________________ णाणकिरियाणय 1988 - अभिधानराजेन्द्रः - भाग 4 णाणग अनवाप्तिभ्रमात् कण्ठ-स्वर्णन्यायात् क्रिया पुनः॥१४१।। अनन्तमर्जितं ज्ञानं, त्यक्ताश्चानन्तविभ्रमाः। न चित्रं कलयाऽप्यात्मा, हीनोऽभूदधिकोऽपि वा। 142 / / धावन्तोऽपि नयाः सर्वे , स्युभवि कृतविश्रमाः। चारित्रगुणलीनः स्यादिति सर्वनयाऽऽश्रितः॥१४३|| सुनिपुणमतिगम्यं मन्दधीदुष्प्रवेशं, प्रवचनवचनं न वाऽपि हीनं नयौधैः। गुरुचरणकृपातो योजयंस्तान् पदे यः, परिणमयति शिष्यास्तं वृणीते यशः श्रीः॥१४४|| गच्छे श्रीविजयाऽऽदिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्निजीतविजयप्राज्ञाः परामैयरुः। तत्सातीर्थ्यभृतां नयाऽऽदिविजयप्राज्ञोत्तमानां शिशुः, तत्त्वं किञ्चिदिदं 'यशोविजय' इत्याख्याभृदाख्यातवान् 145 नयो। नाणं किरियारहियं, किरियामित्तं च दो वि एगता। असमत्था दाएउं, जम्ममरणदुक्ख मा भाइ।।६८।। ज्ञायते यथावद्जीवाजीवाऽऽदितत्त्वमनेनेति ज्ञानम्, क्रियत इति क्रिया यथोक्तानुष्ठानम्, तया रहितं, जन्ममरणदुःखेभ्यो मा भैषीरिति दर्शयितुम्, दातुंवाऽसमर्थाम् / न हि ज्ञानमात्रेणैव पुरुषो भयेभ्यो मुच्यते, क्रियारहितत्वाद, दृष्टप्रदीपनकप्रपलायमानपङ्गवत् / क्रियामात्रं वा ज्ञानरहितं न भयेभ्यो मा भैषीरिति दर्शयितुं दातुं वा समर्थम् / न हि क्रियामात्रात् पुरुषो भयेभ्यो मुच्यते, ज्ञानविकलत्वात्, प्रदीपनकभयप्रपलायमानान्धवत् / तथा चाऽऽगम:-"हयं नाणं कियाहीणं, हया अण्णाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ" // 36 // (महा०)('मोक्ख' शब्द चैतद् विवेचयिष्यते) उभयसद्धावस्तुतेभ्यो मा भैषीरिति दर्शयितुं समर्थः / तथाहि-सम्यग् ज्ञानक्रियावान् भयेभ्यो मुच्यते, उभयसंयोगत्वात्, प्रदीपनकभयान्धस्कन्धाऽऽरूढपड्गुवत। (सम्म०३ काण्ड) उक्तंचसंजोगसिद्धीऍ उ गोयमा ! फलं, नहु एगचक्केण रहो पयाइ। अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा / / 37 // नाणं पसासयं सोहउ, तवो संजमो य गुत्तिकरो। तिण्हं पि समाजोगे, गोयम ! मोक्खो न अन्नहा // 38 // महा०१अ०। (संजोगसिद्धीएत्यादि) तस्मात् सम्यग्ज्ञानाऽऽदित्रितयनयसमूहान्मुक्तिः, नयसमूहविषयं च सम्यग्ज्ञानं श्रद्धानं च, तद्विनयं सम्यग्दर्शन, तत्पूर्व चाशेषपापक्रियानिवृत्तिलक्षणं चारित्रं, पिधानोपसर्जनभावेन, मुख्यवृत्त्यावा तत्त्रितयदर्शकं च वाक्यमागमो, नान्यः, एकान्तप्रतिपादकससदर्थत्वेन विसंवादकतया तस्य प्राधान्यानुपपत्तेः / जिनवचनस्य तु तद्विपर्ययण दृष्टवाददृष्टार्थेऽपि प्रामाण्यसंगतेः / सम्म०३ काण्ड। महा। (ज्ञान शीलं श्रुतं वा श्रेय इत्यन्ययूथिकैः सह 'अण्ण उत्थिर' शब्दे प्रथमभागे 458 पृष्ठे चिन्तितम्) आह च-ज्ञानक्रिययोः सात्येक मुक्तेरवापिका शक्तिरसती कथं समुदायेऽपि भवति? न हि गोप प्रत्ये नास्ति तत्तेषां समुदायेऽपि भवति, यथा प्रत्येकमसत्समुदितास्वधि सिकतासु तैलं, प्रत्येकमसती ज्ञानक्रिययोर्मुक्तेरवापिका शक्तिः / तदुक्तम्- 'पत्तेयमभावाओ, निव्वाणं समुदियासु वि ण जुत्तं / णाणकिरियासु वोत्तु, सिकयासमुदायतिल्लंव11" उच्यते- स्यादेव यदि सर्वथा प्रत्येक तयोर्मुक्तयनुपकारितोच्येत, यदा तु तयोः प्रत्येक देशोपकारिका, समुदाये तुसंपूणो हेतुतोच्यते, तदान कश्चिद्दोशः / आह च-''वीसुंण सव्वह चिय, सिकयातेलं व साहणाभावो। देसोबरिया जा,सासमवायम्मि संपुण्णा।।१॥" अतः स्थितमेतद्ज्ञानक्रिये समुदिते एव मुक्तिकारणं, न तु प्रत्येकमिति तत्त्वम्। तथा च पूज्याःणाणाहीणं सव्वं, णाणणओ भणइ किं व किरियाए? किरियाए करणनओ, तदुभयगाहोय सम्मत्तो ३५६१"(विशे०) "क्वचित्सौत्र्या शैल्या, क्वचिदधिकृतप्राकृतभुवा, वचिचार्थापत्त्या, क्वचिदपि समारोपविधिना। क्वचिचाध्याहारात्, क्वचिदविकलप्राक् क्रमबलादियं व्याख्या ज्ञेया, क्वचिदपि तथाऽऽम्नायवसतः // 1 // " उत्त०१अगदर्श०। आ०का अष्ट। आचार्यः प्राऽऽहसव्वेसिं पिनयाणं, बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं, जं चरणगुणद्वितो साहू॥ सर्वेषामपि मूलनयानाम्, अपिशब्दात्तद्भेदानामपि नयाछा द्रव्यास्तिकायाऽऽदीनाम-बहुविधवक्तव्यतां सामान्यमेव, विशेषा एव, उभयमेव वा परस्परनिरपेक्षमित्यादिरूपाम्, अथवा-नागादिनयानां मध्ये को नयः कं साधुमिच्छतीत्यादिरूपां, निशम्य श्रुत्वा, तत्सर्वनयविशुद्ध सर्वनयसम्मतं वचनं, यचरणगुणस्थितश्चारित्रज्ञानस्थितः साधुर्यस्मात् सर्वेऽपि नया भावनिक्षेपमिच्छन्तीति / बृ०६उ०। तथा चाऽऽगमः--"दोहिं ठाणेहिं संपन्ने अणगारे अणाइयं अणवदग्गदीहमद्ध वा चाउरंतसं सारकंतारं वीईवएज्जा। तंजहा-विजाए चेव, चरणे चेव।" स्था०१ठा० दशाव्या णाणकु सील पुं०(ज्ञानकुशील) गुरुकज्ञानाऽऽवरणोदयेनाहर्निश प्रधर्षयति कुत्सितशीले, महा०३अ० णाणग न०(नाणक) मुद्रायां, कार्षापणे, पणे च / आ०क०। "केनापि कस्यचित् प्राज्य-मूल्यनाणकसंभृतः। नयस्तो नवलकस्तेनोपात्तास्ते बहुमूल्यकाः "|1|| आ००। स्वनामख्याते तीर्थभेदे, मोढेरे वायडे नाणके पल्ल्यां मेत्तुण्डके श्रीमहावीरः / ती०४३ कल्प। पन्यासजीतविजयगणिकृतप्रश्रः-यथा प्रत्यहं प्रह्लादनविहारे पञ्चशती वीसलप्रियाणां भोगः कथितोऽस्ति, तन्नाणकं किं नामकं कथ्यते? इति प्रश्ने, उत्तरम्-वीसलदेवाऽऽज्ञापातितं वीसलप्रियनामक तत्कालीनं किश्चिन्नाणकविशेष संभाव्यते, तदधुना प्रसिद्ध नास्ति, परं षट् त्रिंशन्गूढकद्रम्मैर्वी सलप्रियनाणकमष्टशतविंशतिसहस्राधिकद्विषष्टिलक्षप्रमाण कथितमस्तीति / / 404|| प्र०ा सेन०३ उल्ला