________________ णायविहि 2004 - अभिधानराजेन्द्रः - भाग 4 णायविहि विपडिग्गहित्तए ।।१।।जे से तत्थ पच्छागमणेणं पच्छाउत्ते, से / णो कप्पति पडिग्गहित्तए // 6|| जे से तत्थ पच्छागमणेणं पुव्वाउत्ते, से कप्पति॥७॥ भिक्षुः, चशब्दाद भिक्षुकी च, इच्छेत ज्ञातविधि स्वजनभेदमागन्तुम। 'से' तस्य न कल्पते स्थविरान् अनापृच्छ्य ज्ञातविधिमागन्तुम् / "कप्पति थेरे" इदं प्राग्वत् / (नो से कप्पइ इत्यादि) न 'से' तस्य कल्पते अल्पश्रुतस्य अगीतार्थस्य अल्पागमस्य बहिः शास्त्रेष्वतिपरिचयस्याऽविद्यमाननिजाऽऽगमस्यैकाकिनो ज्ञातविधिमागन्तुम् / कल्पते 'से' तस्य यस्तत्र गच्छे बहुश्रुतः सूत्रापेक्षया, बह्वागमोऽर्थापेक्षया, तेन सार्द्ध ज्ञातविधिमागन्तुम् / तत्र णमिति वाक्यालङ्कारे, तस्य ज्ञातविधिमागतस्य पश्चादागमनेन आग-मनात् पश्चाद् य पूर्वायुक्तः चाउलोदनः / पूर्वायुक्त इति केचिद् व्याचक्षतेआगमनात्पूर्व चुल्ल्यामारब्धो रन्धनाय। अपरे व्याचक्षते-आगमनात्पूर्व पाकाय समीहितम् / एतद् मतद्वयमप्यसङ्गतम् आरब्धे, समीहिते च पुनः प्रक्षेपसंभवात्। तस्मात् पूर्वायुक्त इति किमुक्तं भवति? आगमनात्पूर्व गृहस्थैः स्वभावेन रध्यमानः स तन्दुलोदनो, भिल्लिङ्ग सूपो नाम 'सस्नेहः सूपः,' स कल्पते प्रतिगृहीतुम्। योऽसौ तत्र पूर्वमागताः साधव इति हेतोः पश्चादायुक्तः प्रवृत्ति दुलोदनो, भिलिङ्गसूपो वा, नासौ कल्पते प्रतिगृहीतुम द्वय सूत्रसंक्षेपार्थः। अत्र भाष्यकारो ज्ञातविधिपदं व्याख्यानयतिअम्मापितिसंबंधो, पुव्वं पच्छा व संथुया जे उ। एसो खलु णायविहीऽणेगे भेया य एकेके / / 3 / / मातृद्वारण, पितृद्वारेण च यः संबन्ध एष ज्ञातविधिः / अथवा-ये पूर्व संस्तुता मातापित्रादयः, ये च पश्चात् संस्तुताः श्वश्रूश्वशुराऽऽदयः। एष समस्तोऽपि ज्ञातविधिः, एकैकस्मिश्च मातृद्वारे, पितृद्वारे वा, यदि वा--- पूर्वसंस्तुते, पश्चात् संस्तुते वाऽनेके भेदाः। अनेन विधिशब्दो भेदवाची व्याख्यातः // 3 // अधुना नियुक्तिविस्तरःणायविहिगमणे लहुगा, आणाऽऽदि विराहसंजमाऽऽयाए। संजमविराहणा खलु, उग्गमदोसा तहिं होज्जा // 4|| निष्कारणे विधिनाऽपि ज्ञातविधौ गमनं करोति तर्हि प्रायश्चित्तं चत्वारो लघुकाः, तथा आज्ञाऽऽदयो दोषाः, तथा संयमे आत्मनि च विराधना। तत्र संयमविराधना, यतस्तत्र खलु निश्चितमुगभदोषा आधाकर्माऽऽदयो भवेयुः / / 4 / / कथमुद्गमदोषा भवेयुः? अत आहदुल्लभलाभा समणा, नीया नेहेण आहकम्मादी। चिरआगयस्स कुजा, उग्गमदोसं तु एगतरं // 1 // दुर्लभलाभाः खलु श्रमणाः, तथा महता स्नेहेनास्माकं वन्दा–पनाय नीता निर्गताः, ततश्चिरादागतस्याऽऽत्मस्वजनस्य तस्य प्राघूर्णकत्वकरणायोगमदोषमाधाकर्माऽऽदिकमेकतरं कुर्यात् / / 5 / / इति संजमम्मि एसा, विराहणा हो-इमा उ आयाए। छगलगसेणावतिकलु-णरयणथाले य एमादी॥६॥ इति एवममुना प्रकारेण, एषा अनन्तरोदिता, संयमे विराधना भवति। आत्मविराधना पुनरियं वक्ष्यमाणाछागदृष्टान्तेन सेनापतौ मृते समागते करुणारोदने, रत्नस्थाले रत्नभृते स्थाले ढोकिते, एवमादौ / / 6 / / तत्र यथा छागदृष्टान्तेनाभिसमीहिते सेनापतौ मृते तस्मिन् आगते आत्मविराधना भवति, तथा भावयतिजह रण्णो सूयस्सा, मंसं मजारएण अक्खित्तं / सो अद्दण्णो मंसं, मग्गइ इणमो य तत्थाऽऽतो // 7 // कडुहंडपोट्टलीए, गलबद्धाए उ छगलओ तत्थ। सूयेण य सो बहितो, थक्के आत त्ति नाऊणं / / 8 / / यथा राज्ञा सूपस्य सूपकारस्य मांस माजरिणाऽऽक्षिप्त नीतं. ततः स सुपकारो भीतोऽर्दनो जातो मांस मृगयते, तस्मॅिश्व मृगयमाणे तत्र महानसे अयमतर्कितः कटुभाण्डपोट्टलिकया गलबद्धया युक्तश्छाग आयातः सन् सूपेन सूपकारेण मारितः थक्के प्रस्तावे'आता' इति ज्ञात्वा। एष दृष्टान्तः॥७८|| साम्प्रतमुपनयमाहएवं अद्दण्णाई, ताई मग्गंति तं समंतेण। सो य तहिं संपत्तो, ववरोवितों संजमा तेहिं / / 6 / / एवं सूपकार इव तस्य साधोर्ये स्वजनाः, तेषां सेनापतिर्मृतः, ततस्तानि स्वजनरूपाणि मानुषाणि (अद्दण्णाई इति) अशरणानि तं श्रमणीभूतं सेनापतिभ्रातरमात्मीयं समन्ततो मृगयन्ते, सच मृग्यमाणः तत्रैव संप्राप्तः, ततस्तं समुपस्थिताः स्वजनाः, वयं परिभूता भविष्यामो, न च त्वयि नाथे विद्यमाने परिभवोऽस्माकं युक्तः, तस्मात् कुरु प्रसादमित्येवं तैरुपसर्यमाणः संयमाव्यप-रोपितः / / 6 / / संप्रति करणद्वारभाहसेणावती मतो तू, भाय-पिया वा वि तस्स जो आसी। अण्णो य नत्थि अरिहो, नवरि इमो तत्थ संपत्तो / / 10 / / सेनापतिम॑तः, तस्य यो भ्राता पिता वा आसीत् सोऽपि तावद् मृतः, अन्यश्च तस्मिन् गृहे अ) योग्यः सेनापतित्वस्य, नास्ति, नवरमयमेव योग्यः, स च तत्र संप्राप्तः / / 10 / / तो कलुणं कंदंता, बिंति अणाहा वयं विणा तुमए। माय इमा सेणावति-लच्छी संकामओ अन्नं // 11 // ततस्तत्संप्राप्तयनन्तरं ते स्वजनाः करुणं क्रन्दन्तो ब्रुवतेवयमनाथास्त्वया विना / इयं च प्रत्यक्षत उपलभ्यमाना सेनापतिलक्ष्यीरन्यं पुरुषान्तरं मा संक्रामतु॥११॥ तं च कुलस्स पमाणं, बलविरियं तुज्झऽधीणमेयं च / पच्छा वि पुणो धर्म, काहिसि दाणिं पसीयाहि // 12 // त्वंचकुलस्यास्य समस्तस्यापिकुलस्य प्रमाणम्, एतच्च बलं हस्त्यादि, वीर्यमान्तरोत्साहः समस्तस्यापि कुलस्य, तवाधीनं पश्चादपि त्वं धर्म करिष्यसि, संप्रति एतदेवार्थये यत् सेनापतिपदप्रतिपत्त्या प्रसीद / / 12 / / एवं कारुण्णेणं, इड्डीए लोभितो तु सो तेहिं। ववरोविजइ ताहे, संजमजीयाउ सो तेहिं / / 13 / / एवमुपदर्शितेन प्रकारेण कारुण्येन, ऋद्ध्या च तैः स्वजनैः स लोभितो लोभं गाहितः, ततो लो भग्रहणानन्तरं स तैः