________________ णाण 1981 - अभिधानराजेन्द्रः - भाग 4 णाण यनिरपेक्षम्, तदपोहात्तन्निरासात् / अन्यज्ञानद्वयसापेक्षं तु श्रुतमयं न निरस्यत इति ज्ञेयम्। चिन्तामयभावनामये वक्ष्यमाणस्वरूपे नयप्रमाणसूक्ष्मयुक्तिचिन्तानिवृत्तं चिन्तामयं हेतुस्वरूपफलभेदेन कालत्रयविषय भावनामयं, ते भवतो जाये ते ज्ञाने परे प्रधाने यथार्ह मौचित्येन गुरुभक्तिविधानं सच्छोभनं लिङ्ग ययोर्गुरुभक्तिविधानसल्लिङ्गे // 12 // ज्ञानत्रयं सफलं दृष्टान्तद्वारेण प्रतिपिपादयिषुराहउदकपयोऽमृतकल्पं, पुंसां सज्ज्ञानमेवमाख्यातम् / विधियत्नवत्तु गुरुभिर्विषयतृडमपहारि नियमेन // 13 // उदकपयोऽमृतकल्पमुदकरसाऽऽस्वादकल्पं पयोरसाऽऽस्वादकल्पम् अमृतरसाऽऽस्वादकल्प, पुंसां विद्वत्पुरुषाणाम्, सज्ज्ञानं सम्यग्ज्ञानम्, एवमाख्यातं स्वरूपतो, विधियत्नवत्तु विधौ यत्नः स विद्यते यस्मिस्तद्विधियत्नवदेव, न विधियत्नशून्यं, गुरुभिराचार्य राख्यातं विषयतृडपहारि विषयतृषमपहर्तुं शीलमस्येति, नियमेन अवश्यं तया, श्रुतज्ञानं स्वस्थस्वादुपथ्यसलिलाऽऽस्वादतुल्यं, चिन्ताज्ञानं तु क्षीररसाऽऽस्वादतुल्यं, भावनाज्ञानममृतरसाऽऽस्वादतुल्यमितित्युक्तं भवति, विषयतृडपहारीत्युक्तम् // 13 // यस्य तु विषयाभिलाषातिरेकः स ज्ञानत्रयवानेष, फलाभावाद् न भवतीत्ययोग्यत्वप्रतिपादनाय तस्येदमाहशृण्वन्नपि सिद्धान्तं, विषयपिपासाऽतिरेकतः पापः। प्राप्नोतिन संवेगं, तदाऽपि यः सोऽचिकित्स्य इति ||14|| शृण्वन्नपि तीर्थकराभिहितमर्थतः सिद्धान्तं प्रतिष्ठितपक्षरूपं गणधराऽऽद्युपनिबद्धमागमं विषयपिपासाऽतिरेकतो रूपरसगन्धस्पशशब्दाभिलाषातिरेकेण पापः संक्लिष्टाध्यवसायत्वाद् न प्राप्नोति संवेगं मोक्षाभिलाषं, तदाऽपि सिद्धान्तश्रवण कालेऽपि, आस्तां तावदन्यदा, यएवंविधः, सोऽचिकित्स्य इत्यचिकित्सनीयः, स वर्त्तते, शास्त्रविहितदोषचिकित्साया अनर्हत्वादिति / / 14|| इत्थं कर्मदोषवतः किं कर्तव्यम्? इत्याहनैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि / कुर्वन्नेतद् गुरुरपि, तदधिकदोषोऽवगन्तव्यः / / 15 / / न प्रतिषेधे, एवंविधस्य, पुरुषस्य शस्तं प्रशस्तमनुज्ञातमित्यर्थः / मण्डल्युपवेशनप्रदानमपि अर्थमण्डल्यां यदुपवेशनं श्रवणार्थ तत्प्रदानमपि कुर्वन् संपादयन्नेतत् पूर्वोक्तं गुरुरपि प्रस्तुतोऽर्थाभिधायी तदधिकदोषोऽयोग्यपुरुषाधिकदोषोऽवगन्तव्योऽवबोधव्यः; सिद्धान्तावज्ञाऽऽपादनादिति // 15 // पूर्वोक्तार्थ व्यतिरेकेणाऽऽहयः शृण्वन् संवेग, गच्छति तस्याऽऽद्यमिह मतं ज्ञानम्। गुरुभक्त्यादिविधानात्, कारणमेतद् द्वयस्येष्टम् / / 16 / / यः कश्चिद् योग्यः शृण्वन, सिद्धान्तमिति संबध्यते / संवेगं गच्छति आस्कन्दति। तस्य योग्यस्याऽऽद्यमिह प्रथममिह मतं ज्ञानं श्रुतज्ञानम्। गुरुभक्त्यादिविधानाद् गुरुभक्तिविनयबहुमानाऽऽदिकरणात, कारणमेतद्वयस्येष्ट चिन्तामयभावनामयज्ञानद्वयस्य हेतुरेतत् श्रुतज्ञानमिष्टम् / तस्माज्ज्ञानत्रयेऽपि रत्नत्रयकल्पे परमाऽऽदरो विधेय इति // 16 // षो०१० विव० (सुस्सूसा शब्दे शुश्रूषाविवेचनम्) (44) इदानीं त्रयाणां श्रुताऽऽदिज्ञानानां किञ्चिद्विभागमु पदर्शयतिऊहाऽऽदिरहितमाद्यं, तद्युक्तं मध्यमं भवेद्ज्ञानम्। चरमं हितकरणफलं, विपर्ययो मोहतोऽन्य इति / / 6 / / ऊहो वितर्कः, ऊहाऽपोहविज्ञानाऽऽदिरहितमाद्यं प्रथमं श्रुतमयं, तद्युक्तमूहाऽऽदियुक्तंमध्यमं चिन्तामयं भवेद्ज्ञानं द्वितीय, चरमं भावनामयं तृतीयं हितकरणफलं हितकरणं फलमस्येति स्वहितनिर्वर्तनफलं, विपर्ययो विपर्यासो मिथ्याज्ञानं, मोहतो मोहान्मिथ्यात्वमोहनीयोदय द् ज्ञानत्रयादन्योऽबोध इति // 6| (45) श्रुतमयज्ञानस्य लक्षणमाहवाक्यार्थमात्रविषयं, कोष्ठकगतबीजसन्निभं ज्ञानम्। श्रुतमयमिह विज्ञेयं, मिथ्याऽभिनिवेशरहितमलम् / / 7 / / सकलशास्वगतवचनाविरोधिनिर्णीतार्थवचनं वाक्यं, तस्यार्थमात्रं प्रमाणनयाधिगमरहितम्, तद्विषयं तद्गोचरम्-वाक्यार्थमात्रविषयं, न तु परस्परविभिन्न विषयशास्त्रावयवभूतपदमात्रयाच्यार्थविषयम् / कोष्ठके लोहकोष्ठकाऽऽदौ गतं स्थितं यद् बीजं धान्यं तत्सन्निभमविनष्टत्वात्कोष्ठकगतबीजसन्निभंज्ञानं श्रुतमयमिह प्रक्रमे, विज्ञेयं वेदितव्यम्, मिथ्याभिनिवेशोऽसदभिनिवेशः, तेन रहितं विप्रमुक्तम्, अलमत्यर्थम्॥७॥ (46) चिन्तामयज्ञानस्य लक्षणमाहयत्तु महावाक्यार्थज-मतिसूक्ष्मसुयुक्तिचिन्तयोपेतम्। उदक इव तैलविन्दुर्विसर्पि चिन्तामयं तत्स्यात्॥८॥ यत्तु यत्पुनर्महावाक्यार्थजमाक्षिप्तेतरसर्वधर्माऽऽत्मकत्ववस्तुप्रतिपादकानेकान्तवादविषयार्थजन्यमतिसूक्ष्मा अतिशयसूक्ष्मबुदिगम्याः शोभना अविसंवादिन्यो या युक्तयः सर्वप्रमाणनयगर्भाः, तचिन्तया तदालोचनयोपेतं युक्तम् / उदक इव सलिल इय तैलबिन्दुस्तैललवो विसर्पणशीलं विसर्पि विस्तारयुक्तम्, चिन्तया निवृत्त चिन्तामयं, तज्ज्ञानं स्याद्भवेत्॥८॥ (47) भावनाज्ञानलक्षणमाहऐदम्पर्यगतं यद्, विध्यादौ यत्नवत्तथैवोः। एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् // 6|| ऐदम्पर्य तात्पर्य सर्वज्ञेयक्रियाविषये सर्वज्ञाज्ञैव प्रधानं कारणमित्येवंरूपं तद्गतं तद्विषयं यद् ज्ञानं विध्यादौ विधिद्रव्यदातृपात्राऽऽदौ, यत्नवत्परमाऽऽदरयुक्तं, तथैवोच्चैः-ऐदम्पर्यवत्त्वापेक्षया यत्नवत्त्वस्य समुच्चयार्थ तथैवेत्यस्य ग्रहणम्। एतत्तु एतत्पुनर्भावनया निवृत्तं भावनामयं ज्ञानम् / अशुद्धस्य सद्रत्नस्य जात्यरत्नस्य स्वभावत एव क्षारमृत्पुटपाकाऽऽद्यभावेऽपि भास्वररूपस्य या दीप्तिस्तया सममशुद्धसद्रत्नदीप्तिसमम् / यथाहि जात्यरत्नस्य स्वभावत एवान्यरत्नेभ्योऽधिका दीप्तिर्भवति, एवमिदमपि भावनाज्ञानमशुद्धसद्रत्नकल्पस्य भव्यजीवस्य कर्ममलमलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकारि भवति / अनेन हि ज्ञान ज्ञातनाम क्रियाऽप्येतत्पूर्विकैव मोक्षायाऽऽक्षेपेण संपद्यत इति / / 6 / / साम्प्रतं त्रयाणां श्रुतचिन्ताभावनामयज्ञानानां विषय विभागार्थ फलाभिधानाय प्रक्रमते कारिकाद्वयेनआद्य इह मनाक् पुंसः, तद्रागात् दर्शनग्रहो भवति।