे, "तप्पभिइंच णं अम्हं एसदारए कुच्छिसिगब्भत्ताए वक्कतेतप्पभिइचणं अम्हे हिरण्णेण, जाव पीइसक्कारेणं अईव अइव वड्डामो" / कल्प०४ क्षण। जम धा० (यम) उपरतौ, भ्वा०-पर०-सक० -अनिट् / उदित् क्त्वा वेट् / आ-दीर्धीकरणे, उप-विवाहे, 'यम' परिवेषणे, चुरा०-उभ०सक० -सेट्० -वा-घटा० / वाच० | यम-धा० -घम् / प्राणातिपातविरल्यादिरूपेषु पञ्चसु महाव्रतेषु, पुं० / उत्त० 25 अ० / "दो यमा' स्था० 2 ठा०३ उ० / ज्ञा० / ध०र० / तत्र महाव्रतपदेनैते जिनेरभिधीयन्ते, व्रतपदेन भागवतैः धर्मपदेन पाशुपतैः सांख्ययासमतानुसारिभिश्च यमपदेनाभिधीयन्ते, कुशलधर्मपदेन च बौद्धरभिधीयन्ते, वैदिकादिभिश्च ब्रह्मादि-पदेनाभिधीयन्ते / द्वा० 8 द्वा० / हा०। तत्स्वरूपं त्वेवम्अहिंसासूनृताऽस्तेय-ब्रह्माकिञ्चनता यमाः। दिक्कालाद्यनवच्छिन्नाः, सार्वभौमा महाव्रतम्।। प्राणवियोगप्रयोजनो व्यापारो हिंसा, तदभावोऽहिंसा / वाङ्मन- | सोर्यथार्थत्वं सूनृतम् / परस्वापहरणं स्तेयं, तदभावोऽस्तेयम्। उपस्थसंयमो ब्रह्म / भोगसाधना नामस्वीकारोऽकिश्चनता, एतेयमाः / तदुक्तम् - "अहिंसासत्यास्तेय-ब्रह्मचर्यापरिग्रहाः यमाः" इति / दिगदेशस्तीर्थादिः, कालश्चतुर्दश्यादिः, आदिना ब्राह्मण्या-दिरूपाया जातेर्बाह्यणादिप्रयोजनरूपस्य समयस्य च ग्रहः / ततो दिक्कालादिना अनवच्छिन्नाः "तीर्थे कञ्चन न हनिष्यामि'' "चतुर्दश्यांन हनिष्यामि" "ब्राह्मणान्न हानिष्यामि'' "देवब्राह्मणाद्यर्थव्यतिरेकेण नकमपि हनिष्यामि'' इत्येवंविधावच्छेदव्यतिरेकेण सर्वविषया अहिंसा-दयो यमाः, सार्वभौमाः सर्वासु क्षिप्राद्यासुचित्तभूमिषु संभवन्तो महाव्रतमित्युच्यन्ते। तदुक्तम् - "एते तु जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥सा द्वा०२१ द्वा०। इच्छायमादिचतुर्भेदेषु, तथाहियमाश्चतुर्विधा इच्छा-प्रवृत्तिस्थैर्यसिद्धयः। (25) (यमा इति) यमाश्चतुर्विधाः- इच्छायमाः प्रवृत्तियमाः, स्थिरयमाः, सिद्धियमाश्च। (२५)द्वा०१६ द्वा०। इच्छायमो यमेष्विच्छा, युता तद्वत्कथामुदा। स प्रवृत्तियमो यत्तत्, पालनं शमसंयुतम्।।२६।। तद्वता यमवतां कथातो या मुत्प्रीतिः, तया युता सहिता यमेष्विच्छा इच्छायम उच्यते / यत्तेषां यमानां पालनं शमसंयुतमुपशमान्वितं स प्रवृत्तियमः / तत्पालनं चात्राविकलमभिप्रेतम्, तेन न कालादिविकलतत्पालनक्षणे इच्छायमेऽतिव्याप्तिः / / न च सोऽपि प्रवृत्तियम एव, केवलं तथाविधसाधुचेष्टया प्रधान इच्छायम एव तात्विक-पक्षपातस्यापि द्रव्यक्रियातिशायित्वात्। तदुक्तम्- ''तात्त्विकः पक्षपातश्च, भावशून्या च या क्रिया / अनयो रन्तरं ज्ञेयं, भानुखद्योतयोरिव'' ||1|| संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वानुरोधे तु प्रवृत्तियम एवायं, तस्य शास्त्रयोगानियतत्वादिति नयभेदेन भावनीयम् // 26 // सत्क्षयोपशमोत्कर्षा-दतिचारादिचिन्तया। रहिता यमसेवा तु, तृतीयो यम उच्यते / / 27 / / सतो विशिष्टस्य क्षयोपशमस्य उत्कर्षादुद्रेकादतिचारादीनां चिन्तया रहिता, तदभावस्यैव विनिश्चयात् / यमसेवा तु तृतीयो यमः स्थिरयम उच्यते॥२७॥ परार्थसाधिका त्वेषा, सिद्धिः शुद्धान्तरात्मनः। अचिन्त्यशक्तियोगेन, चतुर्थो यम उच्यते // 28|| (परार्थेति) परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा यमसेवा सिद्धिः / शुद्धः क्षीणमलतया निर्मलोऽन्तरात्मा यस्य अचिन्त्याया अनिर्वचनीयायाः शक्तेः स्ववीर्योल्लासरूपायाः योगेन चतुर्थो यम उच्यते // 28|| द्वा० 16 द्वा०। यमयति-अच् / वाच० / दक्षिणदिक्पालनिकायाश्रिते लोकपाले, प्रश्न०१ आश्र० द्वार / भरणीनक्षत्राधिपतौ, सू० प्र० 10 पाहु० / जं० / ज्यो० / स्था० / यमदग्निगुरौ तापसविशेषे, आ० म०प्र० / आ० चू०। आ० क०। "यमाख्यस्तापसस्तत्र, स तत्पाद्येऽग्निकोऽगमत्। प्रपन्नस्तस्य शिष्यत्वं, स घोरं तप्यते तपः॥ यमशिष्योऽनिक इति, यमदग्निरिति श्रुतः।" आ० क०। "जमो नाम से तावसो" आ० म० द्वि०। आ० चू० / संयमने, आ०
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy