________________ णाण 1970 - अभिधानराजेन्द्रः भाग - 4 णाण वस्था / तन्न ग्रहणक्रियाऽपराऽस्ति, तत्स्वरूपानवभासनात्। ततशान्तः संवेदनम् , बहिर्नीलाऽऽदिकं च स्वप्रकाशमेवेति स्वसंवित्तिमात्रवादः साधीयान यदि, तमुन्तर्निलीनो बोधो नीलाऽऽदेर्न बोधकः, किं तु स्वप्रकाश एवाऽसौ / तथा सति नीलमहं वेद्मीति कर्मकर्तृभावाभिनिवेशो प्रत्ययो न भवेत् , विषयस्य कर्मकर्तृभावस्याभावात् / ननु विषयमन्तरेणापि प्रत्ययो दृष्ट एव,यथा शुक्तिकाया रजतावगमः / अथ बाधकोदयात् पुनर्भान्तिरसौ, नीलाऽऽदौ तु कर्मताऽऽदेन बाधाऽस्तीति सत्यता / नन्वत्रापि बोधनीलाऽऽदेः स्वरूपासंसक्तस्य द्वयस्य स्वातन्त्र्योपलम्भोऽस्ति बाधकः कर्मकर्तृभावोल्लेखस्य। अथ किमस्या भ्रान्तेर्निबन्धनम् ? न हि भ्रान्तिरपि नि:जा भवति। ननु पूर्वभ्रान्तिरेवोत्तरकर्मकर्तृभावा-वगतेर्निबन्धनम् / पूर्वभ्रान्तिकर्मताऽऽदेरप्यपरा पूर्वभान्तिरित्यना-दिभ्रान्तिपरम्पराकर्मताऽऽदिर्न तत्त्वम् / अथवा नीलमिति प्रतीतिस्तावन्मात्राध्यवसायिनी पृथग, अहभित्यपि भतिरन्तरुल्लेखमुद्वहन्ती भिन्ना; वेद्यीत्यपि प्रतीतिरपरेव / ततश्च परस्पराससक्त-प्रतीतित्रितयं क्रमवत्प्रतिभाति, न कर्मकर्तृभावः, तुल्यकालयो-स्तस्यायोगात् / भिन्नकालयोरप्यनवभासनादन कर्मताऽऽदि-गतिः कथञ्चित् संभविनी। अथापि दर्शनात्प्राक् सन्नपि नीलाऽऽत्मा न भाति, तदुदयेच भातीति कर्मता तस्य। नैतदपि साधीयः / यतः प्राग्भावोऽर्थस्य न सिद्धः / दर्शनन स्वकालावधेरर्थस्य ग्रहणात्। दर्शनकाले हि नीलमाभाति, न तु ततः प्राक्, तत्कथं पूर्वभावोऽर्थस्य सिध्येत् ? तस्य दर्शनस्य पूर्वकाले विरहात् / न च तत्काले दर्शन प्रागर्थसन्निवि व्यनक्ति, सर्वदा तत्प्रतिभासप्रसङ्गात् / अथान्येन दर्शनेन प्रागर्थः प्रतीयते / ननु तदर्शनादपि प्राग् सद्भावोऽर्थस्यान्येनावसेय इत्यनवस्था। तस्मात्सर्वस्य नीला-ऽऽदेर्दर्शनकाले प्रतिभासनाद् न तत्पूर्व सता सिद्ध्यति / अथापि पूर्वदृष्ट पश्यामीति व्यवसायात् प्रागर्थः सिद्धयति, प्रागर्थसत्ता विना दृश्यमानस्य पूर्वदृष्टन एकत्वगतेरयोगात्। केन पुनरेकत्वं तयोर्गम्यते ? किमिदानीन्तनदर्शनेन, पूर्वदर्शननवा? न तावत्पूर्वदर्श-नेन, तत्र तत्कालावधेरेवार्थस्य प्रतिभासनात्। न हितेन स्वप्रति-भासिनोऽर्थस्य वर्तमानकालदर्शनव्याप्तिरवसीयते, तत्काले सा-म्प्रतिकदर्शनाऽऽदेरभावात्। न चासत्प्रतिभाति, दर्शनस्य वितथत्वप्रसङ्गात् / नापीदानीन्तनदर्शनेन पूर्वदर्शनाऽऽदिव्याप्तिनीलाऽऽदेरवसीयते, तदर्शनकाले पूर्वदृक्कालस्यास्तमयात् / न चास्तमितपूर्वदर्शनाऽऽदिसंस्पर्शमवतरति प्रत्यक्षम, वितयत्वप्रसङ्गा- देव / तस्मादपास्ततत्पूर्वदृगादियोग सर्व वस्तु दृशा गृह्यते, पूर्वदृष्टता तु रम्मृतिरुल्लिखति / तदपास्तम् / दृष्टतोल्लेखाभावात् / न च स एवायमिति प्रतीतिरेका / स इति स्मृतिरूपम् ,अयमिति तु दृशः स्वरूप, तत्परोक्षापरोक्षाऽऽकारत्वाद् नैकस्वभावो प्रत्ययौ; तत्कृतस्तत्त्वसिद्धिः? अथानुमानात्प्राग्भावोऽर्थस्य सिद्ध्यति, प्राक् सतां विना पश्चाद्दर्शनायोगादिति / तदप्यसत् / यतः पश्चाद्दर्शनस्य प्राक् सत्तायाः संबन्धो न सिद्धः, प्राक् सत्तायाः कथश्चिदप्यसिद्धेः। न चासिद्धया सत्तया व्याले पश्चाद्दर्शन सिद्ध्यति: येन ततस्तत्सिद्धिः। अथयदि प्रागर्थमन्तरेण दर्शनमुदयमासादयति, तथा सति नियामकाभावात्सर्वत्र सर्वदा सर्वाऽऽकारं तद्भवेत् / नायमपि दोषः, नियतवासनाप्रबोधेन संवेदननियमात् / तथाहि-स्वप्नावस्थायां वासनाबलाद्दर्शनस्य देशकालाऽऽकारनियमो दृष्ट इति जाग्रद्दशायामपि तत एवासी युक्तः / अर्थस्य तुन सत्ता सिद्धा। नापि तद्भेदात् संवित्तिनियम इति तन्न ततः संविद्वैचित्र्यम्। तस्मान्न कथञ्चिदपिनीलाऽऽदेः प्राक् सत्तासिद्धिः / अथ पूर्वसत्ताविरहे किं प्रमाणम् ? नन्वनुपलब्धिरेव प्रमाणम् / यदि नीलं पूर्वकालसंबन्धिस्वरूपं स्यात्तेनैव रूपेणोपलभ्येत, न च तथा दर्शनकालभुवः सर्वदाऽप्रतिभासनात् / यच्च येनैव रूपेण प्रातभाति, तत्तेनैव रूपे-णास्ति। यथा नीलं नीलरूपतयाऽवभासमानं तथैव सद्न पीताऽऽदिरूपतया। सर्वं चोपलभ्यमानं रूपं वर्तमानकालतयैव प्रतिभाति, न पूर्वाऽऽदितया, तन्न पूर्व सत्ताऽर्थस्य / अथ नीलं, तदर्शनविरतावपि परदृशि प्रतिभातीति साधारणतया ग्राह्यम, विज्ञानं त्यसाधारणतया प्रकाशकम् / नैतदपि युक्तम् / यतो नीलस्य न साधारणतया सिद्धः प्रतिभासः, प्रत्यक्षेण स्वप्रतिभासिताया एवावगतेः। न हि नीलं परदृशि प्रतिभातीत्यत्र प्रमाणमस्ति, परदृशोऽनधिगमे नीलाऽऽदेस्तवेद्यताऽनधिगतेः। अथानुमानेन नीलाऽऽदीनां साधारणता प्रतीयते / यथैव हि स्वसंताने नीलदर्शनात्तदा दानार्था प्रवृत्तिस्तथाऽपरसन्तानेऽपि प्रवृत्तिदर्शनात् , तद्विषय दर्शनमनुमीयते। नैतदप्यस्ति / अनुमानेन स्वपरदर्शनभृतो नीलाऽऽदेरेकताऽसिद्धेः तद्विसदृशव्यवहारदर्शनादुपजायमानं स्वदृष्ट सदृशता परदृष्टस्य प्रतिपादयेत्। यथाऽपरधूमदर्शनात् पूर्वसदृशं दहनमधिगन्तुमीशा, न तु तमेव पूर्वदृष्टम, सामान्येनान्वयपरिच्छेदात्। नानुमानतोऽपि ग्राह्याऽऽकारस्यैकता / ननु भेदोऽप्यस्य न सिद्ध एव / प्रतिभासभेदे सति कथमसिद्धः? परप्रतिभासपरिहारेण स्वप्रतिभासात, स्वप्रतिभासपरिहारेण च परप्रतिभासात् , विवेकस्वभावान् व्यतिरेचयति? अन्यथा तस्यायोगात्। ततः स्वपरदृष्टस्य नीलाऽऽदेः प्रतिभासभेदाद् व्यवहारे तुल्येऽपि भेद एव।इतरथा रोमाञ्चनिकरसदृशकार्यदर्शनात् सुखाऽऽदेरपि स्वपरसन्तानभुवस्तत्त्वं भवेत्। अथापि सन्तानभेदात् सुखाऽऽदेर्भ-दः। नन सन्तानभेदोऽपि किमन्यभेदात? तथा चेदनवस्था। अथ तस्य स्वरूपभेदाभेदः, सुखाऽऽदेरपितर्हि स एवास्तु, अन्यथा भेदासिद्धेः / न ह्यन्यभेदादन्यद्भिन्नम् अतिप्रसङ्गात्। नीलाऽऽदेरपि स्वपरभासिनः प्रतिभासभेदोऽस्तीति नैकता। अथ देशैकत्वादेकत्वम्। ननु देशस्यापि स्वपरदृष्टस्यानन्तरोक्तन्यायाद्नैकतायुक्ता। तस्माद् ग्राहकाऽऽकारवत् प्रतिपुराषमुभासमाननीलाऽऽदिकमपि भिन्नमेव / तचैककालोपलम्भात् , ग्राहकवत् स्वप्रकाशम् / अथ ग्राहकाऽऽकारश्चिद्रूपत्वाद् वेदको, नीलाऽऽका-रस्तु जडत्वाद् ग्राह्यः / अत्रोच्यते-किमिदं बोधस्य चिद्रूपत्वम् ? यदि अपरोक्षं स्वरूप, नीलाऽऽदेरपि तर्हि तदस्तीति न जडता / अथ नीलाऽऽदेरपरोक्षस्वरूपमन्यस्माद्भवतीति ग्राह्यम् / ननु बोधस्याऽपि स्वस्वरूपमिन्द्रियाऽऽदेर्भवतीति ग्राह्य स्यात्। अथ यदीन्द्रियाऽऽदिकार्य न तद्वेद्य, नीलाऽऽदिकमपि तर्हि नयनाऽऽदिकार्यमस्तु न तु ग्राह्यम् / अथापि बोधो बोधस्वरूपतया नित्यः, नीलाऽऽदिकस्तु प्रकाश्यरूपतया अनित्य इति ग्राह्यः / तदप्यसत् / स्तम्भाऽऽदेनयनाऽऽदिबलादुदेति रूपमपरोक्षत्वम् / तदनित्यः स्तम्भाऽऽदिर्भवतु, ग्राह्यस्तु कथम् ? न हि यद यस्मादुत्पद्यते तत्तस्य वेद्यम् / अतिप्रसङ्गात्। तस्मादपरोक्षस्वरूपाः स्तम्भाऽऽदयः स्वप्रकाशाः, बोधस्तु नित्योऽनित्यो वा तत्काले केवल