________________ णाणकिरियाणय 1985 - अभिधानराजेन्द्रः - भाग 4 णाणकिरियाणय तत्र भास्करीयाणामयमाशयःतीर्थविशेषस्नानमहादानयमनि- / यमाऽऽदिकर्मणां निःश्रेयसकारणत्वं तावच्छब्दबलादेवावगम्यते / तत्त्वज्ञानव्यापारकत्वं तु तेषां निःश्रेयसे जनयितव्ये न तावच्छब्द एव / बोधयति, तत्र तस्यौदासीन्यात् / न च साक्षात् साधनताव्यासः साधनताप्रतीतेः परम्पराघटकव्यापारमविषयीकृत्य नघटत इत्यपूर्ववाच्यतान्यायेन शब्द एव वस्तुतः तत्त्वज्ञानव्यापारकता बोधयितुं प्रगल्भते इति शङ्कापद हृदि निधेयं, सामान्यशब्दोऽन्यतमविशेषबाधेतं त्यजति, न तु विशेषान्तरमुपादित्सितमपि विशिष्य बोधयतीति स्वभावाद् दृष्टान्तस्यैवासंप्रतिपत्तेः / न च कर्मणामाशुतरविनाशित्वेन व्यापारोऽवश्यं स्वीकरणीयः, तत्र दृष्टन तत्त्वज्ञानेनैवोपपत्तावदृष्टकल्पनाया अन्याय्यत्वाद् लाघवसहवृत्तानुपपत्तिरेव तत्त्वज्ञानव्यापारकल्वे मानमिति वाच्यम्, तत्त्वज्ञानस्याऽपि व्यवहितत्वेन तत्राऽपि कर्मणोऽदृष्टद्वाराऽऽवश्यकत्वान्निःश्रेयसेद्वारद्वयकल्पने गौरवाद् निःश्रेयसे कर्मणामदृष्टद्वारा हेतुत्वे तत्त्वज्ञानोत्पत्त्यनन्तरमपि यमनियमाऽऽद्यनुष्ठान स्यादिति चेत्, स्यादेव, तदानीमपि मुमुक्षाया अधिकारस्याक्षते / न च तत्त्वज्ञानत्वेनेव मोक्षजनकत्वात्प्राथमिकतत्त्वज्ञानादेव मोक्षोत्पत्तौ क्व कर्मानुष्ठानमिति शङ्कनीयम् ? "नित्यनैमित्तिकैरेव, कुर्वाणो दुरितक्षयम् / ज्ञान च विमलीकुर्वन्नभ्यासेन तुपाचयेत्।।१।। अभ्यासात पक्वविज्ञानः, कैवल्यं लभते नरः"। इत्यादि पुराणेषु तदभ्यासश्रवणात्। श्रुतिरप्यत्र विपक्षबाधकतया प्रमाणमस्ति / तथाहि-"अन्धंतमः प्रविशन्ति ये विद्यामुपासते। ततो भूय इव ते तमो य उ विद्यायां रताः।" अस्या अर्थः-अविद्या कर्म, तदुपासतेज्ञानत्यागेन तत्राऽऽसक्ता भवन्ति येतेऽन्धतमः प्रविशन्ति, संसारान्न मुच्यन्ते, तेन केवलकर्मोपासने न जन्माऽऽदिविच्छेदः / ये च विद्यायां रताः, विद्यातत्त्वज्ञान, तन्मात्राऽऽसक्ताः, उ इत्यव्ययं चकारार्थम्। ते भूयोऽतिशयेन अन्धन्तमः प्रविशन्ति, नित्याकरणे प्रत्यवायस्य बहुतरत्वात् / ननु 'मोक्षाऽऽश्रमश्चतुर्थो वै, यो भिक्षोः परिकीर्तितः" इत्यागमाच्चतुर्थाऽऽश्रमिणामेव मोक्षेऽधिकारः / तत्र च ''सन्यस्य सर्वकर्माणि'' इति स्मृतेः कर्ममात्रत्यागात् क्व समुच्चयः, क्व वाऽकरणे प्रत्यवाय इति चेत् / न / यानि कर्माणि उपनीतमात्रकर्तव्यत्वेन विहितानि, तत्परित्यागस्याशास्त्रीयत्वात् संकोचे मानाभावात्, निषिद्धानि काम्यानि च बन्धहेतुत्वाद्धनमूलानि चधनत्यागादेव त्यज्यन्त इत्येतावत एव संन्यासपदार्थत्वात्। तथा च गीतावचनम्"काम्यानां कर्मणांन्यासं, संन्यासं कवयो विदुः।" "नियतस्य तु संन्यासः, कर्मणो नोपपद्यते। मोहात्तस्य परित्यागः, तामसः परिकीर्तितः / / " इति। साक्षात्समुच्चय प्रतिपादिकाऽपि श्रुतिः-''अविद्यां च विद्यां च यस्तद्देदोभयं त्विह / अविद्यया मृत्यु तीा विद्ययाऽमृतमश्नुते / " अत्राविद्या कर्म, विद्यां च तत्त्वज्ञानं तुल्यं चेह यो वेद प्राप्नोतीति पूर्वार्थिः / वेदेति प्रयोगाद् विदृ लाभे इति धातोश्छान्दसत्वेन भास्करीयैर्दर्शितत्वात्। "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था | विद्यतेऽयनाय।" ति वाक्यं त्वेवकारस्य विदित्वा इत्यनन्तरं योजनात् तत्त्वज्ञानस्याप्यपवर्गसामग्रीनिवेशननियमपरं, न तु वाक्यान्तरावधृतकारणताककर्मव्युदासपरम् / समुच्चयेऽन्यान्यपि भूयांसि वचनानि सन्ति / तथा च गीतावचनम्-'स्वे स्वे कर्मण्यभिरतः, संसिद्धिं लभते नरः / स्वकर्मणा तमभ्यर्च्य, सिद्धि विन्दति मानवः" / / 1 / / विष्णुपुराणेऽप्युक्तम्-'तस्मात् तत्प्राप्तये यत्नः, कर्तव्यः पण्डितैनरैः। तत्प्राप्तिहेतुर्विज्ञानं, कर्मचोक्तं महामते!" ||1|| हारीत:--''उभाभ्यामपि पक्षाभ्या, यथा खे पक्षिणां गतिः / तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रहा शाश्वतम् // 1 // " श्रुतिश्च-"सत्येन लभ्यः तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण च" इति। एतन्मूलकमेव परिज्ञानाद्भवे प्रसिद्धिः 'न होकपक्षो विहगः प्रयाति' इत्यादि। न च काम्यनिषिद्धनैमित्तिकाभ्यां कर्मभ्यां न समुच्चयः, तयोस्त्यागात्, न नैमित्तिकनित्येनैकैकशो व्यभिचारात् संकल्पनासंभवात् / नाऽपि यत्याश्रमविहितेन"न्यायाऽऽगतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः। श्राद्धकृत सत्यवादी च, गृहस्थोऽपि विमुच्यते / / 1 / / " इत्यागमेन गृहस्थस्यापि मोक्षश्रवणादित्युपपत्तिविरोधादेव न समुच्चय इति वाच्यम्; यत्राऽऽश्रमे यानि मोक्षहेतुतया विहितानि, तैरेव तदाश्रमे तत्त्वज्ञानस्य समुच्चयोपपत्तेः / न च कर्मणां परस्परव्यभिचारान्निःश्रेयसे च स्वर्गवद् वैचित्र्याभावान्न तत् प्रति कारणत्वमिति वाच्यम्, स्वाभाविकविशेषविर हेऽपि प्रतियोगिभेदन विशेषस्य निःश्रेयसेऽप्यविरोधात् / तत्पुरुषीयमुमुक्षुविहितकर्मत्वेन तत्पुरुषीयविजातीयदुःखध्वंसे हेतुत्वसंभवात्, अवश्यं चाभावरूपे कार्ये प्रतियोगिभेदेन विशेषोऽभ्युपेयः, कथमन्यथा आश्रयनाशपाकयोः रूपनाशकारणत्वमिति / न च ज्ञानस्य विहितत्वाददृष्टजनकत्वेनादृष्टस्यैव प्राधान्यम्, न च रागाऽऽद्यभावाद् योगिनोऽदृष्टोत्पत्त्यसंभवः, मुक्तिविरोध्यपूर्वोत्पत्तावेव रागाऽऽदेः सहकारित्वात्तावतैव मोक्षफलकविध्यनुपपत्तिपरिहारादिति वाच्यम्, मुक्त्यादितत्त्वज्ञानसाध्यतया क्लुप्तेन मिथ्या ज्ञानविध्वंसेन दृष्टनौवोपपत्तावदृष्टकल्पनायोगात्। अन्यथा भेषजाऽऽदिष्वपि तत्कल्पनाऽऽपत्तेः / एवं च विहितत्वं तत्रैव व्यभिचारादिति द्रष्टव्यम् / न चावघातवन्नियमादृष्ट कल्पना, तत्र वैतुष्यस्याऽन्यथाऽपि संभवेन सा, अत्र तु मिथ्याज्ञानस्य निवृत्तेः, अन्यथाऽसंभवा इति विशेषात् / नन्वत्रापि विरोधिगुण्यन्तरोत्पत्तेरपि मिथ्याज्ञानध्वंसः संभवति / न च मिथ्याज्ञानपदं तद्वासनापर, तत्त्वज्ञानात् तद् ध्वंसस्यैवाङ्गीकारात्. तस्य चान्यथाऽसंभव एवेति वाच्यम्, अचिकित्स्यरोगाऽऽदिना तस्याऽपि संभवात् / न चेतरवासनानाशेऽपिनततः संसारवासनाया अनाश इति वाच्यम, सामान्यावच्छेदे न पाक्षिकप्राशेरेव नियममूलत्वात् / अन्यथाऽपूर्वाय व्रीहिविशेष नखनिर्भेदाप्राप्तेः, तत्राऽपि नियमादृष्टानुपपत्तिरिति चेत् / न / शक्यपरिवर्जनपाक्षिकप्राप्तेरेव नियममूलत्वात्। यथा वीहीनवहन्तीत्यत्र पक्षे प्राप्तस्य नखनिर्भेदाऽऽदेः शक्येन परिवर्जननावघातो नियम्यतेअवहन्तव्या एव, न नखैर्निभत्तव्या इति नैवमत्र तत्त्वज्ञानेनैव मिथ्याज्ञान निवर्तयेत्, न विरोधिगुणरागाऽऽदिना इति शक्यं प्रतिज्ञातुम् , तस्यापुरुषतन्त्रत्वात् / अत एव प्रोक्षितब्रीह्यवघातत्वेनेव श्रवणजन्यतत्त्वज्ञानत्येन नियमादृष्ट-हेतुत्वध्रौव्यमिति निरस्तम्, प्रोक्षणाऽऽदेः प्रधानाङ्गत्वेन प्रधानापूर्वफलकादृष्टजनकत्वात्।तत्रतथोक्तिसंभवेऽ-प्यत्र प्रधानस्यैव दृष्टफलत्वेन तथा वक्तुमशक्यत्वात्। किश्च-अत्र विजातीय