________________ णायविहि 2006 - अभिधानराजेन्द्रः - भाग 4 णायविहि विषद्वारमाहनेच्छंति देवरा मे, जीवंते इमम्मि इति विसं देजा। अण्णेण व दावेज्जा, ससुरो वा से करेइ इमं // 26 // तं ज्ञातविधिगतं साधुंदृष्ट्वा तद्भार्येदं विचिन्तयेत्-अस्मिन् जीवति मां देवरा भोग्यतरा नेच्छन्ति, तस्मान्मारयामि केनाप्युपायेन चैनमिति विचिन्त्य स्वयं वा विषं दद्यात्, अन्येन वा दापयेत्। 'सयं च ससुरेण' इत्यादिद्वारमाह-'से' तस्य साधोः श्वशुरो वा स्वयमिदं कुर्यात्।।२६।। किं तदित्याहपंतवणबंधभण, तस्स वि नीयल्लगा उखुडभेजा। अहवा कसाइतो तू, सो वऽतिवाएज एकतरं // 27|| श्वशुरस्तं दृष्ट्वा कुप्येत्, यथा-एतेन मम दुहिता जीवच्छल्यी कृता, ततः कोपात् तस्य साधोः प्रान्तापणं प्रहारदानं, बन्धनं वा निगमाऽऽदिभिः, रोधं वा गृहान्नगराद्वा अनिर्गमनं कुर्यात्, कारयेत् वा / तस्यापि च साधोः, निजका आत्मीयाः, तमेनामवस्थां प्राप्तं दृष्ट्वा, ज्ञात्वा वा क्षुभ्येयुः, क्षोभाच श्वशुरेण समं युद्धं कुर्युः, तत्र परस्परमपद्रावणाऽऽदि भूयात् / अथवा स एव साधुः कषायितः कषायोदयं प्राप्तः सन् एकतरं श्वशुराऽऽद्यन्यतममतिपातयेत् // 27 // अत्र प्रायश्चित्तविधिमाहएकम्मि दोसु तीसु व, मूलऽणवट्ठो तहेव पारंची। अह सो अतिवाएजइ, पावइ पारंचियं ठाणं // 28 // एकस्मिन्नतिपातिते मूलप्रायश्चित्तभाग भवति, द्वयोरतिपातितयोरनवस्थाप्यः, त्रिषु अतिपातितेषु पाराची / अथ स एव अतिपात्यते साधुस्तर्हि स यदि कथमपि जीवति ततः पाराञ्चित स्थान प्राप्नोति॥२८॥ अन्यान् दोषानाहअहवा विधम्मसडा, साहू तेसिं घरे न गेण्हंति।। उग्गगदोसाऽऽदिभया, ताहे नीया भणंति इमं / रक्षा अथ वेति प्रकारान्तरेण दोषकथनोद्योतने, साधवो धर्मश्रद्धा उद्गमदोषाऽऽदिभयात्तेषां गृहे न किमपि गृह्णन्ति, ततस्ते निजाः स्वजना इदं भणन्ति // 26 // किं तदित्याहअम्हं अणिच्छमाणो, आगमणे लजणं कुणति एसो। ओहावण हिंडते, अण्णो लोगो व णं भणति // 30|| अस्माकं गृहे किमप्यभिच्छन् एष आगमने लज्जनमयशस्कारं करोति। यतः-अस्मिन् प्रतिगृहमन्यत्र भिक्षा हिण्डमाने महती नूनमस्माकमपभ्राजना, लोको वाऽन्य इदं भणति // 30 // किं तदित्याहनीयल्लस्स वि भत्तं, न तरह दाउंति तुझें कियण त्ति / गेहे भुंजसु वुत्ते, भणाति नो कप्पियं भुजे // 31 // तं साधु भिक्षामटन्तं दृष्ट्वा केचित् अन्ये स्वजनान् प्रति ब्रूयुः-यथा यूयं कृपणा निजकस्याप्येकस्य प्राघूर्णकाऽऽगतस्य भक्तं दातुं न शक्नुथ, ततस्ते एवमुक्ताः सन्तः साधुसमीपमागत्य ब्रुवते-यावन्ति दिनानि यूयमत्र तिष्ठथ,तावन्माऽन्यत्र भिक्षामटत,तु गहे भुध्वम्, अन्यत्र भिक्षाटने हि महत्यस्माकमपभ्राजना। स एवमुक्तः साधुर्भणति-युष्मद्गृहे न भुजे, यतः अहं कल्पिकं भुजे, युष्मद् गृहे च उद्माऽऽदिदोषाऽऽशङ्का / / 31 / / एवमुक्ते ते स्वजनाः प्राऽऽहुःकिं तं ति खीरमादी, ददामों दिन्ने य भातिभजाओ। बेंति सुते जायंते, पडिया णे करा बहू पुत्ता ! ||32|| किं तत् कल्पिक यत्त्वं मुझे , ततः साधवो ब्रुवतेयानि युष्माकं यथाप्रवृत्तानि क्षीराऽऽदीनि क्षीरदधिघृतगुडाऽऽदीनि; ततस्ते आहुःएतानि यथाप्रवृत्तानि दास्यामः / गाथायां 'वर्तमानसामीप्ये वर्तमानबद्धा"॥३३१३१॥ इति वचनात् तेदातुं प्रवृत्ताः, ततो दत्ते क्षीराऽऽदिके भ्रातृभार्याः सुतान् क्षीराऽऽदीनि याचमानान् प्रति ब्रुवते-हे पुत्राः ! बहवोऽस्माकं कराः पतिताः॥३२॥ तानेवाऽऽहदहिघयगुलतेल्लकरा, तक्ककरा चेव पाडिया अम्हं। रायकरपेल्लियाणं, समणकरा दुक्करा वोद्धं // 33 // दधिकरघृतकरगुडकरतलकराः, तथा तक्रकराश्च, अस्माकं पातिताः श्रमणैः / राजकरा अस्माकमपतन, तैः सदैव प्रेरिता वयं वर्तामहे, परं राजकरप्रेरितानामस्माकमयं श्रमणकरोदुष्करो वोढुमिति, प्रभूतसर्वापहरणात् // 33 // एए अण्णे य तहिं, नायविहिगमणे हों ति दोसाओ। तम्हा उन गंतव्वं, कारणजाते भवे गमणं // 34|| एतेअनन्तरोदिताः,अन्ये चानुक्ताः, तत्र ज्ञातविधिगमने, दोषा भवन्ति, तस्माद ज्ञातविधौ न गन्तव्यम् / एष उत्सर्गः / कारणे पुनग्लानत्वाऽऽदिलक्षणे जाते पुनरपवादतो गमनं भवेत्॥३४॥ तदेवाऽऽहगेलण्णकारणेणं, पाउम्गासति तहिं तु गंतव्वं / जे उ समत्थुवसग्गे, सहिउं ते जंति जयणाए॥३५|| ग्लानत्वकारणेन अन्यत्र प्रायोग्यस्य औषधाऽऽदेरसत्यभावे, उपलक्षणमेतद्-वैद्याभावे च तत्र गन्तव्यम् / तत्र वैद्यस्य, प्रायोग्यस्य औषधस्याऽऽसनाऽऽदेश्य प्राप्यभाणत्वात्, तत्र ये उपसर्गान् सोढुं समर्थाः, ते यतनया वक्ष्यमाणया यान्ति गच्छन्ति // 35 // तामेव यतनामाहबहिऐं अणापुच्छाए, लहुगा लहुगो य दोच्चऽणापुच्छा। आयरियस्स वि लघुका, अपरिच्छियपेसवंतस्स // 36|| अत्र इदं सूत्रं पठति-"नो से कप्पति थेरे अणापुच्छित्ता नायविहिं एत्तए" इत्यादि / तत्र यदि बहिः स्थविराणामनापृच्छया व्रजति, ततस्तस्य प्रायश्चित्तं, चत्वारो लघुकाः, स्थविरान आपृच्छय तैर्विसर्जितो यदि द्वितीयस्थविरान् अनापृच्छ्य व्रजति, ततो द्वितीया-नापृच्छायां मासलघु, आचार्योऽपि यदि अपरीक्षितान् प्रेषयति, ततस्तस्यापरीक्षितान् प्रेषयतश्चत्वारो लघुकाः प्रायश्चित्तम् // 36 // तम्हा परिच्छियव्वो, सज्झाए चेव मिक्खभावे य। थिरमथिरजाणणट्ठा, सो उववाएहिमेहिं तु // 37 / / यत एवमपरीक्षितप्रेषणे प्रायश्चित्तं, तस्मात् स्थिरास्थिरज्ञानार्थ