________________ णाण 1974 - अभिधानराजेन्द्रः - भाग 4 णाण निनस्तेऽसज्ञिभ्य उत्पद्यमाना व्यज्ञानिनोऽपर्याप्तकत्वे विभङ्गस्याभावात्, संज्ञिभ्य उपद्यमानास्तु यज्ञानिनो भवप्रत्ययविभङ्गस्य / सद्भावात्, अतस्तेषां नारकाणामिवोच्यते-"तिण्णि अन्नाणाई भयणाए त्ति' (सिद्धगइयाणं इत्यादि) यथा सिद्धाः केवलज्ञानिन एव, एवं सिद्धिगतिका अपि वाच्या इति भावः। यद्यपि च सिद्धानां सिद्धिगतिकाना चान्तर्गत्यभावाद् न विशेषोऽस्ति, तथाऽपीह गतिद्वारबलाऽऽयातत्वात् तेदर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्तर्भावेऽपि तत्तद्विशेषापेक्षयाsपौनरुक्त्यं भावनीयमिति। (27) अथेन्द्रियद्वारेसइंदियाणं भंते! जीवा किंणाणी,अण्णाणी? गोयमा! चत्तारि नाणाई तिण्णि अण्णाणाई भयणाए। एगिदिया णं भंते! जीवा किं णाणी, किं अण्णाणी? जहा पुढ विकाइया / वेइंदियतेइंदियचउरिदियाणं दो णाणा, दो अण्णाणा नियमा।पंचिंदिया जहा सइंदिया / अणिंदियाणं भंते ! जीवा किं णाणी, किं / अण्णाणी? जहा सिद्धा॥ (सइंदियेत्यादि) सेन्द्रिया इन्द्रियोपयोगवन्तः, ते च ज्ञानिनः, अज्ञानिनश्च / तत्र ज्ञानिनां चत्वारि, ज्ञानानि भजनया, स्याद् द्वे, स्यात् त्रीणि, स्यात् चत्वारि। केवलज्ञानं तु नास्ति, तेषामतीन्द्रियज्ञानत्वात्, तस्य द्वयादिभावश्च ज्ञानानां लब्ध्यपेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम्। अज्ञानिनांतुत्रीण्यज्ञानानि भजनयैव, स्याद् द्वे, स्यात् त्रीणीति / (जहा पुढविकाइय त्ति) एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनः, ते च व्यज्ञाना एवेत्यर्थः। (वेइंदियेत्यादि) एषां द्वे ज्ञाने सासादनस्तेषूत्पद्यत इति कृत्वा सासादनश्चोत्कृष्टतः षडावलिकामानः, अतो द्वे ज्ञाने तेषु लभ्येते इति / (अणिदिय त्ति) केवलिनः। (28) कायद्वारेसकाइयाणं भंते ! जीवा किं णाणी, अण्णाणी? गोयमा ! पंच नाणाई, तिण्णि अण्णाणाई भयणाए / पुढविकाइया०जाव वणस्सइकाइया, नो नाणी, अण्णाणी, नियमा दुअण्णाणी। तं जहा-मइअण्णाणी य, सुयअण्णाणी य / तसकाइया जहा सकाइया। अकाइयाणं भंते ! जीवा किं णाणी, किं अण्णाणी? जहा सिद्धा॥ (सकाइयाणमित्यादि) सह काये नौदारिकाऽऽदिना शरीरेण पृथिव्यादिषट्कायान्यतरेण वा कायेन येते सकायास्त एव सकायिकाः; ते च केवलिनोऽपि स्युरिति सकायिकानां सम्यग्दृशां पञ्च ज्ञानानि, मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया स्युरिति / (अकाइयाणं ति) नास्ति काय उक्तलक्षणो येषांह तेऽकायाः,त एवाकायिकाः सिद्धाः। (26) सूक्ष्मद्वारेसुहमाणं भंते ! जीवा किं णाणी, किं अण्णाणी? जहा पुढविकाइया। बादराणं भंते ! जीवा किं णाणी, किं अण्णाणी? जहा सकाइया / नो सुहुमा नो बादरा णं भंते ! जीवा ? जहा सिद्धा। (जहा पुढविकाइया ति)द्व्यज्ञानिनः सूक्ष्माः, मिथ्यादृष्टित्वादित्यर्थः / (जहा सकाइय त्ति) बादराः के वलिनोऽपि भवन्तीति कृत्वा ते सकायिकवद्भजनया पञ्च ज्ञानिनस्त्र्यज्ञानिनश्च वाच्या इति। (30) पर्याप्तकद्वारेपज्जत्ताणं भंते ! जीवा किं णाणी, किं अण्णाणी? जहा सकाइया। पज्जत्ता णं भंते ! नेरइया किं णाणी, किं अण्णाणी? तिण्णि नाणा, तिण्णि य अण्णाणा नियमा जहा नेरइया, एवं० जाव थणियकुमारा / पुढविकाइया जहा एगिदिया, एवं०जाव चउरिदिया / पज्जत्ताणं भंते ! पंचिंदियतिरिक्खजोणिया किं णाणी, किं अण्णाणी? तिण्णि णाणा, तिणि अण्णाणा भयणाए, मणुस्सा जहा सकाइया वाणमंतरजोइसियवेमाणिया जहा नेरइया / अपजत्ताणं भंते ! जीवा किं णाणी, किं अण्णाणी? तिणि णाणा, तिण्णि अण्णाणा भयणाए / अपज्जत्ता णं भंते ! नेरइया किं णाणी, किं अण्णाणी? तिण्णि णाणा नियमा, तिणि अण्णाणा भयणाए, एवं०जाव थणिय-कु मारा, पुढविकाइया०जाव वणस्सइकाइया,जहा एगिदिया वेइंदियाणं पुच्छा? दो णाणा, दो अण्णाणा नियमा, एवं०जाव पंचिंदियतिरिक्खजोणियाणं अपजत्तगाणं भंते ! मणुस्सा किं णाणी, किं अण्णाणी? तिण्णि नाणाइं भयणाए, दो अण्णाणाई नियमा। वाणमंतरा जहा नेरइया अपज्जत्तगा, जोइसियवेमाणियाणं तिणि नाणा, तिणि अण्णाणा नियमा। नो पज्जत्तगा, नो अपजत्तगाणं भंते ! जीवा किं णाणी, किं अण्णाणी? जहा सिद्धा॥ (जहा सकाइय त्ति) पर्याप्तकाः केवलिनोऽपि स्युरिति ते सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः, पर्याप्तकद्वार एव चतुर्विशतिदण्डके पर्याप्तकनारकाणां (तिन्नि य अन्नाणा णियम ति) अपर्याप्तकानामेवासंज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति / (एवं०जाव चउरिदिय त्ति) द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तकाः, द्वयज्ञानिन एवेत्यर्थः / (पञ्जत्ता णं भंते! पंचिंदियतिरिक्खेत्यादि) पर्याप्तक पञ्चेन्द्रियतिरश्चामवधिर्विभङ्गो वा केषाञ्चित् स्यात्, केषाञ्चित्पुनर्नेति त्रीणि ज्ञानानि, अज्ञानानि वा द्वे वा ज्ञाने अज्ञाने वा तेषां स्यातामिति / (वेइंदियाणं दो णाणेत्यादि) अपर्याप्तकद्वीन्द्रियाऽऽदीना केषाञ्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वे ज्ञाने, केषाञ्चित् पुनः तस्यासद्भावाद् द्वे एवाज्ञाने, अपर्याप्तकमनुष्याणां पुनः सम्यग्दृशामवधिभावे त्रीणि ज्ञानानि, यथा तीर्थकराणां, तदभावे तु द्वे ज्ञाने, मिथ्यादृशां तु द्वे एवाज्ञाने, विभङ्ग स्यापर्याप्तकत्वे तेषामभावात् / अत एवोक्तम्-(तिण्णि नाणाई भयणाए, दो अण्णाणाई नियम त्ति)(वाणमंतरेत्यादि) व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना व्यज्ञानास्यज्ञाना वा वाच्याः / तेष्वण्यसंज्ञिभ्य उत्पद्यमानानामपर्याप्तकानां विभङ्गाभावात, शेषाणां चावधोर्विभङ्गस्यवाभावात्। (जोइसियेत्यादि) एतेषुहि संज्ञिभ्यएवोत्पद्यन्ते,