SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ णाण 1971 - अभिधानराजेन्द्रः - भाग 4 णाण मुद्भाति, न तु वेदकः; द्वयोरपि परस्परं ग्राह्यग्राहकताऽऽपत्तेः / अथ नीलोन्मुखत्वाद् बोधो ग्राहकः / किमिदं तदुन्मुखत्वं नाम बोधस्य? यदि नीलकाले सत्ता, सा नीलस्याऽपि तत्काले समस्तीति नीलमपि बोधस्य वेदकं स्यात् / अथान्यदुन्मुखत्वं तत्,तर्हि स्वरूपनिमग्नं चकासत्तृतीयस्वरूपं भवेत्। तथाहि-तस्य तदुन्मुखत्वं तद्व्यापारः। स चव्यापारो यदि नीले व्याप्रियते, तदा तत्राप्यपरो व्यापार इत्यनवस्था। अथ न व्याप्रियते, न तद् बलात् बोधस्य ग्राहकत्वं, नीलाऽऽदेस्तु ग्राहाल्वम् / अथ व्यापारस्याघर-व्यापारव्यतिरेकेणापि नील प्रति व्यापृतिरूपता, तस्य तद्रूपत्वात्। ननु नीलस्यापि स्वं स्वरूप विद्यत इति बोधं प्रति ग्रहणव्यापृतिः स्यात् / किच-बोधेन यदि नील प्रति ग्रहणक्रिया जन्यते सा नीलाद्भिन्ना, अभिन्ना वा? भिन्ना चेत्, न तया तस्य ग्राह्यत्वम्। भिन्नत्वादेव। अथाभिन्ना, तर्हि नीलाऽऽदेशनिरूपता, ज्ञानजन्यत्वादुत्तरज्ञानक्षणवत्। अथ ज्ञानस्य एवंभूता शक्तिर्येन तस्य नीलं प्रति ग्राहकता, नीलाऽऽदेस्तुतंप्रति ग्राह्यता। ननुबोधस्य ग्राहकत्वे, नीलाऽऽदेस्तु ग्राह्यत्वे सिद्धे शक्तिपरिकल्पना युक्ता, शक्तेः कार्यानुमेयत्वात्। तदसिद्धौ तु तत्परिकल्पनमयुक्तम्, इतरेतराऽऽश्रयप्रसङ्गात्। तथाहि-बोधस्यशक्तिविशेषसिद्धेील प्रति ग्राहकत्वसिद्धिः, तत्सिद्धेश्व तच्छक्तिसिद्धिरिति व्यक्तमितरेतराऽऽश्रयत्वम् तन्न बोधत्य नीलं प्रति ग्राहकत्वसिद्धिः / तस्माद् व्यतिरिक्तऽपि बोधेऽभ्युपगते सहोपलम्भनियमात् स्वसंवेदनमेव युक्तम्। परमार्थतसतु सुखाऽऽदयो नीलाऽऽदयवापरोक्षा इत्येतावदेव भाति। निराकारस्तु बोधः स्वप्नेऽपि नोपलभ्यत इति नतस्य सद्भाव इति कथं तस्यार्थग्राहकत्वम् ? अत एव ते प्रमाणयन्ति-इह खलु यत् प्रतिभाति, तदेव सद्व्य वहृतिपशमवतरति, यथा हृदि प्रकाशमानवपुः सुखं, न तत्काले पीडाऽनुद्भासमाना समस्ति, विज्ञप्तिरेव च नीलाऽऽदिरूपतया सकलतनुभृतामाभातीति स्वभावहेतुः / तदेवमर्थग्राहकत्वस्याप्यसिद्धेः,जडस्य प्रकाशविरुद्धत्याच नार्थग्राहकत्वमपि बौद्धदृष्ट्या युक्तम् / अथ बहिर्देशसंबद्धस्य जडस्यापि नीलाऽऽदेरनुभवाद् न नीलाऽऽदिप्रकाशस्य तद् ग्राहकत्वमसिद्धम्, नाप्यनुभूयमाने स्तम्भाऽऽदिके जड़े प्रकाशविषयत्वविरोधोद्भावनं युक्तिसङ्गतम् / प्रत्यक्षसिद्धे स्वभावे च सति तद्विरुद्धस्वभावाऽऽवेदकस्यानुमानस्य प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तकालात्ययापदिष्टत्वदोषदुष्टहेतुप्रभवत्वेनानुमानाऽऽभासत्वात् / न च प्रत्यक्षसिद्धे स्वभावे विरोधः सिद्ध्यति, अन्यथा ज्ञानस्यापि ज्ञानत्वविरोधप्राप्तिः / नन्येवं नीलाऽऽदिसंवेदनस्याऽपि हृदि स्वसंवेदनविषयतयाऽनुभवादन स्वसंवेदितत्वमसिद्धम्, नापि स्वाऽऽत्मनि क्रियाविरोधोद्धावनं युक्तियुक्तम्, अनुभूयमाने विरोधासिद्धेः / अस्वसंवेदनज्ञानसाधकत्वेनोपन्यस्यमानस्य च हेतोः प्रत्यक्षनिराकृतपक्षविषयत्वेन न साध्यसाधकत्वमित्यपि समानम् / किशस्वसं विदितज्ञानानभ्युपगमे प्रतीयतेऽयमर्थो बहिर्देशसंबन्धितयेत्यत्र प्रतीतेर्व्यवस्थापिकाया अप्रतीतत्वेनाव्यवस्थितौ व्यवस्थाप्यस्यार्थस्यन व्यवस्थितिः स्यात्। न हि स्वयमव्यवस्थितं खरविषाणाऽऽदि कस्यचिद्व्यवस्थापकमुपलब्धम्। अथ प्रतीतेरसंविदितत्वेऽपि एकार्थसमवेतानन्तरप्रतीतिव्यवस्थापितत्वेन नाव्यवस्थितत्व, तर्हि तदेकार्यसमवेतानन्तरप्रतीतेरप्य परतथाभूतप्रतीत्यवस्थापितत्वेनार्थव्यवस्थापनप्रतीतिव्यवस्थापकत्वमिति पुनरपि तथाभूताऽपरा प्रतीतिः प्रतीतिव्यवस्थापिकाऽभ्युपगन्तव्येत्यनवस्था। अथ प्रतीतिव्यवस्थापिका प्रतीतिः स्वसंविदितत्वेन स्वयमेव व्यवस्थितेति नायं दोषः, तॉर्थव्यवस्थापिकाऽपि प्रतीतिः तथा किं नाभ्युपगम्यते? न्यायस्य समानत्वात् / अथ प्रतीतिरप्रतीताऽपि प्रतीत्यन्तरव्यवस्थापिका, तर्हि प्रथमप्रतीतिरप्यव्यवस्थिताऽप्यर्थव्यवस्थापिका भविष्यतीति 'नागृहीतविशेषणा विशेष्ये बुद्धिः' इति वचः कथं न परिप्लवेत् ?; प्रतीतोऽर्थ इति विशेष्यप्रतिपत्तौ प्रतीतिविशेषणानवगमेऽपि विशेष्यप्रतिपत्त्यभ्युपगमात् / अपि च-यदि तदेकार्थसमवेतज्ञानान्तरग्राह्य ज्ञानमर्थग्राहकमभ्युपगम्यते, तदा पूर्वपूर्वज्ञानोपलम्भनस्वभावानामुत्तरोत्तरज्ञानानामनवरतमुत्पत्तेर्विष्यान्तरसंचारो ज्ञानानां न स्यात् : विषयान्तरसन्निधानेऽपि पूर्वज्ञानलक्षणस्य तदेकार्थसमवेतस्यान्तरङ्गत्वेनातिसन्निहिततरस्य विषयस्य सद्भावात्। यस्त्वाह-विषयोपलम्भनिमित्तमात्रप्रतिपत्तौ प्रतीतिविशेषणस्यार्थस्य सिद्धत्वाद् नानवस्था। तदे-तदेव न संगच्छते। स्वसंवेदनज्ञानानभ्युपगमात् / एतच प्रतिपादितम् / अपि च-प्रमाणसंप्लवाऽऽदिना नैयायिके न प्रत्यक्षशाब्दज्ञानयोरेकविषयत्वमभ्युपगतम्, तथा चाध्यक्षज्ञानवत् शाब्देऽपि तस्यैवान्यूनातिरिक्तस्य विषयस्याधिगमे न प्रतिपत्तिभेद इत्यध्यक्षवच्छाब्दमपि स्पष्टप्रतिभासंस्वात्। अथैकविषयत्वे सत्यपि इन्द्रियसंबन्धाभावात् शब्दविषये प्रतिपत्तिभेदः / नन्वक्षैरपि विषयस्वरूपमुद्भासनीयम्। तच यदि शाब्देनापि प्रदर्श्यते, तथा सतीन्द्रियसंबन्धाभावेऽपि किमिति न स्पष्टावभासः शाब्दस्य ? न हि विषयभेदमन्तरेण ज्ञानावभासभेदो युक्तः / अन्यथा ज्ञानावभासभेदाद् विषयभेदव्यवस्था न स्यात् / नहि बहिरपि तदवभासभेद-संवेदनव्यतिरेकेणान्यभेदव्यवस्थानिबन्धनमुत्पश्यामः। अन्य-का प्रत्यक्षेऽपि साक्षादिन्द्रियसंबन्धोऽस्तीतिन स्वरूपेण ज्ञातुं शक्यः। तस्यातीन्द्रियत्वात्, किं तु स्वरूपप्रतिभासात् कार्यात्। तथाविकलं यदि शाब्देऽपि वस्तुस्वरूपं प्रतिभाति, तदा तत एवेन्द्रियसंबन्धस्तत्राऽपि किं नाभ्युपगम्यते? अथ तत्र स्पष्टप्रतिभासाभावाद् नासावनुमीयते / ननु तदभावस्तदक्षसंगतिविरहात्, तदभावश्च स्फुटप्रतिभासाभावादिति सोऽयमितरेतराऽऽश्रयदोषः। तस्माद् विषयभेदनिबन्धन एव ज्ञानप्रतिभासभेदाध्यवसायोऽभ्युपगन्तव्यः। स च एकविषयत्वे शाब्दाऽध्यक्षशानयोर्न संगच्छते। अथ शब्दैर्वस्तुरूपावभासेऽपिनसकलतद्गतविशेषावभास इत्यस्पष्टप्रतिभासं तत् / नन्वेवं प्रत्यक्षावभासिनो विशेषस्यार्थक्रियाक्षमस्य तत्राप्रतिभासनात्तदेव भिन्नविषयत्वंशाब्दाध्यक्षयोः प्रसक्तम्। अथोभयत्रापिव्यक्तिस्वरूपमेकमेवनीलाऽऽदित्वं प्रतिभाति, विशदाविशदौ वाऽऽकारौज्ञानाऽऽत्मभूतौ। नन्वेवमक्षसंबद्धे विषये प्रतिभासमाने तत्कालः स्पष्टत्वावभासो ज्ञानावभास इति प्राप्तम्, विशिष्टसामग्रीजन्यस्य ज्ञानस्य विशदत्वात् / तदवभासव्यतिरेकेण त्वक्षसंबद्धनीलप्रतिभासकालेऽन्यस्य भवदभ्युपगमेन वैशद्यप्रतिभासनिमित्तस्यासंभवात् / अथ भवतु विशदज्ञानप्रतिभासनिमित्त एव तत्र वैशद्यप्रतिभासव्यवहारः, तथाऽपि न स्वसंविदिततज्ज्ञानसिद्धिः, तदेकार्थसमवेतज्ञानान्तरवेद्यत्वेऽपि तद्व्यवहारस्य संभवात्। एककालावभासव्यवहारस्तुलघुवृत्तित्याद्मनसः क्रमानुपलक्षणनिमित्तः, उत्पलपत्रशतव्यतिभेदवत्। नन्वेवं सत्यङ्गुलि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy