________________ णाण 1980- अभिधानराजेन्द्रः - भाग 4 णाण क्षफलप्रदायकत्वं सदनुबन्धः, सोऽस्यास्तीति सदनुबन्धि, चशब्दो विशेषणसमुचये / किंतुकमिदमित्याह-ज्ञानाऽऽवरणं मत्याद्यावारक कर्म, तस्य हासः क्षयोपशमः, तस्मादुत्तिवृत उत्पद्यते यत्तद् ज्ञानाऽऽवरणहासोत्थम्। कथमिदं सदनुबन्धीत्यत आहप्रायो बाहुल्येन वैराग्यकारणं सद्भावनानिमित्तं यतो भवतीति गम्यते। यदाह-'बालधूलीगृहक्रीडातुल्याऽस्यां भाति धीमताम् / तमोग्रन्थिविभेदेन, भवचेष्टाऽखिलैव हि ||1 // " प्रायोग्रहणं च कषायोदयविशेषे सति तद्वैराग्यकारणं न स्यादपि राज्याऽऽदिप्रसाधानप्रवृत्तभरताऽऽदेरिवेति प्रतिपादनार्थमिति / / 5 / / तृतीयप्रतिपादनायाऽऽहस्वस्थवृत्तेःप्रशान्तस्य, तद्धेयत्वाऽऽदिनिश्चयम्। तत्त्वसंवेदनं सम्यग, यथाशक्ति फलप्रदम्।।६।। स्वस्था अनाकुला वृत्तिर्वचनकायव्यापाररूपं वर्तनं यस्य सतथा तस्य स्वस्थवृत्तेः। एतदेव कुत इत्याह-प्रशान्तस्य रागद्वेषाऽऽद्यु-पशमप्रकर्षवतः, तत्त्वसंवेदनं भवतीति क्रिया। किंभूतमिति ? आह-तेषां शेयवस्तुतत्त्वाना हेयत्वं त्यजनीयत्वम्, आदिशब्दादुपादेयत्वोपेक्षणीयत्वपरिग्रहः / तत्र निश्चयो निर्णयो यस्य तत्तद्धेयत्वाऽऽदिनिश्चयमिति यथा वा यदिति शेषः / ततश्च स्वस्थवृत्तेः प्रशान्तस्य पुंसो यद् ज्ञानं तत्तत्त्वसंवेदनमितियोगः। तत्त्वसंवेदनमुक्तनिर्वचनं सम्यक् समीचीनतया यथाशक्ति पुरुषस्य संहननाऽऽदिसामर्थ्यानुसारतः फलप्रद स्वप्रयोजनप्रसाधकम् ज्ञानस्य चानन्तरफलं विरतिः, परम्पराफलंत्वपवर्ग इति॥६|| एतस्य लिङ्गाऽऽदि प्रतिपादयन्नाहन्याय्याऽऽदौ शुद्धवृत्त्यादि-गम्यमेतत् प्रकीर्तितम्। सज्ज्ञानाऽऽवरणापायं, महोदयनिबन्धनम्।।७।। न्यायो नीतिः तस्मादनपेतो न्याय्यः-सम्यग्दर्शनाऽऽदित्रयरूपो मोक्षमार्गः, स आदिर्यस्य न्यायस्य मिथ्यादर्शनाऽऽदिरूपस्य भवमार्गस्य स न्याय्याऽऽदिः, तत्र शुद्धवृत्तिनिरतिचारप्रवृत्तिः, आदिर्यस्या निवृत्तेः सा तथा तया, गम्यमनुमेयं शुद्धवृत्त्यादिगम्यम् / एतदनन्तरोदितस्वरूपं तत्त्वसंवेदनज्ञानं, प्रकीर्तितम् ज्ञानस्वरूपविद्धिः संशाब्दितम्। किंतुकमिति? आह सत्शोभनं प्रकृष्टं यद् ज्ञानमाभिनिबोधिकाऽऽदि, तस्य यदावरणं, तस्यापायोऽपगमः क्षयः क्षयोपशमलक्षणो यस्मिन् तद् ज्ञानाऽऽवरणापायम् / अथवा-सन् विद्यमानो ज्ञानाऽऽवरणापायो यत्र तत्तथा फलमस्या आह-महोदयो महाभ्युदयो निर्वाणं, तस्य निबन्धनमक्षेपेण कारणं महोदयनिबन्धनमिति / / 7 / / उपसंहरन्नुपदेशमाहएतस्मिन् सततं यत्नः, कुग्रहत्यागतो भृशम् / मार्गश्रद्धाऽऽदिभावेन, कार्य आगमतत्परैः।।८।। एतस्मिन्ननन्तरोक्ते तत्त्वसंवेदनज्ञाने, सततमनवरतं. यत्न आदरः, कार्य इति संबन्धः। कुतः? कुग्रहत्यागतः शास्त्रबाधिताभिनिवेशपरित्यागेन, भृशमत्यर्थ , केन करणभतेन कार्यो यत्न इत्याह-मार्गो मोक्षमार्गः श्रद्धाऽऽदिर्गिश्रद्धाऽऽदिः तद्रूपो भाव आत्मपरिणामो मार्गश्रद्धाऽऽदिभावः तेन, तत्र श्रद्धा श्रद्धानम्, आदिशब्दाद् ज्ञानमासेवनं चेति कार्यो विधेयः कैरिति? आह-आगमतत्परैराप्तप्रवचनप्रधानैरिति॥८॥ इति। हा०६ अष्टा द्वा०। अत उक्तम्-"तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः / तमसः कुतोऽस्ति शक्तिः, दिनकरकिरणाग्रतः स्थातुम् ? ||1 // " नं०। आचा०। धo गुरुपारतंतनाणं, (सद्दहणं एयसंगयं चेव) (7) गुरुपारतन्त्र्यं ज्ञानाधिकाऽऽचार्याऽऽयतत्वं यत्तद् ज्ञानं बोधो विशिष्ट ज्ञानविकलानामपि गुरुपारतन्त्र्यस्य ज्ञानफलसाधकत्वात्।यदाह"यो निरनुबन्धदोषात्, श्राद्धोऽनाभोगवान् वृजिनभीरुः / गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञान्येव तत्फलतः॥१॥ चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः। गन्तारौ गन्तव्यं, प्राप्नुत एतौ युगपदेव ।।२।।''पञ्चा०११ विव०। "णाणाहिओ वरचरण-हीणो विहुपवयणं पभासंतो। ण य दुक्करं करेंतो, सुठ्ठ वि अप्पागमो पुरिसो // 1 // " तथा-"हीणस्स वि सुद्धपरू-वगस्स नाणाहियस्स कायव्व।" द्रव्या 01 अध्या। स्था०। (प्रत्यक्षाऽऽदीनां व्याख्या स्वस्वस्थाने) आगमपूर्वक बोधे, द्वा०२३ द्वा०ा "अन्नाणं परियाणामि।" (42) अज्ञानं सम्यग्ज्ञानादन्यद्, ज्ञानंतु भगवद्वचनम्।ध०३ अधिका अत्र यशोविजयोपाध्यायकृतमष्टकम्मज्जत्यज्ञः किलाज्ञाने, विष्ठायामिव शूकरः। ज्ञानी निमञ्जति ज्ञाने, मराल इव मानसे ||1|| निर्वाणपदमप्येकं, भाव्यते यन्मुहुर्मुहुः / तदेव ज्ञानमुत्कृष्ट, निर्बन्धो नास्ति भूयसा / / 2 / / स्वभावलाभसंस्कार-स्मरणं ज्ञानमिष्यते / ध्यानध्यमात्रमतस्त्वन्यत्तथा चोक्तं महात्मना / / 3 / / (हरिभद्राचार्यण।' अकुत्थासजतं नाणं, सुयपाढउ व्व विण्णेयं'।) वादाँश्च प्रतिवादाँश्च, वदन्तोऽनिश्चितास्तथा। तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवगतौ // 4|| स्वद्रव्यगुणपर्याय-चर्यावर्या पराऽन्यथा। इति दत्ताऽऽत्मसन्तुष्टिभुष्टिज्ञानस्थितिमुनेः / / 5 / / अस्ति चेद् ग्रन्थिभिद् ज्ञानं, किं चित्रैस्तन्त्रयन्त्रणैः। प्रदीपाः क्वोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चे? // 6|| मिथ्यात्वशैलपक्षच्छिद्, ज्ञानदम्भोलिशोभितः। निर्भयः शक्रवद्योगी, नन्दत्यानन्दनन्दने / / 7 / / पीयूषमसमुद्रोत्थं, रसायनमनौषधम्। अनन्यापेक्षमैश्वर्य, ज्ञानमाहुर्मनीषिणः ||8|| अष्ट०५अष्ट। "जो विणओ तं नाणं, जं नाणं सो अवुचई विणओ। विणएण लहइ नाणं, नाणेण विजाणई विणयं" ॥६सा द०प० (वचनानुष्ठानं चारित्रवतो नियोगेनेत्युक्तम् 'अणुट्ठाण' शब्दे प्रथमभागे 377 पृष्ठे) (४३)तत्र ज्ञानयोजनामाहश्रुतमयमात्रापोहात्, चिन्तामयभावनामये भवतः। ज्ञाने परे यथार्ह, गुरुभक्तिविधानसल्लिङ्गे // 12 // श्रुतेन निर्वृत्तं श्रुतमयं, तदेव तन्मात्रमवधृतस्वरूपमन्यज्ञानव