SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ णायविहि 2005 - अभिधानराजेन्द्रः - भाग 4 णायविहि संयमजीविता व्यपरोप्यते॥१३॥ तदेवं करुणाद्वार व्याख्यातम्। अथ रत्नस्थालद्वारमाहअविभवअविरेगेणं, विणिग्गतो पच्छ इड्डिमं जातो। थालं वसूण पुण्णं, उवणे ती गेण्हिमेतं ति / / 14 / / कदाचित् सव्रती अविभवेन, दारिद्रयेणेत्यर्थः / रिक्थं च पूर्वपुरुषोपार्जितं विरेक्तुं स्वजनैः तदा नेष्ट, ततोऽविरेकेण च रोषेण गृहान्निर्गत्य प्रव्रजितोऽभवत्, पश्चाच्च स स्वजनवर्गो भ्रात्रादिक ऋद्धिमान जातः, ततो वसूनां रत्नानां पूर्ण भृतं स्थालं तस्याऽऽगतस्योपनयन्ति, यथा गृहाण रत्नस्थालमेतदिति / / 14 / / तस्स वि दट्ठण तयं, अह लोभकली ततो तु समुदिण्णो / ववरोवितों संजमतो, एए दोसा हवंति तहिं ||15|| तस्यापि साधोः तत् रत्नभृतं स्थालं दृष्ट्वा, अथानन्तरं ततो रत्नभृतस्थालदर्शनाद् लोभकलिः समुदीर्णः सम्यगुदयं प्राप्तः, ततस्तेन संयमाद् व्यपरोपितः। एते दोषास्तत्र ज्ञातविधिगमने भवन्ति / / 15 / / संप्रति 'एमादी'' इति व्याख्यानयन् प्रकारान्तरमाहअहवा न होज एते, अण्णे दोसा हवंति तत्थ इमे। जेहिं तु संजमातो, चालिजइ सुहितो ठितओ।।१६।। अथवा एतेऽनन्तरोदिता दोषा न भवेयुः, अन्ये इमे वक्ष्यमाणास्तत्र / ज्ञातविधिगमने दोषा भवन्ति / यैः सुस्थितोऽपि स्थितकः सन् | संयमाचल्यते // 16 // के ते दोषा इत्यतस्तत्संसूचक द्वारगाथाद्वयमाहअक्कंदट्ठाणे ससुरओव्वरऍ पेल्लणाएँ उवसग्गे। पंथेरोयणभतए, ओभावणे अम्ह कम्मकरा / / 17 / / छाघातो अणुलोमे, अभिजोग विसे सयं च ससुरेणं / पंतवणबंधरुंभण, तं वा ते वाऽतिवाएंति॥१८| आक्रन्दस्थानद्वारं प्रथमम् / द्वितीयं श्वशुरेणापवरके क्षिप्त इति द्वारम्। तृतीय प्रेरणाद्वारम्। चतुर्थमुपसर्गद्वारम् / पञ्चमं पथि रोदनभृतके भार्या | इति द्वारम् / षष्ठमपभाजनाद्वारम-यथाऽस्माकमेष कर्मकर आसीत्। सप्तमं छागघातद्वारम्। अष्टममनुलोमद्वारम्। नवममभियोग्यद्वारम्। दशर्म विषद्वारम् / ततः स्वयं श्वशुरेण प्रान्तापणबन्धरोधनानि क्रियन्ते, ततः कोपात् तं श्वशुरं सोऽतिपातयेद् विनाशयेत्, ते वा श्वशुरप्रभृतयः तं साधुमतिपातयेयुः, इति एकादशं द्वारमिति द्वारगाथाद्वयसमासार्थः 1.17 / 18 // साम्प्रतमेतदेव विवरीषुः प्रथमत आक्रन्दस्थानद्वारमाह*दीसंता वि हुणीया, पव्वयहिययं पि संपकंति। कलुणकिवणाणि किं पुण, कुणमाणा एगसेज्जाए ? ||16 // सेनापतौ मृते स तत्र ज्ञातविधौ गतः, तत्र दृश्यमाना अपि निजकाः पर्वतहृदयमपि पर्वतसदृशमानसमपि साधु संयमात् संप्रकम्पयन्ति सम्यगन्तीनीभूय प्रकर्षेण च्यावयन्ति, किं पुनरेकस्यां शय्यायां वसतौ करुणकृपणानि रोदनानि कुर्वाणाः? सुतरां संयमाद् भ्रंशयन्ति / / 16 / / अकंदट्ठाणठितो, तेसिं सोचा उ नायगादीणं / पुव्वावरत्तरोयण, 'जाय अणाहा' वएको वि॥२०॥ * "सीदंता" इति पाठान्तरम्। सोऽधिकृतः साधुर्यत्र ते ज्ञातकाः क्रन्दन्ति, तस्मिन्नाक्रन्दस्थाने स्थितः पूर्वरात्रे अपररात्रे च रोदनं तेषां ज्ञातकाऽऽदीनां करुणकृपणं यथा- 'जाता वयमनाथाः, भविष्यामः सर्वेषां परिभवाऽऽस्पदम्' इति श्रुत्वा कश्चिद् व्रजेत् प्रव्रज्यां मुश्चेदित्यर्थः / / 20 // गतमाक्रन्दस्थानम्। अधुना 'ससुरउव्वरए" इत्यादि द्वारमाहमहिलाएँ समं छोढुं, ससुरेणं ढकितो उ उव्वरओ। नायविहिमागयं वा, पेल्ले उब्भामिगसगाए।।२१।। तस्य साधोः श्वशुरकः, तं तत्र समागतं साधु दृष्ट्वा निजदुहितरं सर्वालङ्कारभूषितां कारयेत्; कारयित्वा च वन्दापनाय, भिक्षार्थं वा तत्र समागतेन श्वशुरकेन महेलया भार्यया सममपवरके क्षिप्त्या, अपवरको ढक्कितः- स्थगितद्वारः कृतः। तत्र च उपसर्म्यमाणः कश्चिदुत्प्रव्रजेत्। प्रेरणाद्वारमाह-ज्ञातविधिमागतं च तं साधुं दृष्ट्वा स्वजनवरस्तस्य स्वकीयया उद्भामिकया भार्यया प्रेरयेत् संयमाद् च्यावयेत् / / 21 / / गतं प्रेरणाद्वारम्। साम्प्रतं चतुर्थमुपसर्गद्वारं प्रतिपिपादयिषुरिदमाहमोहुम्मायकराइं, उवसग्गाई करेइ से विरहे। भज्जा जेहिं तरू विव, वाएणं भजते सजं // 22 // भार्या 'से' तस्य स्वजनविधिगतस्य सा विरहे मोहोन्मादकरान् उपसर्गान् आलिङ्गनाऽऽदीन् करोति, यैस्तरुरिव वातेन भज्यते सद्यः॥२२॥ संप्रति पंथरोयणभतए' इति व्याख्यानमाहकइवेण सभावेण य, भतओ भोइं पहम्मि पंतावे। हिययं अमुंडियं मे, भयवं पंतावए कुवितो / / 23 / / साधुतिविधि गतस्तत्र च लज्जया भिक्षां न हिण्डते, तत उद्भ्रमकभिक्षाचर्यायां गतः, तेषां च ज्ञातकानां क्षेत्रं पथि, तत्र कैतवेन वा स्वभावेन वा तस्य भार्या भृतकेन समं क्षेत्रं गता, तत्र स भृतकः कैतवेन स्वभावेन वा कर्मणि भार्या (?) ||23|| कम्महतो पव्वइतो, भतओ एसऽम्ह आसि मा वंदा। उन्भामगए खुद्दे, छाघायं तस्स सा देइ // 24 // कदाचित् स प्रव्रजितः कर्मकर आसीत्, ततस्तं बहुजनो दृष्ट्वा ब्रूयात्एषोऽस्माकं भृतक आसीत्, कर्महतः कर्मभग्गः सन् प्रव्रजितः, तस्माद् मा वन्दिषत। छागघातद्वारमाह-उद्भ्रामकके उद्भ्रामकभिक्षाचर्यागतेऽधिकृते भृतकरूपे साधौ क्षुद्रे मूर्खे तस्य सा भृत्या छागघातं ददाति, कुपिता सती छागमपि तं घातयतीत्यर्थः // 24 // ___ अधुनाऽनुलोमोपसर्गमाहमा छिज्जउ कुलतंतू, धणगोत्तारं तु जणय मेगसुयं / वत्थनमादीएहिं, अभिजोजेउं वसंणेति॥२५॥ तस्य ज्ञातविधिगतस्य साधोतिविधिरेवं ब्रूयात्-मा छिद्यतां छेदं यायात, कुलतन्तुः कुलसन्तानः, तस्मात् धनरक्षकमेकं सुतं प्रसाद कृत्वा जनय, पश्चात्पुनव्रतं गृह्णीथाः, एवमुक्तः सन् कश्चित् उत्प्रव्रजेत्। अधुना अभियोग्यद्वारमाह-वस्त्राऽऽदिकैः, आदिशब्दात् खादिमस्वादिमाऽऽदिविशेषपरिग्रहः / तैरभियोज्य वशीकृत्य स्वजनस्तमात्मवंश नयन्ति॥२५||
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy