SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ णायविहि 2007- अभिधानराजेन्द्रः - भाग 4 णायविहि स्वाध्याये भिक्षाभावे च परीक्षितव्यः स एभिर्वक्ष्यमाणैरुपायैः / / 37 / / तानेवाऽऽहचरणकरणस्स सारो, मिक्खायरिया तहेव सज्झाओ। एत्थ परितम्ममाणे, तं जाणसु मंदसंविग्गं / / 3 / / चरणं व्रतश्रमणधर्माऽऽदि। उक्तं च-"वयसमणधम्म संजमवेयावचं च बंभगुत्तीओ।नाणाइतियं तक्कोहनिग्गहा इइ चरणभेयाः ॥१॥"(सम्म०३ काण्ड) करणं पिण्डविशुद्ध्यादि। उक्तंच-"पिंडविसोही समिती, भावण पडिमा य इंदिय निरोहो / पडिलेहण गुत्तीओ, अभिग्गहा चेव करणं तु // 1 // " (ग०१ अधि०) तस्य चरणकरणस्य सारो भिक्षाचर्या, स्वाध्यायश्च ततोऽत्र भिक्षाचर्यायां, स्वाध्याये च परिताम्यति क्लेश मन्यते, तं जानीत मन्दसंविग्नम्॥३८॥ चरणकरणस्स सारो, मिक्खायरिआ तहेव सज्झाओ। एत्थ उ उज्जममाणे,तं जाणसु तिव्वसंविग्गं ||3|| चरणकरणस्य सारो भिक्षाचर्या, तथैव स्वाध्यायः, ततोऽत्र भिक्षाचर्याऽऽदावुद्यच्छति, तं जानीत तीव्रसंविग्नं, तदेवं स्थिरा-- स्थिरपरिज्ञानार्थं परीक्षा उक्ता // 36 // संप्रति किमेष उपसर्ग सहिष्णुः, किं वा न ? इति परीक्षार्थमाहकइवेण सहावेण य, अण्णस्स व साहसं कहिजते। मायपितिभायभगिणी-मज्जापुत्ताऽऽदिएसुं तु॥४०॥ यथा स शृणोति तथा कैतवेन स्वभावेन वा अन्यस्य साधोः मातापितृभातृभगिनीभार्यापुत्राऽऽदिषु विषये साध्वसं कथ्यते॥४०।। केन प्रकारेण? इत्यह आहसिरकोट्टणकलुणाणि य, कुणमाणाइं तु पायवडियाई। अमुएण न गणियाइं,जो जंपति निप्पिपासो त्ति / / 4 / / मातापित्रादीनां शिरःकुट्ट न करुणरोदनभाषणानि क्रियमाणानि पादपतितानि वाऽमुकेन न गणितानि, एवं साध्वसे कथ्यमाने, वो जल्पति-अतीव खलु निष्पिपासो घोरहृदयः, न युज्यते तादृशेन सह वक्तुमपीति // 41 // सो भावतों पडिबद्धो, अपडीबद्धो वएज्ज जो एवं / सोइहिति केत्तियाऊ,नीया जे आसि संसारे? ||42|| सभावतः स्वज्ञातेषु प्रतिबद्धो ज्ञातव्यो, न शक्तः स सोढुमुपसर्गानिति। यस्तु तथा साध्वसे कथ्यमाने,एवं ब्रूते-संसारे सर्व-जीवाः सर्वेषां | पुत्रत्वाऽऽदिकमुपगताः, ते आसीरन् संसारेऽनन्ते निजाः, तान् कियतः स शोचयिष्यति? किंवा मातापित्रादिभिः शोचितैर्ये निजान संसाराद्न च संजमे पातयन्ति? स ज्ञातव्यो भावतः स्वजनेष्वप्रतिबद्धः समर्थः सोढुमुपसर्गानिति // 42 // मुहरागमादिएहि य, तेसिं नाऊण रागवेरग्गं / नाऊण थिरं ताहे, ससहायं पेसवेंति ततो / / 43|| यस्य ज्ञातविधिजिगमिषोः शोभनो मुखरागः, स ज्ञायते स्व-जनेषु भावतः प्रतिबद्धः, उपसर्गानसहिष्णुश्च; यस्य तु न तथाविधो मुखरागः स्पष्टो लक्ष्यते स ज्ञेयो भावतः स्वजनेष्वप्रतिबद्धः, सहिष्णुश्च उपसर्गान्। एवं मुखरागाऽऽदिभिस्तेषां ज्ञातविधिंगन्तुमिच्छतां राग वैराग्यं च, तथा स्थिरगुणलक्षणमस्थिरं च ज्ञात्वा, ततः स्थिरं भावतः स्वजनेष्वप्रतिबद्ध ससहायं सुरयः प्रेषयन्ति॥४३॥ साम्प्रतमल्पश्रुताल्पाऽऽगमपदव्याख्यानार्थमाहअबहुस्सुतो अगीतो, बाहिरसत्थेहिँ विरहितो इयरो। तव्विवरीए गच्छे, तारिसगसहायसहितो वा।।४।। अबहुश्रुतो नामाल्पश्रुतः, स चागीतार्थ उच्यते, इतरोऽल्पागमो यो बाह्यशास्वैर्विरहितः, एतादृशो नगच्छेत् स्वजनविधौ, किंतु तद्विपरीतो बहुश्रुते बागमश्च, यदि वा-स्वयमल्पश्रुतोऽल्पाऽऽगमो वा तादृशसहायकसहितः॥४४॥ बहुश्रुतविशेषमाहधम्मकहीवादीहि य, तवस्सिगीएहि संपरिवुडो उ। नेमित्तिएहिँ य तहा, गच्छइ सो अप्पछट्टो उ॥४५|| धर्मकथिभिर्द्वित्रिप्रभृतिभिः वादकुशलैः तपस्विभिः षष्ठाष्टमाऽऽ-- दितपःकारिभिर्गीतार्थः सूत्रार्थतदुभयनिष्णातैर्निमित्तिकैश्च संपरिवृतो गच्छेत् / अथधर्मकथ्यादयो बहवो न सन्ति, ततो जघन्य-तोऽप्येकैकधर्मकथ्यादिसहाय आत्मषष्ठो व्रजेत्॥४५।। तत्र प्रवेशविधिमाहपत्ताण वेल पविसण, अह पुण पत्ता पगे भविजाहि। तं बाहिरं ठवेलं, वसहिं गेण्हति अन्नत्थ।।४६|| यदि वेलायां स्थान प्राप्तास्तर्हि समकालमेव सर्वेषां प्रवेशनम् / अथ पुनः प्रगे प्रभात एव प्राप्ता भवेयुस्तदा तं स्वजनं बहिः स्थापयित्वा वसतिमन्यत्र गृह्णन्ति॥४६॥ पडिपत्तीकुसलेहिं, सहितो ताहे तु वचए तहियं / वास पडिग्गहगमणं,नातिसिणेहाऽऽसणग्गहणं / / 47|| अन्यत्र वसतौ गृहीतायां प्रतिपत्तिकुशलैः सहितस्ततो बहिः-स्थानात् तत्रवसतौ व्रजति, तत्र तावदावासोयावद्भिक्षावेलाः, ततः पतद्रह गृहीत्वा गमन विधेयम्। तत्र यदि प्राप्तायां भिक्षावेलायां पतद्ग्रहं गृहीत्वा व्रजन्ति, तदा तत्कालमेव गृह्णन्ति भक्ताऽऽदि-कम्, अथ भिक्षावेलायामप्राप्तायां तत्र एतद्ग्रहं गृहीत्वा व्रजन्ति, निमन्त्रयन्ति च ते, तदा तत्क्षणमेव यल्लभन्ते तद् गृह्णन्ति। अथ मुहूर्तानुगुण्यतः कृतभिक्षाकाः तत्र गताः, तर्हि यत्र पतद्ग्रहं न नयन्ति, तत्र च गत्वा नातिस्नेहः स्यज्ञातकाला दर्शनीयः, यदि पुनरतिस्नेहं दर्शयति, ततः-अनुरक्तोऽस्माकमिति ज्ञात्वा ते उप-सर्गयेयुः / तथा तत्र गतेनाऽऽसनपरिग्रहः कर्तव्यः, न पुनरेवं चिन्तनीयम्- "आसंदीपलियंकेसुमंचमासालयेसु वा / अणायरियमजाणं, आसइत्तु सइत्तु वा" ||1|| ()आसनपरिग्रहाभावे हि अपभ्राजना भवति। तस्मादासने उपवेष्टव्यम्॥४७॥ सयमेव उ धम्मकही, सासणपण्णे य निम्मुहे कुणति। अपडुपण्णे य तहिं, कहेइ तल्लद्धिओ अण्णो // 48|| यदि स स्वज्ञातिकसाधुः धर्मकथायां कुशलप्रायः शासनप्रत्यनीकाँश्च निरुत्तरान् कर्तुं समर्थः, ततः स्वयमेव तस्यधर्मकथा कथनीया भवति। अथ सोऽप्रत्युत्पन्नोऽनागमिकः प्रतिपत्त्यकुशलो वा तदा तरिमन्नप्रत्युत्पन्नेऽन्यस्तल्लब्धिको धर्मकथालब्धिसंपन्नः प्रत्युत्तरदानलब्धिसंपन्नश्च कथयति॥४८॥ मलिया य पीढमद्दा, पव्वजाए य थिरनिमित्तं तु।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy