________________ णायविहि 2008 - अभिधानराजेन्द्रः - भाग 4 णायविहि थावच्चापुत्तेणं, आहरणं तत्थ कायव्वं // 46|| "पीढमद्दा नाम मुखप्पियजंपगा, ते पव्वजाओभावणावयणाणि भणिजति, ते य पडिवात्तकुसलेणं कहएणं मलिया महिया भवति'' इति चूर्णिः / स्थिरीकरणानमित्तं तत्र धर्मकथायां स्थापत्यापुत्रेण ज्ञाताधर्मकथाप्रसिद्धनाऽऽहरणं कर्तव्यम् // 46 / / कहिए व अकहिए वा, जाणणहेउं अइंति भत्तघरं / पुवाउत्तं तहियं, पच्छाउत्तं व जाणंति // 50|| धर्मे कथिते, अकथिते वा भिक्षाग्रहणवेलायामुद्रमाऽऽदिशुद्धिज्ञानार्थ भक्तगृहं महानसं प्रविशन्ति, प्रविश्य च यत्तत्र पूर्वायुक्तं पूर्वप्रवृत्तभुपस्क्रियमाणं,पश्चादायुक्तं यत्तेषु साधुष्वागतेषु तन्निमित्तमुपस्क्रियमाणं तत्परिभावयन्ति // 50 // पूर्वायुक्तमित्यत्र व्याख्यानद्वयं परमतेन दर्शयतिपुव्वाउत्ताऽऽरुहिते, केसिं वि समीहियं तु जं तत्थ। एए न होंति दोण्णि वि, पुव्वपवत्तं तु जं तत्थ // 51 // केचिद् व्याचक्षतेपूर्वायुक्त नाम चुल्यां पाकार्थमारोपितम् / केपाश्चित्पुनरिदं व्याख्यानम्-यत्तत्र समीहितं पाकाय दौकितम् / एतौ द्वावप्यादेशौ प्रमाण न भवतः, तस्मादिदं व्याख्यानम्-यत्तत्र गृहस्थानां पूर्वप्रवृत्तमुपस्क्रियमाण तत्पूर्वायुक्तमिति / / 51 / / अथ कस्मादितरदादेशद्वयं न प्रमाणमत आह-- पुव्वाऽऽरुहिते य समी-हिए य किं छुभइ न खलु अण्णं? तम्हा खलु जं उचियं, तं तु पमाणं न इतरं तु // 52 // पूर्व चुल्यामारोपिते समीहिते वा किं न क्षिप्यते? इति भावः / तस्मात् खलु यदुचित्तं व्याख्यानं, तत्प्रमाण, नेतरत्परकीयमादेशद्वयम्॥५२॥ बालगपुच्छाऽऽदीहिं,नाउं आयरमणायरेहिं च। जं जोग्गं तं गेण्हइ, दव्यपमाणं च जाणेज्जा / / 53 / / बालकपृच्छाऽऽदिभिरादिशब्दाद् बालकोल्लापाऽऽदिभिश्च पिण्डनियुक्तिप्रसिद्धैः, तथा आदरानादराभ्यां च योग्यमयोग्यं विज्ञाय तत्र च यद् योग्यं श्रमणप्रायोग्यं प्रतिभाति तत् गृह्णाति वरवृषभः / द्रव्यप्रमाणं च जानीयात्-कियत् कुटुम्बमन्यद्वा? भोजनं कियद् वा रद्धमित्येवं यद् यावत् प्रायोग्यं प्रतिभासते, तावद् गृह्णीयात् // 53 / / संप्रत्येतदेव सविशेषतरमाहदव्वपमाणं गणणा, खारिय फोडिय तहेव अद्धा य / संदिग्ग एगठाणे, अणेगसाहूसु पन्नरस // 54|| द्रव्यं प्रमाणं नाम द्रव्याणां गणना / यथा-एतावन्तोऽत्रौदन भेदाः, एतावन्ति च शाकविधानानि, इयन्तश्च खाद्यविशेषाः, एतावन्ति च द्राक्षापानकाऽऽदीनि, तथा क्षारितानि लवणखरण्टितानि शालकानीत्यर्थः / स्फोटितं जीरकहिड्गुधूपवासितम्। एतत्सर्व ज्ञातव्यम्। तथा अद्धा कालो भिक्षायाः ज्ञातव्यः, अन्यथाऽवष्वष्कणाऽऽदयो दोषाः स्युः / तथा संविना एकस्थाना एकसाटाऽऽत्मकाः प्रविशन्ति, ततः / कल्पते, अनेकसाधुषु अनेकेषु साधुसङ्घाटेषु प्रविशत्सु न कल्पते, यतस्तत्र नियमादाधाकर्मसहिता औद्देशिकाऽऽदयः पञ्चदश दोषाः॥५४॥ एतदेव विवरीषुः प्रथमतो द्रव्यप्रमाणमाहसत्तविहमोदणो खलु, साली वीही य कोद्द जवे य / गोहुमरालगआरण्णकूर खज्जा यऽणेगविहा / / 5 / / सप्तविधो, मकारोऽलाक्षणिकः, ओदनः कूरः, तथा-शालिःकलमशाल्यादिकूरः, व्रीहिः सामान्यतन्दुलौदनः, कोद्रवकूरो, यवकूरः, गोधूमकूरो, रालककूरः, अकृष्टपच्याऽरण्यब्रीहिकूरश्च, खाद्यानि च अनेकविधानि // 5 // सागविहाणा य तहा, खारियमादीणि वंजणाई वा। खंडाऽऽदिपाणगाणि य, नाउंतेसिं तु परिमाणं // 56 / / शाक विधानानि प्राजमनकानि, क्षारिताऽऽदीनि, आदिशब्दात् स्फोटितपरिग्रहः, व्यञ्जनानि, तथा खण्डानि, पानकानि, आदिशब्दाद् द्राक्षाऽऽदिपरिग्रहः / तेषामोदनाऽऽदीनां परिमाणं ज्ञात्वा / / 56|| किमिति? आहपरिमियभत्तगदाणे, दसुवक्खमियम्मि एगभत्तट्ठो। अपरिमिते आरेण वि, गेण्हइ एवं तु जं जोग्गं / / 57 / / परिमितभक्तदाने परिमितानां भक्त कमेभिर्दा तव्यमिति निश्चये यावद्दशानां योग्यमुपस्कृतं तावत्येकभक्तार्थों ग्राह्यः एकयोग्यं तत्र भक्तं ग्राह्यमिति भावः / अपरिमिते अपरिमितभक्तकदाने दशानामारतोऽपि नवानामष्टानां वा योग्यं यदुपस्कृतम्, तत्रैवं स्थानपरिमाणचिन्ताध्यतिरेकेण यद् योग्यं तद् यावत् पर्याप्तं गृह्णाति॥५७।। अद्धाय जाणियय्वा, इहरा ओसक्कणाऽऽदयो दोसा। संविग्गे संघाडो, एगो इयरेसुन विसंता / / 58|| अद्धा भिक्षावेला ज्ञातव्या, इतरथाऽवष्वष्कणाऽऽदयो दोषा भवेयुः। तथा 'संविगे' संविग्नानामेकः सङ्घाटो यत्र प्रविशति तत्र गन्तव्यम्। इतरेषु यत्र बहवः सङ्घाटकाः प्रविशन्ति, तत्र न गच्छन्ति।।५८|| तेहिं गिलाणगस्सा, अहागडाइं हवंति सव्वाई। अभंगसिरावेहो, अपाणछेयावणेज्जाई।।५।। यदि स्वजनाना संबन्धी कोऽपि ग्लानो वर्तते, ततस्तस्य चिकित्सा वैद्यः करोति / यदि वा-वैद्यः साधुस्वजनाना, स्वजनोऽस्य कस्यापि ग्लानस्य क्रियां करोति, ततस्तत्र ग्लानो ज्ञातविधि नीयते, यतस्तत्र ग्लानस्याभ्यङ्गं शिरावेधोऽपानमपानकर्म छेदेनापनीयानि छेदापनीयानि, एतानि सर्वाणि यथाकृतानिपुरः कर्मपश्चात्कर्मरहितानि भवन्ति // 56 // एतदेव स्पष्ट भावयतिजइ नीयाण गिलाणो, नीओ विज्जो व कुणइ अन्नस्स। तत्थ हुन पच्छकम्म, जायइ, अब्भंइमाईसु // 6 // यदि निजकानां संबन्धी ग्लानो, वैद्यो वा निजकोऽन्यस्य कुरुते चिकित्सा, तत्र 'हु' निश्चितं, न पश्चात्कर्माभ्यङ्गाऽऽदिषु जायते। कथं न जायते? इत्याहपुव्वं च मंगलट्ठा, उप्पेउं जइ करेइ गिहियाणं / सिरवेधवत्थिकमाइएसुन उपच्छकम्मोऽयं // 61 / / पूर्व यदि मङ्गलार्थं साधौ ‘उप्पेय' देशीपदमेतत् अभ्यङ्ग कृत्वा, पश्चाद् गृहिकाणां गृहस्थानां करोत्यभ्यङ्गम्, एतत् पश्चात्कर्म