________________ णाण 1984 - अभिधानराजेन्द्रः - भाग 4 णाणकिरियाणय (33) संज्ञिद्वारे तेषां निरूपणम्। (34) लब्धिद्वारमधिकृत्य तत्परामर्शः / (35) उपयोगद्वारमुपन्यस्य तदुपदर्शनम्। (36) योगद्वारे सयोग्ययोगिनां तद्विमर्शः। (37) लेश्याद्वारे तथैव सलेश्यालेश्यानाम् / (38) कषायद्वारे सकायिकाकायिकानाम्। (36) वेदद्वारे सवेदकावेदकानाम्। (40) आहारकद्वारे आहारकानाहारकाणाम् / (41) तत्त्वसंवेदनं ज्ञानमिति चिन्तनम्। (42) अज्ञानं सम्यग ज्ञानादन्यद्, ज्ञानं तु भगवद्वचनम्। (43) तत्र ज्ञानयोजना। (44) त्रयाणां श्रुताऽऽदिज्ञानानां स्वल्पविभागः। (45) तत्र श्रुतमयज्ञानस्य लक्षणम्। (46) चिन्तामयज्ञानस्य लक्षणम्। (47) भावनाज्ञानलक्षणम्। (48) इहभविकपरभविकज्ञानविमर्शः। (46) छद्मस्थजीवानधिकृत्य ज्ञानाऽऽदिपरामर्शः। णात न०(ज्ञात)ज्ञायतेऽस्मिन् सतिदान्तिकोऽर्थ इति ज्ञातम्। दृष्टान्ते, स्था। ज्ञायतेऽस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानाद् ज्ञातं दृष्टान्तः-साधनसद्भावे साध्यस्याऽवश्यंभावः, साध्याभावे वा साधनस्यावश्यमभाव इत्यपदर्शनलक्षणः / यदाह"साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता / ख्याप्यते यः स दृष्टान्तः, स साधयंतरो द्विधा / / 1 / / " इति / तत्र साधर्म्य दृष्टान्तःअग्निरत्र, धूमात्, यथा महानस इति। वैधर्म्यदृष्टान्तस्तु-अग्न्यभावे धूमो न भवति, यथा जलाशय इति। अथवा-आख्यानकरूप ज्ञात, तच चरितकल्पितभेदाद् द्विधा-तत्र चरितं यथानिदानं दुःखाय ब्रह्मदत्तस्येव / कल्पितं यथा--प्रमादवतामनित्यं यौवनाऽऽदीनीति। निदर्शनीयं यथापाण्डुपत्रेण किसलयानां देशितम्। तथाहि"जह तुम्भे तह अम्हे, तुडभे वि य होइ हा ! जहा अम्हे। अप्पा हेइ पमंतं, पंडुयपत्तं किसलयाणं / / 1 / / " इति। अथवा-उपमानमात्र ज्ञातम्-सुकुमारः कर: किसलयमिवेत्यादिवत्। अथवा-ज्ञातमुपपत्तिमात्र ज्ञानहेतुत्वात्, कस्मात्? यवाः क्रीयन्ते, यस्मात् मुधा न लभ्यन्ते, इत्यादिवदित्येवमनेकधाऽपि साध्यप्रत्यायनरूपं ज्ञातमुपाधिभेदात् चतुर्विधं दर्शयति। स्था०४ ठा०३उ०। "चउविहे णाणे पण्णत्ते / तं जहा आहरणे, आहरण-तद्देसे, आहारणतद्दोसे, उववन्नासोवणए।" स्था०४ ठा०३उ०। (आहरणाऽऽदीनां व्याख्या स्वस्वस्थाने) मनुजक्षेत्रे व्यवस्थिताना मनोमात्रग्राहका ऋजुमतय इति कल्पसूत्रावचूादौ, तथा प्रज्ञापनावृत्ती मनःपर्यायज्ञातम्, इदं चाद्धतृतीयद्वीपद्विसमुद्रान्तर्वर्तिसंज्ञिमनोगतद्रव्यावलम्बन मिति व्याख्यानानुसारेण वर्तमानानामेवं संज्ञिनां मनोगतपर्यायावभासो जायत इति / तथा च सति यदुक्तं प्रज्ञापनाटीकायाम् मनःपर्यायज्ञानमपि पल्योपमासंख्येयभागमतीतं जानातीति कथं संगच्छते? इति प्रश्ने उत्तरम-वर्तिपदं मनु-जक्षेत्राधिक क्षेत्रवर्तिसंज्ञिमनागतद्रव्यावबोधनिषेधपरं, न तु वर्तमानसंज्ञिमनोगतद्रव्यावबोधनियमपरम्, तेनावधिज्ञानिवन्मनः पर्यायज्ञान्यपि यथोक्तातीतमनोगतभावान् जानातीति न कश्चिद् विरोध इति। 158 प्रवा सेन०२ उल्ला०। णाणंतराय पुं०(ज्ञानान्तराय) 6 त०। श्रुतस्य तद्ग्रहणाऽऽदौ विघ्ने, भ०५श०६ उ णाणकप्प पुं०(ज्ञानकल्प) श्रुतज्ञानविषयके कल्पे, पं०भाग एत्तो उणाणकप्पं, वोच्छामि अहाणुपुव्वीए। सुत्तुद्देसे वायरण-पडिच्छपुच्छपरियट्टअणुपेहा।। आयरियउवज्झाया, अह होति तु सुत्तकप्पविही। आयारमादि काउं, सुयं तु जा होति दिद्विवादो तु॥ अंगाणंगपविलु, कालियमुक्कालियं वा वि। तं पुण सव्वं पि भवे, संवादसमुट्ठितं च णिज्जूढं / / पत्तेयबुद्धभासिएँ, अह व समत्ती य होजाहि। पं०भा०। पं०चू०। (श्रुतकल्पाऽऽदीनां व्याख्या स्वस्वस्थाने) णाणकसायकुसील पुं०(ज्ञानकषायकुशील) ज्ञानमाश्रित्य कषाय कुशीले, भ०२५ श०६ उ०। णाणकिरियाणय पुं०(ज्ञानक्रियानय) ज्ञानक्रियाद्वयं मोक्षहेतुरिति सिद्धान्तव्यवसिते नये, (रत्ना०)('किरियाणय' शब्दे तृतीयभागे 554 पृष्ठे क्रियाप्राधान्यमुक्तम्) ('णाणणय' शब्दे ज्ञानप्राधान्यं वक्ष्यते) अत्र समुन्चयवादी प्राह-ततः सम्यग्ज्ञानं सम्यक् क्रियासध्रीचीनमेव फलसिद्धिनिबन्धनमित्यभ्युपगन्तव्यम्, न तु ज्ञानैकान्तः कान्तः / क्रियैकान्तोऽपि भ्रान्त एव। “यतः स्त्रीभक्ष्यभोगज्ञो, नज्ञानात् सुखितो भवेत् / " ("क्रियैव फलदा पुंसा, न ज्ञानं फलदं मतम्" / इति पूर्वार्धम् / ) इतितुन युक्तम् / यतः सम्यग्ज्ञानकारणैकान्तवादिनामयमुपालम्भो, न पुनरस्माकं, सम्यग्ज्ञानक्रिययोरुभयोरपि परस्परापेक्षयोः कारणत्वस्वीकारात् / न च नितम्बिनीमोदकाऽऽदिगोचरायां प्रवृत्तौ तद्विज्ञानं सर्वथा नास्त्येव, यतः-क्रियाया एव तत्कारणता कल्प्येत / तद्गोचरविज्ञानसनाथैव तत्र प्रवृत्तिः प्रीतिपरम्परोत्पादनप्रत्यला, अन्यथाउन्मत्तमूञ्छिताऽऽदेरपि प्रौढप्रेमपरायणप्रणयिनीनिविडाऽऽश्लेषक्रियाऽपि तदुत्पादाय किं न स्यात् ? अथासौ क्रियैव तत्त्वतो न भवति, सैव हि क्रिया तात्त्विकी, या स्वकीयकार्याव्यभिचारिणी; हन्त ! तर्हि तदेव तात्त्विकं ज्ञानं यत् स्वकीयकार्याव्यभिचारीति कथं "स्त्रीभ-- क्ष्यभोगज्ञः" इत्युपालम्भः शोभेत ? ततः कार्यमर्जयन्ती यथा निश्चयनयेन क्रिया क्रियोच्यते, तथा ज्ञानमपिः इति क्वचिद् व्यभिचाराभावाद् वयमेवैतत् फलोत्पत्तिकारणमनुगुणमिति। रत्ना०७ परि०। अत्र यशोविजयोपाध्यायकृतो वेदान्तिभङ्गया समुच्चयवादःअत्र ज्ञानकर्मसमुचयवादे स्वपरसमयवि चारः कश्चिद् लिख्यतेक्रियानयः क्रियां ब्रूते, ज्ञानं ज्ञाननयः पुनः। मोक्षस्य कारणं तत्र, भूयस्यो युक्तयो द्रयोः।।१२।। तत्र मुमुक्षुकर्मव्यापारतन्त्रं तत्त्वज्ञानवृत्ति, न वा? इति विप्रतिपतिविधिकोटि सदयनाचार्याणाम्, निषेधकोटिभर्भास्करीयाणाम् /