________________ णाणकिरियाणय 1986 - अभिधानराजेन्द्रः - भाग 4 णाणकिरियाणय तत्त्वज्ञानत्वेनैव दृष्टद्वारा मुक्तिहेतुत्वाद् न नियमादृष्टकल्पना / तत्र वैजात्येनैव हेतुत्ये तदवच्छिन्ने प्रोक्षणहेतुत्वोक्तौ कण्डने प्रोक्षणबाधाऽऽपत्तेः / न चावहतव्यप्रोक्षणत्वेनाप्यदृष्टहेतुत्वात् तत्राऽपि नियमादृष्ट कल्पनीयम्, दृष्टार्थस्यैव नियमादृष्टार्थस्य सिद्धान्तत्वादित्यन्यत्र विस्तरः। उदयनानुसारिणस्तु-अनुत्पन्नतत्त्वज्ञानस्य ज्ञानार्थिनः तत्प्रतिबन्धक दुरितनिवृत्तिद्वारा प्रायश्चित्तवत् आरादुपकारकं कर्म, संनिपत्योपकारकं च तत्त्वज्ञानम्, उत्पन्नतत्त्वज्ञानस्य त्वन्तरलब्धदृष्टः कारीरीसमाप्तिवदारब्धाग्रिमपालनं लोकसंग्रहार्थम्, यद्यपि लोकसंग्रहे न प्रयोजनं, सुखदुःखाभावतत्साधनेतरत्वात्, तथाऽप्यकरणे लोकानामनित्यत्वेन यत् ज्ञानं तत्परिहारार्थम्, तत्तद् दुःखयोगेन कर्मनाशार्थं वा तत्। इदमेव च द्वारिद्वारयोः कर्मतत्त्वज्ञानयोः कारणत्वं, तुल्यकक्षतया समुचयो नेष्ट इत्यनेन विवक्ष्यते / यद्यपि च तीर्थविशेषस्नानाऽऽदीनां तत्त्वज्ञानव्यापारकत्वं न शाब्दं, तथाऽपि तीर्थविशेषस्नानाऽऽदीनि तत्त्वज्ञानद्वारकाणि, मोक्षजनककर्मत्वाद्, यमाऽऽदिवदित्यनुमानात्तथात्वसिद्धिः। न च योगत्वमुपाधिः, "कथयति भगवानिहान्तकाले, भवभयकातरतारकं प्रबोधम्" इत्यादिपुराणात् "रूद्रस्तारकं ब्रह्म व्याचष्टे" इति श्रुतेश्च काशीप्रयागाऽऽदे: तत्त्वज्ञानव्यापारकत्वसिद्धौ तत्र साध्याव्यापकत्वादित्याहुः। स्वतन्त्रास्तु-तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्मणामपूर्वद्वारा जनकत्वं, दुरितध्वंसकल्पनातो लघुत्वात् / वस्तुतः कर्मणां निःश्रेयसहेतुत्वे तज्जन्यनिःश्रेयसजनकतया तत्त्वज्ञानस्य कर्मव्यापारत्वं वाच्यं, तदेव तु न युक्तम्। "न कर्मणा न प्रजया धनेन / नान्यः पन्था विद्यतेऽयनाय। नास्त्यकृतः कृतेन'। 'कर्मणा बध्यते जन्तु-विद्यया च विमुच्यते / तस्मात् कर्म न कुर्वन्ति, यतयः पारदर्शिनः // 1 // " इत्यादिश्रुतिस्मृतिशतेन निषेधात्, कर्मजन्यत्वाभावाच / 'तपसा कल्मषं हित्वेति। अविद्यया च मृत्यु तीर्थ्यो / ततस्तु तं पश्यति निष्कलं ध्यायमानः, कषायपक्तिः कर्मभ्यः" इत्यादि-भिस्तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितनिवृत्त्यैवान्यथासिद्धेः प्रदर्शनात् / न च "विविदिषन्ति यज्ञेन" "सर्वं कर्माखिलं पार्थ! ज्ञानेपरिसमाप्यते'' इत्यादिभिः कर्मजन्यताऽपि प्रतीयत इति वाच्यम्। सा हि नापूर्वद्वारा प्रतिबन्धकदुरितानुच्छेदेऽपूर्वसहस्रस्याप्यकिश्चित् करत्वात्, तदुच्छेदेन तज्जननेतु प्रमाणान्तरावधृतकारणाभावेन प्रतिबन्धकाभावेनैवान्यथासिद्धेः / न चैवं यागाऽऽदेरप्यपूर्वेणान्यथासिद्धिः स्यात्, तस्य यागकारणताग्रहोत्तरकल्प्यत्वेनोपजीव्यापरिपन्थित्वात्, इह तु प्रतिबन्धकाभावस्य कार्यमात्रकारणतायाः प्रागेवावधारणमिति शेषात् / अत एव मङ्गलकारीयोः प्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वं, वृष्टिसमाप्ती तु स्वकारणादेवेति सिद्धान्तः (नवीनानाम् / ) किश-कर्मकारणताग्रहानुपजीवनेन लौकिकान्वयव्यतिरेकावधृतमिथ्याज्ञाननिवर्तनभावसंभावितस्यमोक्षसाधनत्वस्य "ज्ञानादेव तु कैवल्यम्, तरतिशोकमात्मवित्, ब्रह्मविदाप्नोति परं, ब्रह्मविद् ब्रह्मैव भवति," इत्यादिश्रुतिस्मृतिशतेन तत्त्वज्ञानादिष्टतया ग्रहणात् तदेव मोक्षसाधनम्। कर्माणितु तत्रैवान्यथासिद्धानीति युक्त, यथा च न तत्रापि व्यापारः तथोक्तमेव / अत एवार्थावबोधपर्यन्तताऽध्ययनविधेः, न तु तेन क्रत्वाद्यनुष्ठानेन / स्वर्गाऽऽदिफलकत्वमिति संप्रदायः / न च तत्त्वज्ञानस्य कर्मणां | निःश्रेयसप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपतदनुकूलताबोधने एव तात्पर्यात् श्रुत्यन्तरसिद्धेऽन्यथासिद्धत्वे तदन्यथासिद्धताया बोधयितुमशक्यत्वात्तावतैव श्रुतेः कर्मप्रवृत्तिपरतानिर्वाहादित्याहुः। अत्र वयं वदामः-मोक्षस्तावत् पुरुषार्थत्वाद् दुःखसाधनकर्मध्वंस एव, न तु दुःखध्वंसः, उत्पन्नानुत्पन्नविवेकिना तद्ध्वंसस्याऽसाध्यत्वात्। तत्रच ज्ञानकर्मणो(जात्येन मुमुक्षुविहितत्वादेव हेतुत्वं तुल्यमेवेत्येकतरपक्षपातो न श्रेयान्। ज्ञाने केवलज्ञानत्वरूपस्य, कर्मणि च यथाख्यातचारित्रत्यरूपस्य वैजात्यस्य कल्पनायाः क्षायिकस्थले क्षायोपशमिकस्थले चतदनुकूलतामात्रस्य द्वयोस्तुल्ययोगक्षेमत्वात्। एतेन कारणोच्छेदक्रमेण कार्योच्छेदाद् मुक्तिरिति ज्ञानकर्मसहकारित्वं मिथ्याज्ञानोन्मूलने कर्मविनाश-कृतस्यैव तस्य दिग्मोहाऽऽदौ हेतुत्वावधारणाऽऽदि निरस्तम्: मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य हेतुत्वात्, मिथ्याज्ञानप्रभावासहवृत्तिमिथ्याज्ञानध्यंसे च हेतुताया लोकप्रमाणाविषयत्वेन ज्ञानकर्मणोर्द्वयोरेव कल्पनौचित्यात्। वस्तुत आर्थसमाजसिद्धत्वात् तद्रूपावच्छिन्नेऽपिन हेतुता, किंतु सामान्यावच्छिन्नध्वंसनये कर्मत्वावच्छिन्नध्वंसे, तत्सम यावत् कर्मक्षयसमनियतक्षायिकसुखत्वावच्छिन्ने वेति न कस्यापि न्यूनत्वम्, पराभिमतद्वारस्थान एव फलाभिषेकात्। एकपुरस्कारेणान्यनिराकरणवचनं च तत्तदर्थवाद एवेति नकर्मकारणताबोधकवचनेऽनुकूलत्वमात्रमर्थः / कारणता शक्तपदस्यानुकूलत्वम्, लक्षणायां गौरवात्। अन्यथा सिद्धिचतुष्टयराहित्यगर्भत्वेन तत्र लाघवमिति दृष्टिदाने च विधिप्रत्ययमात्रार्थाऽपीष्टानुकूलत्वमात्रमेव स्यादितियागाऽऽदेरप्यपूर्वेणान्यथासिद्धिः कर्मणाम्, नतत्त्वज्ञाने। नच तद् द्वारा मुक्तौ हेतुत्वमित्युक्तम् / तदपि न युक्तम् / प्रतिबन्धकत्वस्य विशिष्य विश्रामेण तदभावकार्यमात्रेऽनुगतहेतुताया अयोगात्, प्रतिबन्ध-कविशेषनिवृत्तिहेतुतायाश्च कर्मकारणताग्रहोत्तरकल्पनीयत्वेन तदन्यथासिद्ध्यनापादकत्वात् / किं च -प्रतिबन्धकनिवृत्त्याऽन्यथासिद्धत्वेन कर्मणोऽहेतुत्वोक्तौ तत्त्वज्ञानस्य सुतरां तथात्वं स्यात्। न हि उत्पन्न केवलज्ञाना अपि भवोपग्राहिकर्मचतुष्टयं प्रतिबन्धकमनिवर्तयित्वा सद्य एव मुक्तिमासादयन्तीति मुक्तिप्रतिबन्धककर्मनिवर्तकत्वेन तत्त्वज्ञानस्य कुतोऽनान्यथासिद्धिः? अथ कर्मणो भोगनाश्यत्वेन ज्ञानस्य तदनाशकत्वाद् नान्यथासिद्धिः, न हि भोगस्तत्त्वज्ञानव्यापारः, तथाऽश्रवणात्, तेन विनाऽपि कर्मण एव तदुपपत्तेश्च / न च वासुदेवाऽऽदीनां कायव्यूहश्रवणात् तत्त्वज्ञानेन कायव्यहमुत्पाद्य भोगद्वारा कर्मक्षयमित्यपि साम्प्रतम. तपःप्रभावादेव तत्त्वज्ञानस्योत्पादेऽपि कायव्यूहसंभवाद् भोगजननार्थ कर्मभिरवश्य तत्कार्यनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः, यौगपद्यं च कायाना तज्जनककर्मस्वभावात्तपः प्रभावाद्वेति। न च "तावदेवास्य चिरं यावत्र विमोक्षोऽथ संपत्स्यते कैवल्येन'' इति श्रुतौ तावदेवास्योत्पन्नतत्त्वज्ञानस्य चिरं विलम्बो यावन्नोत्पन्नकर्मणो विमोक्षः। अथ संपत्स्यते कैवल्येन' भोगेन क्षपयित्वेति शेष इति व्याख्यानाद् भोगस्य तत्त्वज्ञानव्यापारत्वंयुक्तमेव।नच शेषदाने मानाभावः, सत्यपि ज्ञाने कर्मावस्थाने क्लृप्तसामान्यभोगस्यैवनाशकत्वेनाऽऽक्षेपादिति वाच्यम्, तत्त्वज्ञाने सति तत्त्वज्ञानदशायां न मोक्षः, किंतु तदपि म्रक्षण(?) इत्यर्थेनाप्युपपत्ते रिति चेत् / मैवम् / कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम्, भोगस्य तत्त्वज्ञानाव्यापारत्वात् / न च तत्त्वज्ञा