________________ णाण 1976 - अभिधानराजेन्द्रः - भाग 4 णाण भासनं परिच्छे दो यत्र तद् विषयप्रतिभासमै हिकाऽऽमुष्मिकेषु छाद्मस्थिकज्ञानविषयेषु अर्थेषु प्रवृत्तावात्मनस्तात्त्विकार्थानर्थप्रतिभासशून्यमित्यर्थः / ज्ञानमाहुरिति संबन्धः, चशब्द उत्तरज्ञानविशेषापेक्षया समुच्चयार्थः / इदं च मिथ्यादृशां भवतीति। तथा आत्मनो जीवस्य परिणतिरनुष्ठानविशेषसंपाद्यःपरिणामविशेषः, सैव ज्ञेयतया यस्मिन्नस्ति ज्ञानेन पुनस्तदनुरूपप्रवृत्तिनिवृत्ती अपि तदात्मपरिणतिमत्। तथोत समुचये। इदं चाविरतसम्यग्दृष्टीनां भवति, तत्त्वं परमार्थः, तत् सम्यक् विद्यते ज्ञायते येन तत्तत्वसंवेदनं, हेयोपादेयार्थप्रवृत्तिनिवृत्तिसंपादकमित्यर्थः / चशब्दः समुच्चये,एवकारोऽवधारणे / तस्य चैवं प्रयोग:-तत्त्वसंवेदनमेव च, नोक्तव्यतिरिक्तम्, इदं च विशुद्धचारित्रिणां स्यात्, ज्ञानं बोधम्, आहुर्बुवते, महर्षयो महामुनयः, एते च त्रयो ऽपि ज्ञानभेदा मत्यादिविशेषा एवेति / / 1 / / आद्यस्वरूपमाहविषकण्टकरत्नाऽऽदौ, बालाऽऽदिप्रतिभासवत्। विषयप्रतिभासं स्यात्, तद्धेयत्वाऽऽद्यवेदकम् / / 2 / / विषं च शृङ्गिकाऽऽदिकम्, कण्टकाश्च बब्बूलाऽऽद्यवयवविशेषा इति हेयं वस्तु, रत्नानि च मरकताऽऽदीनि तानि चोपादेयं, विषकण्टकरत्नानि तानि आदिर्यस्य तत्तथा, तत्र विषकण्टकरत्नाऽऽदौ द्रष्टव्ये, इहाऽऽदिशब्दाद् हेयोपादेयरूपवस्त्वन्तरपरिग्रहः, उपेक्षणीयपरिग्रहो वा। बालः शिशुरादिर्येषां ते बालाऽऽदयः, आदि-शब्दादतिमुग्धपरिग्रहः / तेषां प्रतिभासो वस्तुबोधो बालाऽऽदि-प्रतिभासः, स इव बालाऽऽदि प्रतिभासवत्, तत्तुल्यमित्यर्थः / विषयप्रतिभासमुक्तनिर्वचनं ज्ञानं, स्याद् भवेत्। कथं बालाऽऽदिप्रतिभासतुल्यत्वमस्येत्याह-तेषां ज्ञेयविषयाणां, हेयत्वाऽऽदि हेयत्वमुपादेयत्वमुपेक्षणीयत्वं चेत्यर्थः / तस्यावेदकमनिश्चायकं तद्धेयत्वाऽऽद्यवेदकं यथा बालाऽऽदिप्रतिभासो विषाऽऽदिविषयस्य रूपाऽऽदिमात्रमेवाध्यवस्यति, न तु हेयत्वाऽऽदिकं तद्धर्मम्, एवं यद् ज्ञानं बहुश्रुतानामप्यभिन्नग्रन्थीनां मोहमलमलीमसमानसत्येनातत्त्वानां हेयतायास्तत्त्वानां चोपादेयताया विमक्षिम तत्त्वातत्त्वयोः समताऽवभासकं विपर्ययावभासकं वा तद्विषयप्रतिभासमिति भावना / उक्तं च-"विसयपडिमासमित्तं, बालस्सेवऽवखरयणविसयं ति। वयणाऽऽइएसुनाणं, सव्वत्थानाणमोणेयं" ||1|| (वयणाइएसु त्ति) सूत्रार्थाऽऽदिष्विति। इदमेव लिङ्गाऽऽदिभिर्निरूपयन्नाहनिरपेक्षप्रवृत्त्यादि-लिङ्ग मेतदुदाहृतम्। अज्ञानाऽऽवरणापाय,महापायनिबन्धनम्।।३।। निर्गता अपेता अपेक्षा ऐहिकाऽऽमुष्मिकापायशङ्का यस्याः सा तथा निरपेक्षा, प्रवृत्तिः प्रवर्तनमादिर्यस्य निवृत्त्यादेः तन्निरपेक्षप्रवृत्त्यादि, निरपेक्षस्य वा निराशङ्कस्य प्रवृत्त्यादि निरपेक्षप्रवृत्त्यादि, तल्लिङ्ग चित्रं यस्य तन्निरपेक्षप्रवृत्त्यादिलिङ्गम्, एतदनन्तरोदित विषयप्रतिभासं ज्ञानम्, उदाहृतम् आप्तैरुपदिष्टम् / अथ किहेतु-कमिदमित्यत आह-न ज्ञानमज्ञान मिथ्यात्वोदय इति, ते मतिश्रुते, अवधिश्च, नञः कुत्सार्थत्वात्। आह च"अविसेसिया मइ चिय, सम्मद्दिहिस्स सा मइण्णाणं। मइअण्णाणं मिच्छा-दिहिस्स सुयं पि एमेव // 114 // " तथा "सदसदविसेसणाओ, भवहेऊ जहिच्छिओवलंभाओ। णाणफलाभावाओ, मिच्छादिट्ठिस्स अन्नाणं / / 521 / / " (विशे०) तस्याज्ञानस्य मन्यज्ञानाऽऽदिलक्षणस्याऽऽवरणमावृत्तिकारणं कर्म अज्ञानाऽऽवरणं, तस्यापायोऽपगमः क्षयोपशमो यस्मिन् तदज्ञानाऽऽवरणापायं, मत्यज्ञानाऽऽवरणाऽऽदिकर्मक्षयोपशमहेतुकमित्यर्थः / अथवा-अविद्यमानो ज्ञानाऽऽवरणापायो यत्र तत्तथा / अथ किंफलमिदमित्याह-महान्तश्च ते गुरुका अपायाश्च स्वपरगतैहिकाऽऽमुष्मिकप्रत्यपायास्तेषां निबन्धन हेतुर्महापायनिबन्धनम् / इदं च भावतोऽज्ञानमेव, भवति चाज्ञानं महापायनिबन्धनम् / यत आह"अज्ञानं खलु कष्ट, क्रोधाऽऽदिभ्योऽपि सर्वपापेभ्यः / अर्थ हितमहित या, न वेत्ति येनाऽऽवृतो लोकः // 1 // " अथ द्वितीयज्ञाननिरूपणायाऽऽहपाताऽऽदिपरतन्त्रस्य, तद्दोषाऽऽदावसंशयम्। अनर्थाऽऽद्याप्तियुक्तं चाऽऽत्मपरिणतिमन्मतम्॥॥ पातोऽधःपतनम्, आदिर्यस्य ऊर्द्धतिर्यगाकर्षणविपरीतशिक्षाऽश्वोद्वहनाऽऽदेःतत्पाताऽऽदि, तेन तस्य वा परतन्त्रः पराऽऽयत्तः, पाताऽऽदिपरतन्त्र इव पाताऽऽदिपरतन्त्रः, तस्य विषयकषायाऽऽ-- दिवशीकृतस्य देहिनः, तस्मिन् पाताऽऽदौ यो दोषोऽङ्गभङ्गमरणाऽऽदिलक्षणः स आदिर्यस्य रूतोत्करमृदुस्पर्शाऽऽदिगुणस्य स तथा, तत्र दोषाऽऽदौ, दार्शन्तिकेतु कर्मबन्धदुर्गत्यादिदोषे गुणे च अभ्युदयाऽऽदौ ज्ञेयेऽसंशयम्, उपलक्षणमेतत्-अविद्यमानसंदेहविपर्यय विलीनमोहग्रन्थित्वेन यथावन्निश्चयस्य स्वरूपमित्यर्थः / अनर्थोऽपायोऽङ्गभङ्गाऽऽदिरादिर्यस्य सुखस्पर्शाऽऽदेरर्थस्य तथा तस्याऽऽप्तिः प्राप्तिः तया युक्तम् अन्वितम् अनर्थाऽऽद्याप्तियुक्तम् / इह च यद्यपि पुरुषस्यैवानर्थाऽsद्याभियोगस्तथाऽपि ज्ञानाव्यतिरिक्तत्वात्तस्याज्ञानमेवानर्थाऽऽद्याप्तियुक्तमुक्तम्, दार्शन्तिके त्वनाऽऽद्याप्तिः कर्मबन्धदुर्गतिगमनपरम्परावर्गाऽऽगमनरूपाऽवगन्तव्या, चशब्दो विशेषणान्तरसमुच्चयार्थः / तदेवंविधज्ञानमात्मपरिणतिमत् प्रतिपादितं निर्वचन मतमभिमतमध्यात्मतत्त्वविदुषामिति / इह च संवादगाथे"भिन्ने उतए नाणं, जहऽक्खरयणेसुतग्गयं चेव। पडिबंधम्मि वि सद्धाऽऽइभावओ सम्मरूवं तु // 1 // " भिन्ने तु, कस्मिन्? मोहग्रन्थावित्यर्थः / (तग्गयं चेव त्ति) अक्षे अक्षगतमेव, रत्ने रत्नगतमेव, प्रतिबन्धेऽपि सदनुष्ठानव्याघातेऽपीत्यर्थः / "जमिणं असप्पवित्ती-इ दव्वओ संगयं पि नियमेण। होइ फलंग असुहाणुबंधवोच्छेयभावाओ॥१॥" इति। एतदेव लिङ्गाऽऽदिभिर्निरूपयन्नाहतथाविधप्रवृत्त्यादि-व्यङ्ग्यं सदनुबन्धि च। ज्ञानाऽऽवरणहासोत्थं,प्रायो वैराग्यकारणम्॥५॥ तथा तत्प्रकारा विधा स्वरूपं यस्याः सा तथाविधा-"हियए जिणाण आणा, चरियं मह एरिसं अओऽन्नस्स / एयं आलप्पालं, अव्वो ! दूर विसंवयइ / / 1 / / " इत्यादिभावनया असंक्लिष्टा चासौ प्रवृत्तिश्च हिंसाऽऽदिषु वर्तन तथाविधप्रवृत्तिः, स आदिर्यस्य निवृत्तिप्राप्त्यादेः तत्तथाविधप्रवृत्त्यादि, तेन व्यज्यते व्यक्तीक्रियते यत्तत्तथाविधप्रवृत्त्यादिव्यङ्गय; तथा सन्शोभतोऽनुबन्धः परम्परया मो--