________________ णाणकिरियाणय 1987- अभिधानराजेन्द्रः - भाग 4 णाणकिरियाणय नं विनःऽपि भोगेन कर्मनाशे व्यभिचारः, कर्मप्रागभावासहवृत्तिकर्मनाशे युगपदोगे वाच्यव्यभिचाराभावादिति मणिकृतवोक्तत्वात्। अस्मत्सिद्धान्तेऽपि नाशार्थिवृत्तौ नाश्यनिश्चययिधयैव केवलज्ञानस्य कर्महेतुत्वमनपायम्। तदुक्तं निर्युक्तौ समुद्धाताधिकारेण--"ऊणवेयणिज अइबहुयं आउयं च थोवग्गं वच्चंति जिणा समुग्घायं।" अत्र क्त्वाप्रत्ययबलादेव नियतवर्णोपर्यस्यार्थाचानन्यसिद्धत्वस्य प्रतीतेः कारणत्यलाभे अन्यदप्याभोगवीर्यस्यैव केवलिनः कर्मक्षयहेतुत्वादाभोगान्वितवीर्यत्वेनैव वीर्यान्विताऽऽभोगत्वेनापि हेतुत्वादुक्तार्थसिद्धिः / यत्पुनः "दोषपक्तिर्मतिज्ञानात्, अकिञ्चिदपि केवलात्। तमः-प्रचयनिःशेषविशुद्धिफलमेव तत्" // 1 // इत्यनेन केवलज्ञानस्याकिञ्चित्करत्वमुच्यते, न दोषपक्तिरूपकार्यापेक्षया, न तु पक्यानां भवोपग्राहिणां क्षपणरूपकार्यमप्याश्रित्य, तत्तद्व्यापारस्य सदा जागरूकत्वात् / यदि च स्वरूपशुद्धिग्राहकनयेन 1 केवलज्ञानस्य निर्व्यापारत्व स्वीक्रियते, तदा यथाख्यातचारित्राऽऽत्मकक्रियाया अपि तथात्वमेवाभ्युपगन्तुं युक्तम् , समुद्धाताऽऽदिना कर्मक्षपणव्यापारस्य योगविशेषेणैव वक्तुं शक्यत्वात्। मुक्तिबन्धहेतुविवेकेन फलशुद्धिग्राहकनयेन तत्र चारित्रहेतुत्वाभ्युपगम्यमानो ज्ञानहेतुतामपि न व्याहन्ति।। अनन्तकारणग्राहकनयेन तत्र चारित्रमेव हेतुरिति चेत् / न / उत्पत्तावनन्तरत्वस्य यथाऽऽख्यातचारित्रापेक्षया केवलज्ञान एव संभवाद, व्यापारानन्तर्यस्य च कल्प्यमानस्योभयत्रापि विनिगमात्।३। एतेनाऽऽक्षेपककारणग्राहकनयेन-"जम्हा दंसणनाणा" इत्यादिवचनाचारित्रमेव मुक्तिहेतुरित्यपि निरस्तम् / आक्षेपकत्वं हि स्वेतरसकलकारणसमवधाननियतसमवधानकत्वं, तच यथाख्यात इव केवलज्ञानेऽपीत्यविशेषात् क्षयोपशभदशायामप्यपुनर्बन्धकाऽऽदिचारित्रव्यावृत्तजातिविशेषवतश्चारित्रस्यव विषयप्रतिभासाऽऽत्मपरिणामज्ञानोर्ध्वभाविनस्तत्त्वज्ञानस्याऽऽक्षेपकत्वाविशेषात्।४। मुख्यैकशेषनयेन चारित्रमेवोत्कृष्यत इति चेत्। न / तत्र मुख्यत्वस्यैव विनिगन्तुमशक्यत्वात्।५। पुमर्थग्राहकनयेन क्रियायामेव मुख्यत्वं विनिगम्यत इति चेत् / न / परमभावग्राहकनयेन ज्ञान एव तद्धिनिगमनायाः सुक्चत्वात्।६। 'जं सम्म ति पासहा तं मोणं ति पासहा' इत्यादिवचनात् कारकसम्यक त्वशरीरनिर्वाहकत्वनयेन चारित्रमेवोत्कृष्यत इति चेत् / न / "जं अन्नाणी कम्म खवेइ" इत्यादिवचनात्। सम्यक् क्रियाशरीरनिर्वाहकत्वनयेन चारित्रमेवोत्कृष्यत इति चेत् / न / "जं अन्नाणी कम्मं खवेइ" इत्यादिवचनात् सम्यक् क्रियाशरीरनिर्वाहकत्वनयेन ज्ञानेऽप्युत्कर्षस्य वक्तुं शक्यत्वात्।७। एतेन 'णिच्छयणयस्स चरणस्सुवघाएण नाणदसणवहो वि।' इत्यादिवचनात् ज्ञाननाशव्याप्यनाशप्रतियोगित्वग्राहकशुद्धनयेन ज्ञानातिशयस्याप्यदुर्व-वत्वात्।। व्यापारप्राधान्यग्राहकक्रियानयेन चारित्रोत्कर्ष इत्युकावपि दर्शनप्रधानग्राहकज्ञाननयेन ज्ञानोत्कर्षः सुवच एवादृष्टान्ती चात्र पङ्ग्वन्धौ। तयोरन्यतरस्याऽकिञ्चित्करत्वेन संयोगपक्ष एव श्रेयान्। न च कुर्वद्रूपत्वनये शैलेश्यन्त्यक्षणभावे चारित्रमुक्तम्, एवं मुक्तिरूपफलोपधायकत्वेन विशिष्यत इत्यपि शङ्कनीयम्, कुर्वदूपक्षणस्य सहकारिसमवधाननियतत्वेन तत्कालनिज्ञानक्षणस्यापि मुक्तिहेतुत्वात्।। पुञ्जात् पुजोत्पत्तिपक्षे बीजपाथः पवनाऽऽदीनामेकत्रोपादानत्वेन, अन्यत्र च निमित्तत्वेन हेतुत्वमिति चारित्रलक्षणस्य मुक्तावुपादानत्वेन हेतुत्वाद्विशेष इत्यप्यसाम्प्रतम, ज्ञानाऽऽदिसंवालितमुक्तिक्षणे संघलितक्षणस्यैव हेतुत्वात् / तचाऽतद्व्यावृत्त्या, शक्तिविशेषाऽऽदिना वेत्यन्यदेतत् / कथं तर्हि "सद् दुजुसुआणं पुण, निव्वाणं संजमो चेय।" इति नियुक्तिवचनं श्रद्धानम्, तेषां कुर्वद्रूपलक्षणावगाहित्यात्, तत्र चैकान्तस्यानुपदमेव निरस्तत्वादिति शङ्कनीयम्: एकैकस्य शतभेदत्वेनाक्षेपककारणत्वरूपस्थूलापेक्षयैव तदेकान्ताभिधानोपपत्तेः / अत एव शैलेश्यन्त्यक्षणभाविधर्महेतुत्वमिति विशुद्धवंभूताऽभिप्रायेणैवास्माभिस्तत्र तत्र समर्थितम्।येतु मिथ्यादृशो मिथ्याज्ञानोन्मूलनद्वारा तत्वज्ञानमेव युक्तिहेतुरिति मन्यन्ते, ते मिथ्याज्ञानोन्मूलनेऽपि तत्तम्मनः प्रणिधानरूपक्रियाया हेतुत्वं कथं न पश्यन्ति? मिथ्याज्ञानवासनोन्मूलनवत्कर्मनिरपेक्ष तत्त्वज्ञान हेतुरिति चेत्तर्हि अदृष्टपरिकल्पनमेतत् / मिथ्याज्ञानिवासनायाः स्मृत्येकनाश्यत्वात् तत्त्वज्ञानस्य तन्नाशताया लोकेऽदृष्टत्वाद्, अदृष्टकल्पने चाऽऽगमानुसारेणाज्ञानवत्कर्मणोऽपि मलक्षयद्वारा मुक्तिहेतुत्वकल्पनमेव ज्यायः / तथा चाभ्यधात् सूरोऽपि वासिष्ठ-"तन्दुलस्य यथा चर्म, यथा ताम्रस्य कालिका। नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम्" ||111 इत्यादि / किं च-विहितत्वेन पुण्यपापक्षयान्यतरहेतुत्वव्याप्ते तत्त्वज्ञानस्य कर्मतुल्यत्वम्।नच किचित् सादावेव व्यभिचारः, मुमुक्षुविहितत्वेन व्याप्तौ व्यभिचाराभावादिति पुष्टिशुद्ध्यनुबन्धद्वारा ज्ञानकर्मणोर्मुक्तौ तुल्यवदेव हेतुतया समुच्चयपक्ष एवानाबिल इति सिद्धम्। (नयो०) ज्ञानमेव शिवस्याध्वा, मिथ्यासंस्कारनाशनात्। क्रियामात्रं त्वभव्यानामपि नो दुर्लभं भवेत् // 132 / / तन्दुलस्य यथा चर्म, यथा ताम्रस्य कालिका। नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम् // 133 / / ववर्रश्च (वठरश्चेति पाठान्तरम्। तपस्वी च, शूरश्चाप्यकृतव्रणः। मद्यपा स्त्री सती चेति, राजन् ! न श्रद्दधाम्यहम् / / 134|| ज्ञानवान् शीलहीनश्च, त्यागवान् धनसंग्रही। गुणवान् भाग्यहीनश्च,राजन् ! न श्रद्दधाम्यहम् / / 135 / / इति युक्तिवशात् प्राहुरुभयोस्तुल्यकक्षताम्। मन्त्रेऽप्याहानं देवाऽऽदेः, क्रियायुग ज्ञानमिष्टकृत्॥१३६|| ज्ञानं तुर्ये गुणस्थाने, क्षायोपशमिकं भवेत् / अपेक्षते फले षष्ठ-गुणस्थानजसंयमम् / / 137 // प्रायः संभवतः सर्व-गतिषु ज्ञानदर्शने। तत्प्रमादो न कर्तव्यो, ज्ञाने चारित्रवर्जिते॥१३८|| क्षायिकं केवलज्ञानमपि मुक्तिं ददाति न। तावन्नाविर्भवेद् यावच्छेलेश्यां शुद्धसंयमः।।१३६।। व्यवहारे तपोज्ञानसंयमा मुक्तिहेतवः / एकः शब्दर्जुसूत्रेषु, संयमो मोक्षकारणम् // 140 / / संग्रहस्तु नयः प्राऽऽह, जीवो मुक्तः सदा शिवः।