________________ णाण 1982- अभिधानराजेन्द्रः - भाग 4 न भवत्यसौ द्वितीये, चिन्तायोगाद कदाचिदपि॥१०॥ आद्ये श्रुतज्ञाने, इह प्रवचने, मनागीषत, पुंसः पुरुषस्य, तद्रागात् | श्रुतमयज्ञानानुरागात्, दर्शनग्रहो भवति, दर्शन मतं श्रुतमिति एकोऽर्थः / तद् ग्रहः तदाग्रहो यथेदमत्रोक्तमिदमेव च प्रमाण नान्यदित्येवंरूपो, न भवत्यसौ दर्शनग्रहो यथेदमस्मदीयं दर्शनं शोभनमन्यदीयमशोभनमित्येवंरूपो, द्वितीये चिन्तायोगादतिसूक्ष्मसुयुक्तिचिन्तनसंबन्धात् कदाचिदपि काले नयप्रमाणाधिगमसमन्वितो हि विद्वान् प्रेक्षावत्तया स्वपरतन्त्रोक्तं न्यायबलाऽऽयातमर्थ सर्व प्रतिपद्यते, तेनास्यदर्शनग्रहो / न भवति // 10 // चारिचरकसजीव-न्यचरकचारणविधानतश्चरमे। सर्वत्र हिता वृत्तिर्गाम्भीर्याद् समरसापत्त्या।।११।। चारेश्चरको भक्षयिता संजीविन्या औषधेरचरकोऽनुपभोक्ता, तस्य चारणमभ्यवहारण, तस्य विधानं संपादनं, तस्माचारिचर-कसजीवन्यचरकचारणविधानतश्वरमे भावनामयज्ञाने सति सर्वत्र सर्वेषु जीवेषु हिता वृत्तिः हितहेतुः प्रवृत्तिर्न कस्यचिदहिता। गाम्भीर्यादाशयविशेषात् समरसापत्त्या सर्वानुग्रहरूपया "कयाचित् स्त्रिया कस्यचित् पुरुषस्य वशीकरणार्थ परिवाजिकोक्ता-यथेमं मम वशवर्तिनं वृषभं कुरु, तथा च किल कुतश्चित् सामर्थ्यात् सवृषभः कृतः,तेचारयन्ती पाययन्ती चास्ते। अन्यदा च वटवृक्षस्य अधस्तान्निषण्णे तस्मिन् पुरुषगवे, विद्याधरीयुग्ममाकाशमागमत्, तरै कयोक्तम्-अयं स्वाभाविको न गौः, द्वितीययोक्तम्-कथमयं स्वाभाविको भवति? तत्राऽऽद्ययोक्तम्-अस्य वटस्याधस्तात् संजीवनी नामौषधिरस्ति / यदि तां चरति, तदाऽयं / स्वाभाविकः पुरुषो जायते। तच विद्याधरीवचनं तया स्त्रिया समाकर्णितं, तया चौषधि विशेषतोऽजानानया समिव चारिं तत्प्रदेशवर्तिनी सामा-- न्येनैव चारितः, यावत्संजीवनीमुपभुक्तवान् / तदुपभोगानन्तरमेवासी पुरुषः संवृत्तः।" एवमिदं लौकिकमाख्यानकं श्रूयते। यथा तस्याः स्त्रियाः / तस्मिन् पुरुषगवे हिता प्रवृत्तिरेवं भावनाज्ञानसमन्वितस्यापि सर्वत्र भव्यसमुदायेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति / / 11 / / विपर्ययो मोहतोऽन्य इत्युक्तम्. स पुनः कः? इत्याह-- गुर्वादिविनयरहितस्य यस्तु मिथ्यात्वदोषतो वचनात्। दीप इव मण्डलगतो, बोधः स विपर्ययः पापः ||12|| गुर्वादिविनयरहितस्य गुरूपाध्यायाऽऽदिविनयविकलस्य यस्तु यः पुनर्मिथ्यात्वदोषतो मिथ्यात्वदोषात् तत्त्वार्थाश्रद्धानरूपाद् वचनादागमाद् दीप इव, मण्डलगतो मण्डलाऽऽकारो बोधोऽवगमस्तैमिरि-1 कस्येव स तथविधो, बोधो वचनाद् भवन्नप्यध्यारोपदोषतो विपर्ययो मिथ्याप्रत्ययरूपः पदमात्रवाच्यार्थविषयः पापः स्वरूपेण वर्तते / / 12 / / विपर्यय एव प्रस्तुते दृष्टान्तगर्भमुपनयमाह कारि काद्वयेनदण्डीखण्डनिवसनं, भस्माऽऽदिविभूषितं सतां शोच्यम्। पश्यत्यात्मानमलं, गृही नरेन्द्रादपि ह्यधिकम् / / 13 / / मोहविकारसमेतः, पश्यत्यात्मानमेवमकृतार्थम् / तद् व्यत्ययलिङ्ग रतं , कृतार्थमिति तद्ग्रहादेव // 14 // दण्डीखण्ड प्रसिद्ध, निवसनं परिधानमस्येति दण्डीखण्डनिवसनः, तं भस्माऽऽदिभिर्विभूषितं विच्छुरितंभस्माऽऽदिविभूषितं सत्पुरुषाणां शोच्य शोचनीयं पश्यत्यवलोकयत्यात्मानमलमत्यर्थ, गृही गृहवान, नरेन्द्रादपि ह्यधिक चक्रवर्तिनोऽप्यधिकं यथेति गम्यते / / 13 / / मोहविकारसमेतो मनोविभ्रमदोषसमन्वितः पश्यत्यात्मानमेवमकृतार्थं सन्त विपर्य्यबोधवान कृतार्थमिति पश्यति, तस्य कृतार्थस्य व्यत्ययेन यानि लिङ्गानि तेषुरतस्तं तव्यत्ययलिङ्गरतम्। अनेनाकृतार्थत्वमेव वस्तुवृत्त्या दर्शयति / एवंविधोऽपि कृतार्थमिति कुतो मन्यते? तद्ग्रहादेव, स चासौ ग्रहश्च, तस्मादेव विवक्षितग्रहाऽऽवेशादेव / एवं ग्रहगृहीतेन विपर्ययवत उपनयः कृतः // 14 // ज्ञानविपर्यययोः स्वाभ्युपदर्शनार्थमिदं कारिकाद्वयमाहसम्यग्दर्शनयोगाद्, ज्ञानं तद् ग्रन्थिभेदतः परमम् / सोऽपूर्वकरणतः स्याद्, ज्ञेयं लोकोत्तरं तच / / 15|| सम्यग्दर्शनयोगात्तत्त्वार्थश्रद्धानसंबन्धाद्ज्ञानं सम्यग्ज्ञानं, तत् सम्यग दर्शनं ग्रन्थिभेदतो ग्रन्थिभेदात्, परमं प्रधान स्वरूपतो वर्तते, सग्रन्थिभेदो नियमत एवापार्द्धपुद्गलपरावर्ताधिकसंसारच्छेदी, अपूर्वकरणतः स्यादपूर्वपरिणामाद् भवेत्, ज्ञेयं लोकोत्तरं तच, तचापूर्वकरणं लोकात् सर्वस्मादप्युत्तरं प्रधानं ज्ञेयम्। अपूर्वकरणमपूर्वपरिणामः शुभोऽनादावपि संसारे तेषु तेषुधर्मस्थानेषु सूत्राऽर्थग्रहणाऽऽदिषु वर्तमानस्याप्यसंजातपूर्व इति कृत्वा / / 15|| लोकोत्तरस्य तस्माद्, महानुभावस्य शान्तचित्तस्य। औचित्यवतो ज्ञानं, शेषस्य विपर्ययो ज्ञेयः।।१६।। लोकादुत्तरःप्रधानो ज्ञानवानिह गृह्यते, तस्य लोकोत्तरस्य तस्मादिति निगमने महानुभावस्याचिन्त्यशक्तेः शान्तचित्तस्योपशान्तमनसः / औचित्यवत औचित्ययुक्तस्य ज्ञानमनेन ज्ञानस्वामी निदर्शितः / शेषस्योक्तगुणविपरीतस्य विपर्ययो ज्ञेयो ज्ञानत्रयादन्यः पदमात्रवाच्यार्थविषयः पूर्वोक्त इति! 16 // षो०११ विव०। (48) ज्ञानं किमिहभविकं परभविकं वा-- इहभविए भंते ! णाणे, परभविए णाणे, तदुभयभविए णाणे? गोयमा ! इहभविए विणाणे, परभविए विणाणे, तदुभयभविए विणाणे य। ''इहभविए" इत्यादि व्यक्तम्, नवरम् इह च भवे वर्तमानजन्मनि यद्वर्तते, न तु भवान्तरे तदैहभविकम्, काकुपाठाचेह प्रश्नताऽवसेया, तेन किमैहभविकं ज्ञानमुत-(परभदिए त्ति) परभवे वर्तमानानन्तरभाविन्यनुगामितया यद्वर्तते तत्पारभविकम्, आहोस्वित्-(तदुभयभविए त्ति) तदुभयरूपयोरिहपरलक्षणयोर्भवयोर्यदनुगामितया वर्तते तत्तदुभयभविकम्, इदं चैव न पारभविकाद्भिद्यत इति। परतरभवेऽपि यदनुयाति तद् ग्राह्यम्, इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात्, हस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति, प्रश्ननिर्वचनमपि सुगम, नवरम् (इहभविए वित्ति) ऐहभविकं यदिहाधीतं, नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति. तदुभयभविकं तु यदिहाधीतं परभवे परतरभवे चानुवर्तत इति / भ०१ श०१उ०। शास्त्राभ्यासे, दर्श०५ तत्त्व / ज्ञानमागमितमित्येकोऽर्थः। व्य०१०उ० ज्ञायतेऽनेनेति ज्ञेयप्र