________________ णाण 1976 - अभिधानराजेन्द्रः - भाग 4 णाण (तस्स अलद्धियाणं ति) तस्य ज्ञानस्य अलब्धिका अलब्धिमन्तो, ज्ञानलब्धिरहिता इत्यर्थः / (आभिणिबोहियणाणेत्यादि) आभिनिबोधिकज्ञानलब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो नास्त्याभिनिबोधिकज्ञानमिति / मतिज्ञान स्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनः, ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञान यवन्तो वा; एवं श्रुतेऽपि / (ओहिणाणलद्धीत्यादि) अवधिज्ञानलब्धिकाः त्रिज्ञानाः, केवलमन पर्यायसद्भावे चतुर्माना वा; केवलाभावात्, अवधिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञाना मतिश्रुतभावात्, त्रिज्ञाना वा मतिश्रुतमनः पर्यायभावात्, एकज्ञाना वा केवलभावात्। ये त्वज्ञानिनस्तेद्व्यज्ञाना मत्यज्ञानश्रुताज्ञानभावात्, त्र्यज्ञाना वा त्रयस्यापि भावात। (मणपजवेत्यादि) मनःपर्यवज्ञानलब्धिकाविज्ञानाः, अवधि केवलाभावात्, चतुर्माना वा केवलस्यैवाभावात् / मनःपर्यवज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञानाः, आद्यद्वयभावात्, त्रिज्ञाना वा आद्यत्रयभावात्, एकज्ञाना वा केवलस्यैव भावात्, ये त्वज्ञानिनः ते व्यज्ञाना आद्याज्ञानद्वयभावात्, त्र्यज्ञाना वा अज्ञानत्रयस्यापि भावात्। (केवलनाणेत्यादि) केवलज्ञानलब्धिका एवाज्ञानिनः, ते च केवलज्ञानिन एव, केवलज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्तेषामाद्यज्ञानद्वयं तत्त्रय मतिश्रुतमनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि भवन्ति / ये त्वज्ञानिन–स्तेषामाद्यमज्ञानद्यं, तत्त्रयं वा भवतीत्येवं भजनाऽवसे येति / (अण्णाणलद्धियाणमित्यादि) अज्ञानलब्धिका अज्ञानिनस्तेषां च त्रीण्यज्ञानानि भजनया, द्वे अज्ञाने, त्रीणि वा अज्ञानानीत्यर्थः। अज्ञानालब्धिकास्तु ज्ञानिनस्तेषां च पञ्च ज्ञानानि भजनया पूर्वोपदर्शितया वाच्यानि / (जहा अण्णाणेत्यादि) अज्ञानजब्धिकानां त्रीणि अज्ञनानि भजनयोक्तानि, मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव / तथा अज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि, मत्यज्ञानश्रुताज्ञानलब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानीति / (विभंगेत्यादि) विभङ्गज्ञानलब्धिकानां तु त्रीण्यज्ञानानि नियमात्, तदलब्धिकानां ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति / (दसणलद्धीत्यादि) दर्शनलब्धिकाः श्रद्धानमात्रलब्धिका इत्यर्थः, तेच सम्यक् श्रद्धानवन्तो ज्ञाननः, तदितरे त्वज्ञानिनः, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति।(तस्स अलद्धिया नस्थि त्ति) तस्य दर्शनस्य येषामलब्धिः, ते न सन्त्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति / (सम्मईसणलद्धियाणं ति) सम्यग्दृष्टीनाम् / (तस्स अलद्धियाणमित्यादि) तस्यालब्धिकानां सम्यग् दर्शनस्यालब्धिमतां मिथ्यादृष्टीनां मिश्रदृष्टीनां च त्रीण्यज्ञानानि भजनया, यतो मिश्रदृष्टीनामप्यज्ञानमेव तात्त्विकसदोधाहेतुत्वाद् मिश्रस्येति / (मिच्छादसणलद्धियाण ति) मिथ्यादृष्टीनाम् / (तस्स अलद्धियाणमित्यादि) तस्यालब्धिकानां मिथ्यादर्शनस्यालब्धिमता सम्यग्दृष्टीनां मिश्रदृष्टीनां च क्रमेण पञ्च ज्ञानानि, त्रीण्यज्ञानानि च भजनवेति / भ०८ श०२ उ०। (निर्ग्रन्थाना 'णिग्गथ' शब्द तथा संयतानां संजय' शब्दे / वक्तव्यता) चरित्तलद्धियाणं भंते ! जीवा किंणाणी, अण्णाणी? गोयमा! पंच नाणाई भयणाए, तस्स अलद्धिआणं मणपञ्जवणाणवजाई चत्तारि नाणाई, तिण्णि अण्णाणाई भयणाए / सामाइयचरित्तलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी ? गोयमा! चत्तारिणाणाई भयणाए, तस्स अलद्धियाणं पंच नाणाई, तिपिण्ण य अण्णाणाई भयणाए / एवं जहा सामाइयचरित्तलद्धिया अलद्धिया य भणिया एवं०जाव अहक्खायचरित्तलद्धिया अलद्धिया य भाणियव्वा, नवरं अहक्खायचरित्तलद्धियाणं पंच नाणाई भयणाए। चरित्ताचरित्तलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी? गोयमा! नाणी, नो अण्णाणी, अत्थेगइया दुनाणी, अत्थेगइया तिण्णाणी, जे दुनाणी, ते आमिणिबोहियणाणी, सुयणाणी याजे तिण्णाणी, ते आभिणिबोहियणाणी य, सुयणाणी य, ओहिणाणी य / तस्स अलद्धियाणं पंच नाणाई, तिण्णि अण्णाणाई भयणाए। (चरित्तलद्धियाणमित्यादि) चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री, चरित्रलब्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनया भवन्ति, कथमसंयतत्थे आद्यं ज्ञानद्वयं, तत्त्रयं वा; सिद्धत्वे च केवलज्ञानं, सिद्धानामपि चरित्रलब्धिशून्यत्वात्, यतस्ते नो चरित्रिणो नोऽचरित्रिण इति / ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया। (सामाइयेत्यादि) सामायिकचरित्रलब्धिका ज्ञानिन एव, तेषां च केवलज्ञानवर्जानि चत्वारि ज्ञानानि भजनया, सामायिकचरित्रालब्धिकास्तु ये ज्ञानिनः तेषां पञ्च ज्ञानानि भजनया छेदोपस्थापनीयाऽऽदिभावेन, सिद्धभावेन वा;ये त्वज्ञानिनः तेषां त्रीण्यज्ञानानि भजनया, एवं छेदोपस्थापनीयाऽऽदिष्वपि वाच्यम्। एतदेवाऽऽह-(एवमित्यादि) तत्र छेदोपस्थापनीयाऽऽदि चरित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाऽऽद्यानि चत्वारि ज्ञानानि भजनया, तदलब्धयो यथाख्यातचरित्रालब्धयश्च ये ज्ञानिनः, तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, यथाऽऽख्यातचरित्रलब्धिकानां तु विशेषोऽन्ति, अतः तद्दर्शनायाऽऽह-(नवरमहक्खायेत्यादि) सामायिकाऽऽदिचरित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्यव ज्ञानानि भजनया, यथाख्यातचरित्रलब्धिमतां छद्मस्थेतरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तानि उक्तानीति / "चरित्ताचरित्त" इत्यादौ (तस्स अलद्धिय त्ति) चरित्राचरित्रस्यालब्धिकाः श्रावकादन्ये ते च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव। दाणलद्धियाणं पंच णाणाई, तिण्णि अण्णाणाई भयणाए। तस्स अलद्धियाणं पुच्छा? गोयमा ! नाणी, नो अन्नाणी णियमा एगणाणी के क्लणाणी / एवं०जाव वीरियलद्धिया, अलद्धिया भाणियव्वा / बालवीरियलद्धियाणं तिण्णि णाणाई, तिणि अण्णाणाइं भयणाए / तस्स अलद्धियाणं पंच नाणाई भयणाए / पंडि यवीरियलद्धियाणं