________________ णाण 1983 - अभिधानराजेन्द्रः - भाग 4 णाण काशके दीपकल्पे आचाराङ्ग श्रुताऽऽदौ, हा०३० अष्ट। बृ०। "तम्हा धिइउडाणुच्छाहकम्मबलविरियसिक्खियं नाणं। धारेयव्वं नियमा, नय अविणीएसु दायव्वं // 5 // " अत्र ज्ञानं चन्द्रप्रज्ञप्तिलक्षणम्। चं०प्र०२० पाहु। छउमत्थे णं भंते ! मणूसे परमाणुपोग्गलं किं जाणइ, पासइ, उदाहु न जाणइ, न पासइ? गोयमा ! अत्थेगइए जाणइ, ण पासइ, अत्थेगइए ण जाणइ, ण पासइ / छउमत्थे णं भंते ! दुपदेसियं खंधं किं जाणइ, पासइ? एवं चेव / एवं०जाव असंखेजपएसियं / छउमत्थे णं भंते ! मणुस्से अणंतपएसियं खंधं किं पुच्छा? गोयमा ! अत्थेगइए जाणइ, पासइ, अत्थेगइए जाणइ, ण पासइ, अत्थेगइए ण जाणइ, पासइ, अत्थेगइए ण जाणइ, ण पासइ / आहोहिएणं मणुस्से परमाणु०जहा छउमत्थे एवं आहोहिए वि०जाव अणंतपदेसियं / परमाहोहिए णं भंते ! मणूसे परमाणुपोग्गलं जं समयं जाणइ, तं समयं पासइ, जं समयं पासइ, तं समयं जाणइ? णो इणढे समढे / से केणटेणं भंते ! एवं बुच्चइ-परमाहोहिए णं मणूसे परमाणुपोग्गलं जं समयं जाणइ, णो तं समयं पासइ, जं समयं पासइ, णो तं समयं जाणइ ? गोयमा ! सागारे से गाणे भवइ, अणागारे से दंसणे भवइ, से तेणद्वेणं०जाव णो तं समयं जाणइ, एवं०जाव अणंतपएसियं / केवलीणं भंते ! मणूसे जहा परमाहोहिए तहा केवली वि०जाव अणंतपएसियं / (छउमत्थेत्यादि) इह छद्मस्थो निरतिशयो ग्राह्यः। (जाणइ, न पासइ ति) श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात्, तदन्यस्तु"नजाणइन पासइ ति" अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनाऽऽदिना, पश्यति च चक्षुषेत्येकः / तथाऽन्यो जानाति स्पर्शनाऽऽदिना, न पश्यति च चक्षुषा, चक्षुषोऽभावादिति द्वितीयः / / तथाऽन्यो न जानाति स्पर्शाद्यगोचरत्वात्, पश्यति चक्षुषेति तृतीयः / तथाऽन्यो नजानाति न पश्यति चाविषयत्वादिति चतुर्थः / छद्मस्थाधिकाराच्छास्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे परमावधिकवावश्यमन्तर्मुहूर्तेन केवली भवतीति केवलिसूत्रम्। तत्र च (सागारे से नाणे भवइ त्ति) साकारं विशेषग्रहणस्वरूपम् / 'से' तस्य परमाधोऽवधिकस्य तद्वा, ज्ञानं भवति, तद्विपर्ययभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति संभव इति / भ०१८ श०८उ०। व्रतमङ्गभेदादतीचाराणां सम्यगवबोधे, ध०४अधि०/ संप्रति (व्रतकर्मणि) ज्ञानाऽऽख्य द्वितीयभेदं व्याचिख्या सुर्गाथोत्तरार्द्धमाहभंगयभेयइयारे, वयाण सम्मं वियाणेइ / / 3 / / व्रतानामणुव्रताऽऽदीनामिहैव गाथाढ़ें भेदातिचारप्रस्तावे वक्ष्यमाणस्वरूपाणां भङ्गकान् द्विविधत्रिविधेत्यादीननेकप्रकारान्(सम्मं ति) सम्यक् समयोक्तेन विधिना विजानात्यवबुध्यते (35) ध०र०३५ गाथा। (भङ्गसङ्ख्याप्रदर्शनमनुपयुक्तत्वान्नेह प्रतन्यते) विषयसूची(१) सव्युत्पत्तिक ज्ञाननिर्वचनम्। (2) ज्ञानस्य पञ्चविधत्वम्। (3) ज्ञानभेदकारणानि। आदौ मतिश्रुतोपन्यासे कारणनिरूपणानन्तरं मतिश्रुतानन्तरमवधेस्तत्समनन्तरं च मनःपर्यायज्ञानस्योपन्यासकारणनिरू पणं, केवलज्ञानस्य सर्वोपरि निर्देशे कारणं च। (5) प्रत्यक्षपरोक्षत्वाभ्यां ज्ञानस्य द्वैविध्य प्ररूप्य केवलनो-- केवलज्ञानभेदेन प्रत्यक्षज्ञानस्य द्वैविध्यप्रदर्शनम्। (6) अवधिमनःपर्यायज्ञानत्वेन केवलज्ञानस्य द्वैविध्यं निरूप्याss भिनिबोधिकश्रुतज्ञानभेदेन परोक्षज्ञानस्य द्वैविध्यप्रदर्शनम्। (7) स्वाम्यादिभेदाद् मतिश्रुतभेदः। (8) प्रकारान्तरेणापि मतिश्रुतयोर्लक्षणभेदप्ररूपणा। (E) आचार्यभेदेन मतिश्रुतभेदार्थे शङ्कननिराकरणे। (10) तदनन्तरं विशेषदूषणाभिधित्सया पुनरपि मतान्तरोपन्यासः / (11) कराऽऽदिचेष्टा मतेःकारणमेव न भवति, किन्तु श्रुतस्येतिशङ्को द्घाटनम्। (12) श्रुतानन्तरमवधिज्ञानस्य विवेकः। (13) वस्तुतो ज्ञानस्य द्वैविध्यमेवेतिनिरूपणम्। (14) न ज्ञानमात्मव्यतिरेकेण गुणः। (15) ज्ञानज्ञानिनोभिन्नत्वस्वीकारे बन्धमोक्षाभावपरामर्शः। (16) बोधमात्रं प्रमाणं, साकारो वा बोधः प्रमाणमित्यत्र वैभाषिकमत विचारः। (17) जैमिनीयस्वीकृतप्रमाणलक्षणनिराकरणम् / (18) प्रमाणमविसंवादि ज्ञानमिति सौगतनिर्मितलक्षणपरामर्शः। (16) अव्यभिचाराऽऽदिविशेषणविशिष्टाऽर्थोपलब्धिजनिका सामग्री प्रमाणमितिनैयायिकमतव्युदासः। (20) अनुव्यवसायप्रकाश्यं ज्ञानमित्यत्र नैयायिकमतमुद्धाट्यपर्या लोचना। (21) ज्ञानस्य स्वप्रकाशकत्वे प्रदीपाऽऽदिदृष्टान्तमुपन्यस्य पदार्थ परिशोधनम्। (22) नित्यपरोक्षज्ञानवादिना भट्टानाम्, एकात्मसमवायिज्ञानान्तर वेद्य-ज्ञानवादिना यौगाना च मतस्य विकुट्टनम्। (23) ज्ञानिनोऽज्ञानिनश्च निरूपणम्। (24) तत्र नैरयिकजीवानधिकृत्य प्रदर्शनम्। (25) द्वीन्द्रियाः सिद्धपर्यन्ताः। (26) तान्येव गतिद्वारमवलम्ब्य चिन्तनम्। (27) इन्द्रियद्वारमुपन्यस्य निरूपणम्। (28) कायद्वारमुद्भाव्य प्ररूपणम्। (26) सूक्ष्मद्वारमुदीर्य प्रदर्शनम्।। (30) पर्याप्तकद्वारे तत्प्रतिपादनम्। (31) भवस्थद्वारतोऽपि तन्निर्देशः / (32) भव्यद्वारे ज्ञान्यज्ञानिविचारः।