________________ णायाधम्मकहा 2011 - अभिधानराजेन्द्रः - भाग 4 णारग वेदितव्यम् / तथा चाऽऽह चूर्णिकृत्- "पयग्गेण ति-उवसग्गपयं, निवायपयं, नामियपयं, अक्खायपदं, मिस्सपयं च। एए पए अहि-किच पंचलक्खा छावत्तरिसहस्सा पयग्गेणं भवंति।" अथवा-इह पदं सूत्रालापकरूपमुपगृह्यते, ततः तथारूपपदापेक्षया संख्येयानि पदसहस्राणि भवन्ति, न लक्षाः / आह च चूणिकृत्-"अथवा सुत्तालावगपयग्गेणं संखेज्जाई पयसहस्साई भवंति ति।" न०। स० आया अनु०। सूत्र०ा ग्रन्थान्ते टीकाकारोऽभयदेवसूरिः-समाप्ता चेयं ज्ञाताधर्मकथाप्रदेशटीकेति। "नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः। नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ||1|| इह हि गमनिकाथ , यन्मयाऽभ्यूहयोक्तम्, किमपि समयहीन, तद्विशोध्यं सुधीभिः। न हि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे // 2 // परेषां दुर्लक्षा भवति हि विवक्षा फुटमिदं, विशेषादृद्धानामतुलवचनज्ञानमहसाम्। निराम्नायाधीभिः पुनरतितरां मादृशजनैः, ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह // 3 // ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः स यत्नतः। न पुनरस्मदाख्यात, एव ग्राह्या नियोगतः॥४॥ तथाऽपि माऽस्तु मे पापं, सद्धमत्युपजीवनात्। वृद्धन्यायानुसारित्वात्, हितार्थं च प्रवृत्तितः / / 5 / / तथाहि किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकटमतिदेशतो विविधवाचनातोऽपि यत्। समार्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि यत्, पराऽऽत्महितहेतवेऽनभिनिवेशिना चेतसा // 6 // यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धाऽऽदिसंबन्धि तत्। नानावृत्तिकथाः कथापथमतिक्रान्तं च चक्रे तपो, निःसंबन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा // 7 // तस्याऽऽचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्धिनः, तबन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि। छन्दोबन्धनिबद्धबन्धुरवचः शब्दाऽऽदिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्वारित्रचूडामणेः॥८॥ शिष्येणाभयदेवाऽऽरख्यसूरिणा विवृतिः कृता। ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः / / / " ज्ञा०२ श्रु०१० वर्ग 1 अग णारइय पुं०(नारयिक) नैरपिके नरकपृथिवीषूत्पन्ने, प्रा०२ पाद। णारग पु०(नारक) नरकेषु भवानारकाः। नरको वा विद्यते येषां ते नारकाः / नरकपृथिवीषूपूपन्नेषु जीवेषु, नं०ा आ०म०। प्रव०। कर्म०। आवा नारकाऽस्तित्वसिद्धिःकिं मण्णे नेरइया, अस्थि नऽत्थि त्ति संसओ तुझं। वेयपयाण य अत्थं, न जाणसी तेसिमो अत्थो।।१८५७।। किं नारकाः सन्ति, न वा? इति त्वं मन्यसे / अयं च तव संशयो विरुद्धवेदपदश्रवणनिबन्धनः / तथाहि-"नारको वै एष जायते यः शूद्रान्नमश्नाति' इत्यादि / एष ब्राह्मणो नारको जायते यः शूद्रानमश्नातीत्यर्थः; इत्यादीनि वाक्यानि नारकसत्ताप्रतिपादकानि, "न ह वै प्रेत्य नारकाः सन्ति' इत्यादीनि तु नारकाभावप्रतिपादकानि, तत्रैषां वेदपदानामर्थ, चशब्दाधुक्तिहृदयं च त्वं न जानासि,यत एतेषामयं वक्ष्यमाणोऽर्थ इति // 1887 / / अत्र भाष्यम्तं मन्नसि पचक्खा , देवा चंदाऽऽदओ तहऽन्ने वि। विजामंतोवायणफलाइसिद्धाऍ गम्मंति॥१९५८|| जे पुण सुइमेत्तफला, नेरइय त्ति किह ते गहेयव्वा। सक्खमणुमाणओ वाऽणुवलंमा भिन्नजाईया? // 1586 हे आयुष्मन्नकम्पित ! त्वमेवं मन्यसेदेवास्तावच्चन्द्राऽऽदयः प्रत्यक्षप्रमाणसिद्धा एव, अन्ये त्वप्रत्यक्षा अपि विद्यामन्त्रोपयाचितकाऽऽदिफलसिद्ध्याऽनुमानतो गम्यन्ते, ये पुनः "नारका" इत्यभिधानमात्ररूपा श्रुतिरेव फलं येषां, नपुनः तदभिधायकशब्दव्यतिरिक्तोऽर्थः, ते साक्षात, अनुमानतो वाऽनुपलभ्यमानत्वेन तिर्यड्नरामरेभ्यः सर्वथा भिन्नजाता याः कथं 'सन्ति' इति गृहीतव्याः, खरविषाणवद्? इति // 1888 // 1886 / / अथ भगवानुत्तरमाहमह पचक्खत्तणओ, जीवाई य व्व णारए गिणह। किं जं सप्पचक्खं, तं पचक्खं नवरि इकं? |1860 // जं कासइ पच्चक्खं, पञ्चक्खं तं पि घेप्पइ लोए। जह सीहाऽऽइदरिसणं, सिद्धं न य सव्वपञ्चक्खं // 1861 / / हे आयुष्मन् ! अकम्पित ! साक्षादनुपलभ्यमानत्यादित्यसिद्धो हेतुः, यतोऽहं केवलप्रत्यक्षेण साक्षादेव पश्यामि नारकान, ततो मत्प्रत्यक्षत्वात् 'सन्ति' इति गृहाण प्रतिपद्यस्व नारकान, जीवा-जीवाऽऽदिपदार्थवत्। अथैवं मन्यसेममाप्रत्यक्षत्वात्कथमेतान् गृहामि? ननु दुरभिप्रायोऽयम्, यतः किं यत् स्वस्याऽऽत्मनः प्रत्यक्षं तदेवैकं नवरं प्रत्यक्षमुच्यते? इति काक्वा नेयम् / ननु यदपि कस्यचित् प्रत्ययितपुरुषस्यान्यस्य प्रत्यक्षं, तदपि प्रत्यक्षमिति गृह्यते व्यवहियते लोके / तथाहि- सिंहसरभहंसाऽऽदिदर्शनं सिद्धं प्रसिद्ध लोके, नच सिंहाऽऽदयः सर्वजनप्रत्यक्षाः, देशकालग्राम-नगरसरित्समुद्राऽऽदयश्चन सर्वेऽपि भवतः प्रत्यक्षाः, अथ चान्यस्यापि प्रत्यक्षास्ते प्रत्यक्षतयो व्यवहियमाणा दृश्यन्ते, अतो मत्प्रत्यक्षा नारकाः किमिति प्रत्यक्षतया न व्यवलियन्ते? इति // 1860||1861 // अथाभिप्रायान्तरमाशक्य परिहरन्नाहअहवा जमिंदियाणं, पचक्खं किं तदेव पचक्खं? उवयारमेत्तओ तं, पचक्खमणिंदियं तत्थं / / 1862 / / अथवा-कि यदिन्द्रियाणां प्रत्यक्षं तदेव प्रत्यक्षमिष्यते भवता, मदीय तु प्रत्यक्षं नाभ्युपगम्यते, अतीन्द्रियत्वात्? ननु महानयं विपर्यासः, यस्मादुपचारमात्रत एव तदिन्द्रिय प्रत्यक्ष प्रत्यक्षतया व्यवहियते यथाऽनुमाने बाहाधूमाऽऽदिलिङ्ग द्वारेण बाह्यमग्न्यादि वस्तु ज्ञायते, नैवमत्र, तत उपचारात् प्रत्यक्षमिव प्रत्यक्षमुच्यते। परमार्थतस्तुइदमपि परोक्षमेव, यतोऽक्षो जीवः, सचानुमानवदत्रापि वस्तु साक्षाद् न पश्यति,किं