________________ णाणगुण 1986 - अभिधानराजेन्द्रः - भाग 4 णाणणय णाणगुण पुं०(ज्ञानगुण) जीवाऽऽश्रिते ज्ञा तदविनाभाविनि पर्याय ज्ञानमाहात्म्ये, आव०४ अ० णाणचासायणा स्त्री०(ज्ञानात्याशातना) ज्ञानस्य ज्ञानिनां वा हील नायाम, भ०८ श०६उ० णाणजोग पुं०(ज्ञानयोग) ज्ञानमेव योगः कौशलं ब्रह्मप्राप्त्युपायो वा। ब्रह्मलाभोपाये निष्ठाभेदे, वाच० अष्ट०। जाणट्ठया स्त्री०(ज्ञानार्थता)ज्ञानमेवार्थो यस्य स ज्ञानार्थस्तद्धावस्तत्ता। ज्ञानार्थित्वे, स्था०५ ठा०२उ०। णाणड्ड त्रि०(ज्ञानाढ्य) बह्वागमे, जीवा०१६ अधि०। णाणड्डि स्त्री०(ज्ञानर्द्धि) "पभूणं भंते! चोद्दसपुव्वी।''तथा-"ज अन्नाणी कम्म" इत्यादिरूपायामृद्धौ, दश०३ अ०॥ णाणणय पुं०(ज्ञाननय) ज्ञानमेव प्रधानमैहिकाऽऽमुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वादिति सिद्धान्तव्यवस्थिते नये, आव०६ अ०। सम्मा एतन्मतं यथाइह केचिज ज्ञानादेव मोक्षमास्थिपत। तथाह्येते ब्रुवतेसव्यग्-ज्ञानमेव फलसंपादनप्रत्यलं, न क्रिया; अन्यथा मिथ्याज्ञानादपि क्रियायां फलोत्पादप्रसङ्गात्। यदुक्तम्"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् / / 126 / / "(नयो०) तथा"श्रियः प्रसूते विपदो रुणद्धि, यशांसि दुग्धे मलिनं प्रमार्टि। संस्कारशौचेन परं पुनीते,शुद्धा हि बुद्धिः कुलकामधेनुः / / 1 / / '' रत्ना०७परि० इह कश्चिद् ज्ञानमेव प्रधानमपवर्गबीजमिच्छति; यतः किल एवभागमः"जं अन्नाणी कम्म, खवेइ बहुआहिँ वासकोडीहिं। त नाणी तेहिं ती, खवेइ ऊसासमित्तेणं / / 1 / / " तथा"सूई जहा ससुत्ता, न नस्सई कयवरम्मि पडिआ वि। जीवो तहा ससुत्तो, न नस्सइ गओ वि संसारे ॥शा" तथा"नाणं गिण्हइ नाणं, मुणेइ नाणेण कुणइ किचाई। भवसंसारसमुह, नाणी नाणट्टिओ तरइ // 3 // " तस्माद् ज्ञानमेव प्रधानमपवर्गप्राप्तिकारणमतो ज्ञानिन एव कृतिकर्म / कार्यम्। अथाऽनन्तरगाथायामेव द्रव्यभावसमायोगे श्रमण उक्तः। तस्य च कृतिकर्म कार्यमित्युक्तम्। "चरणं च भावो वर्तते" इत्युक्ते सत्याहकाम वरणं भावो, तं पुण नाणसहिओ समाणे इ ("समापेः समाणः" ||84142|| समाप्नोतेः समाण आदेशो या। 'समाणइ। सनावेई') न य नाणं तु न भावो, तेन र नाणिं पणिवयामो॥७१।। काममनुमतमिदं यदुत चरणं चारित्रं भावो भावशब्दो भावलिङ्गी- पलक्षणार्थः / तत्पुननिसहितो ज्ञानयुक्तः समापयति निष्ठां नयति, यतः-इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधान, न च ज्ञानं तु न भावः, भाव एव भावलिङ्गान्तर्गतमिति भावना, तेन कारणेन 'र' इति निपातः पूरणार्थः। ज्ञानमस्यास्तीति ज्ञानी, तं ज्ञानिन, प्रणमामः पूजयामः / इति गाथाऽर्थः 71|| यतश्च बाह्यकरणसहितस्याप्यज्ञानिनश्चरणभाव एवोक्तःतम्हा न बज्झकरणं, मज्झ पमाणं न यावि चारित्तं / नाणं मज्झ पमाणं, नाणे च ठियं जओ तित्थं / / 72 / / तस्मान्न बाह्यकरणं पिण्डविशुद्ध्यादिकं मम प्रमाणम्, न चापि चारित्रं व्रतलक्षणं, तज्ज्ञानाभावे तस्याप्यभावात्। अतो ज्ञानं मम प्रमाणं, सति तस्मॅिश्वरणस्याऽपि भावात, ज्ञाने च स्थितं यतस्तीर्थ, तस्याऽऽगमरूपत्वात्। इति गाथाऽर्थः // 72 // किश्च दर्शन भावयिष्यते, "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति वचनात् / तच दर्शनं द्विधा-अधिगमजम्, नैसर्गिक च / इदमपि ज्ञानाऽऽयत्तोदयमेव वर्तते / तथा चाऽऽहनाऊण य सम्भावं, अहिगमसम्म पि होइ जीवस्स। जाइस्सरणनिसग्गुग्गया विन निरागमा दिट्ठी॥७३।। ज्ञात्वा च अवगम्य च सद्भावं सतां भावः सद्भावः, तं, सन्तो जीवाऽऽदयः किमधिगमाद् जीवाऽऽदिपदार्थपरिच्छेदलक्षणात्, सम्यक्त्वं श्रद्धानलक्षणम्, अधिगमसम्यक्त्वम्, इदमधिगमसम्यक्त्वमपि अपिशब्दात् चारित्रमपि, भवति जीवस्य जायते आत्मन इत्यर्थः / नैसर्गिकमाश्रित्याऽऽह-जातिस्मरणात्सकाशान्निसर्गेण स्वभावेनोद्गता संभूता जातिरमरणनिसर्गोद्रता, असावपि न निरागमा नागमरहिता, दृष्टिः, दर्शनं दृष्टिरिति, यतः स्वयंभूरमणमत्स्याऽऽदीनामपिजिनप्रतिमाऽऽद्याकारमत्स्यदर्शनाद् जातिमनुस्मृत्य भूतार्थालोकनपराणामेव नैसर्गिकं सम्यक्त्वमुपजायते, भूतार्था लोकनं च ज्ञानं, तस्मादिदमपि ज्ञानाऽऽयत्तोदयमिति कृत्वा ज्ञानस्य प्राधान्याद् ज्ञानिन एव कृतिकर्म कार्यमिति स्थित-मयं गाथाऽर्थः // 73 // इत्थं ज्ञानवादिनोक्ते सत्याहाऽऽचार्यःनाणं विसए निययं, न नाणमित्तेण कञ्जनिप्फत्ती। मग्गन्नू दिटुंतो, होइ सचिट्ठो अचिट्ठो अ॥७॥ ज्ञानं प्रक्रान्तं स्वविषये नियतं 2 स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतो न ज्ञानमात्रेण कार्यनिष्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः। अत्रार्थे मार्गज्ञदृष्टान्तो भवति, सचेष्टः सव्यापारः, अचेष्टश्च अविद्यमानचेष्टश्च / एतदुक्तं भवति-यथा कश्चित् पाटलिपुत्राऽऽदिमार्गज्ञो जिगमिषुश्चेष्टदेशप्राप्शिलक्षणं कार्य गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसाऽपि कालेन तत्प्रभावादेवैवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यतएव तत्प्राप्तिलक्षणं कार्य साधयति, नानुद्यतो ज्ञानप्रभावादेव, तस्मादलं संयमरहितेन ज्ञानेन / इति गाथाहृदयार्थः / / 74 / / प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधित्सुराहआउज्जनट्टकुसला, वि नट्टिआ तं जणं न तोसेइ। जोगं अजुजमाणी, निंदं खिंसं च सा लहइ / / 7 / / आतोद्यानि मृदङ्गाऽऽदीनि, नृत्तं करचरणनयनाऽऽदिविशिष्टपरिस्पन्दविशेषलक्षणम्, आतोद्यैः करणभूतैः नृत्तमातोद्यनृत्तं, तस्मिन् कुशला निपुणा आतोद्यनृत्तकुशला, असावपि नर्तकी,