________________ णाण 1972 - अभिधानराजेन्द्रः - भाग 4 णाण पशकस्यैकज्ञानावभासोऽपि क्रमावभासे सत्यपि तत एव क्रमप्र- | तिभासानुपलक्षणकृत इति सदसद्वर्गः सर्वः कस्यचिदेकज्ञानप्रत्यक्ष: प्रमेयत्वात् पञ्चाङ्गुलिवदिति सर्वज्ञसाधकप्रयोगे दृष्टान्तस्य साध्यविकलताप्रसक्तिः / तथा समस्तसदसद्वर्गग्राहकेण सर्वविद्- ज्ञानेन ज्ञानाऽऽत्मा गृह्यते, उत नेति? यदि न गृह्यते, तदा तस्य प्रमेयत्वे सति तेनैव प्रमेयत्वलक्षणो हेतुर्व्यभिचारी, अप्रमेयत्वे तस्य भागासिद्धो हेतुः / अथ सर्वज्ञज्ञानेन सर्वपदार्थग्राहिणा आत्माऽपि गृह्यत इति नानैकान्तिकः / नन्वेवं सति यथा ईश्वरज्ञानं ज्ञानत्वेऽप्यात्मानं स्वयं गृह्णाति, न च तत्र स्वात्मनि क्रियाविरोधः, तथाऽस्मदादिज्ञानमप्येवं भविष्यतीति न कश्चिद् विरोधः / किञ्चएवमभ्युपगमे ज्ञानं ज्ञानान्तरग्राह्यं प्रमेयत्वाद् घटवदित्यत्र प्रयोगे ईश्वरज्ञानस्य प्रमेयत्वे सत्यपि ज्ञानान्तरग्राह्यत्वाभावात् तेनैवा नैकान्तिकः प्रमेयत्वादिति हेतुः / तस्मात् ज्ञानस्य ज्ञानान्तरग्रा-ह्यत्वेऽनेकदोषसंभवात स्वसंविदितं ज्ञानमभ्युपगन्तव्यम। ज्ञानस्वरूपश्वाऽऽत्मा / अन्यथा भिन्नज्ञानसद्भावादाकाशस्येव तस्य ज्ञातृत्वं न स्यात्। न चाऽऽकाशव्यतिरेकेण ज्ञानमात्मन्येव समवेतमिति तस्यैव ज्ञातृत्वं नाऽऽकाशाऽऽदेरिति वक्तुं युक्तम्, समवायस्य निषेत्स्यमानत्वात् / ज्ञानस्य च स्वसंविदितत्वे सिद्धे आत्मनोऽपि तदव्यतिरिक्तस्य तत्सिद्धमिति कथं न स्वसंवेदन-प्रत्यक्षसिद्धत्वमात्मनः? तन्न प्रथमपक्षस्य दुष्टत्वम्। द्वितीयपक्षे–ऽपि यदुक्तम्- नहि कश्चित्पदार्थः कर्तृरूपः, करणरूपो वा स्वा–ऽऽत्मनिकर्मणीव सव्यापारो दृष्ट इति। तदप्यसङ्गतम्। भिन्नव्या-पारव्यतिरेकेणापि आत्मनः कर्तुः, प्रमाणस्य च ज्ञानस्य स्वसंवि-दितत्वप्रतिपादनात् / एकस्यैव च लिङ्गाऽऽदिकरणमपेक्ष्यावस्थाभेदेन यथा प्रमातृत्व, प्रमेयत्वं च भवद्भिरविरुद्धत्वेनाभ्युपगम्यते, तथैकदाऽप्येकस्याऽऽत्मनोऽनेकधर्म सद्भावात् प्रमातृत्वप्रमाण-त्वप्रमेयत्वान्यविरुद्धानि किं नाभ्युपगम्यते? तत्तद्धर्भयोगात्तत्तत्स्वभावत्वस्य प्रमाणनिश्चितत्वेनाविरोधात् / यत्रोक्तम्-प्रमाणाविषयत्वेऽप्यपरोक्षतेत्यस्यकोऽर्थ इत्यादि। तदप्यसारम् / ज्ञातृतया प्रमाणत्वेन च स्वरूपावभासनस्य प्रतिपादितत्वातानच घटाऽऽदेः स्वरूपस्य भिन्नज्ञानग्राह्यत्वात प्रमातः, प्रमाणस्य च स्वरूपं भिन्नज्ञानग्राह्यम् / तयोश्चिद्रूपत्वेन घटाऽऽदेस्तु तद्विपर्ययेण स्वरूपसिद्धत्वात् / न च प्रमाणप्रमातृस्वरूपग्राहकस्य प्रत्यक्षस्य तल्लक्षणेनासंग्रहः, तत्संग्राहकस्यलक्षणस्य प्रदर्शितत्वात्। यदपि घटमहं चक्षुषा पश्यामीत्यनेनातिप्रसङ्गाऽऽपादनं कृतम्। तदप्यसङ्गतम्। न हि चक्षुषो जडरूपस्यास्वसंविदितत्वे प्रमातृप्रामत्यो-रपि चिद्रूपयोरस्वसंविदितत्वं युक्तम्, अन्यस्वभावत्वानुपपत्तेः / यत्तूक्तम्इन्द्रियव्यापारे सति शरीराद व्यवच्छिन्नस्य विषयस्यैव केवलस्या:वभासनमिति / तदत्यन्तमसङ्गतम् / विषयस्येव तदवभाससंवेदनस्यापि व्यवस्थापितत्वात्, तदभावे विषयावभास एव न स्यादित्यस्य चातः प्रमात्रवभास उपपन्न एव / सम्म०१ काण्ड। स्था०! (22) साम्प्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टानाम, एकाऽऽत्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां च यौगानां मतं विकुट्टयन्नाह'स्वार्थावबोधक्षम एव बोधः, प्रकाशते मार्थकथाऽन्यथा तु। परे परेभ्यो भयतस्तथाऽपि, प्रपेदिरे ज्ञानमनात्मनिष्ठम् // 12 // बोधो-ज्ञानं, स च स्वार्थावबोधक्षम एव प्रकाशते, स्वस्याऽऽत्मस्वरूपस्य, अर्थस्य च पदार्थस्य, योऽवबोधः-परिच्छेदः, तत्र क्षम एवसमर्थ एव प्रतिभासते : इत्ययोगव्यवच्छेदः / प्रकाशत इति क्रिययाऽवबोधस्य प्रकाशरूपत्वसिद्धेसर्वप्रकाशानां तु स्वार्थप्रका-- शकत्वेन, बोधस्यापि तत्सिद्धिः। विपर्यये दूषणमाह-नार्थकथा-ऽन्यथा त्विति / अन्यथेति-अर्थप्रकाशनेऽविवादाद, ज्ञानस्य स्वसंविदितत्वानभ्युपगमेऽर्थकथैव न स्यात्। अर्थकथा पदार्थसंब-धिनी वार्ता, सदसद्रूपाऽऽत्मक स्वरूपमिति यावत् / तुशब्दोऽ-वधारणे भिन्नक्रमश्च, स चार्थकथया सहयोजित एव। यदि हि ज्ञानं स्वसविदितं नेष्यते, तदा तेनाऽऽत्मज्ञानाय ज्ञानान्तरमपेक्षणीयम्, तेनाप्यपरमित्याद्यनवस्था, ततो ज्ञान तावत्स्वावबोध-व्यग्रतामग्रम् ; अर्थस्तु-जडतया स्वरूपज्ञापनासमर्थ इति को नामार्थस्य कथामपि कथयेत् ? तथाऽपिएवं ज्ञानस्य स्वसंवि-दितत्वे युक्त्या घटमानेऽपि, परेतीर्थान्तरीयाः, ज्ञानं-कर्मताऽऽ-पन्नम्, अनात्मनिष्ठ न विद्यत आत्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्मनिष्ठम्, अस्वसंविदितमित्यर्थः, प्रपेदिरेप्रपन्नाः / कुतः? इत्याह-परेभ्यो भयतः; परेपूर्वपक्षवादिनः, तेभ्यः सकाशाद् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते, स्वात्मनि क्रियाविरोधादित्यु-पालम्भसंभावनासंभवं यद्भयं, तस्मात्, तदाश्रित्येत्यर्थः / इत्थ-मक्षरगमनिकां विधाय भावाऽर्थः प्रपञ्च्यतेभट्टास्तावदिदं वदन्ति यद् ज्ञानं स्वसंविदितं न भवति-स्वात्मनि . क्रियाविरोधात्। न हि सुशिक्षितोऽपि नटवटुःस्वस्कन्धमधिरोदं पटुः, न च सुती-क्षणाऽऽप्यसिधारा स्वेछेत्तुमाहितव्यापारा; ततश्च परोक्षमेव ज्ञानमिति / तदेतन्न सम्यक् / यतः-किमुत्पत्तिः स्वात्मनि विरुध्यते, ज्ञप्तिा? यदि उत्पत्तिः, सा विरुध्यता, न हि वयमपि ज्ञानमात्मानमुत्पादयतीति मन्यामहे। अथ ज्ञप्तिः-नेयमात्मनि विरुद्धा; तदाऽऽत्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात्, प्रकाशाऽऽ-त्मनेव प्रदीपाऽऽलोकस्य / अथ प्रकाशाऽऽत्मैव प्रदीपाऽऽलोक उत्पन्न इति परप्रकाशकोऽस्तु, आत्मानमप्येतावन्मात्रेणैव प्रका-शयतीति कोऽयं न्याय? इति चेत् तत्किं तेन वराकेणाप्रकाशिते-नैव स्थातव्यम्, आलोकान्तराद्वाऽस्य प्रकाशेन भवितव्यम्? प्रथमे प्रत्यक्षबाधो, द्वितीयेऽपि-सैवानवस्थाऽऽपत्तिश्च / अथ नासौ स्वमपेक्ष्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते, आत्मानं न प्रकाशयतीत्यर्थः; प्रकाशरूपतया तूत्पन्नत्वात् स्वयं प्रकाशत एवेति चेचिरं जीवः न हि वयमपि ज्ञानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रूमः; ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् / यथा तु ज्ञानं स्वं जानामीति कर्मतयाऽपि तद्भाति, तथा प्रदीपः स्वं प्रकाशयतीत्ययमपि कर्मतया प्रथित एव। यस्तु स्वात्मनि क्रियाविरोधो दोष उद्भावितःसोऽयुक्तः अनुभवसिद्धे-ऽर्थे विरोधासिद्धेः 'घटमहं जानामि' इत्यादी कर्तृकर्मवद्ज्ञप्तेरप्यवभासमानत्वात्। स्या०१२ श्लोक। (अतीन्द्रियान् धर्मा-स्तिकायाऽऽदीन् छद्मस्थो न जानातीति 'छउमत्थ' शब्दे तृतीयभागे 1336 पृष्टे उक्तम्) (23) अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाहजीवा णं भंते ! किं णाणी, किं अण्णाणी? गोयमा ! जीवाणाणी वि, अण्णाणी वि। जे णाणी, ते अत्थे