________________ णाण 1966 - अभिधानराजेन्द्रः भाग-४ णाण रापरज्ञानग्राहिज्ञानसमुत्पत्ताववश्यंभाविबाह्यसाधनो विषयसन्निधानं, येन तत्र ज्ञानस्य संचारो भवेत, सन्निधानेऽप्यन्तरङ्गबहिरङ्गयोरन्तरङ्गस्यैव बलीयस्त्वान्नान्तरङ्गविषयपरिहारेण बाह्यविषयज्ञानोत्पत्तिर्भवेदिति कुतोऽनवस्थानिवृत्तिः ? न चादृष्टवशादनबस्थानिवृत्तिः, स्वसंविदितज्ञानाभ्युपगमेनाप्यनवस्थानिवृत्तेःसंभवात् / अन्यथा कार्येऽनुपपद्यमानेऽदृष्टपरिकल्पनाया उपपत्तेः, स्वसंवेदनेऽपि चादृष्टस्य शक्तिप्रत्यक्षाभावात्। एतेन ईश्वराऽऽदेरनवस्थानिवृत्तिरिति प्रतिविहितम्, तस्यादृष्टकल्पनायाः प्रतिषिद्धत्वाच्चतुर्थज्ञानाऽऽदेरनुत्पत्तेरनवस्थानिवृत्तिः, धर्मिग्रहणस्यैवमभावाऽऽपत्तेः / किञ्चशक्तिर्यद्यात्मनोऽव्यतिरिक्ता, तदा तत्क्षये आत्मनेऽपि क्षयाऽऽपत्तिः।व्यतिरिक्ता चेत्, तत एव ज्ञानोत्पत्तेर-नर्थक आत्मा भवेत्। न च सा तस्येति नात्माऽऽनर्थक्यम्, सम-वायाभावे तस्याप्यसिद्धेः। किञ्च-यदि सिद्धिप्रक्षपादनवस्थातिवृत्तेर्बाह्यविषयमपि ज्ञानं न भवेत् , शक्तिप्रक्षयादेव / न च चतुर्था - ऽऽदिज्ञानजननशक्तेरेव प्रक्षयः / न / बाह्यविषयज्ञानशक्तयुगपदनेकशक्त्यभावात् / भावे वा युगपदनेकज्ञानीत्पत्तिप्रसक्तिः, सहकार्यपेक्षाऽपि नित्यस्यासंभविनी, प्रतिपादितक्रमेण शक्तिभावे कृतः स इति वक्तव्यम् ? आत्मन इति चेत्। न / अपरशक्तिवैकल्यात् / ततस्तदभावादपरशक्तिपरिकल्पते तदभावेऽप्यपरशक्तिपरिकल्पनमित्यनवस्था। तदेवं स्वसंविदितविज्ञानाभ्युपगमे कथञ्चिद् घटाऽऽदिज्ञानस्यासिद्धेराश्रयासिद्धो ज्ञेयत्वादिति हेतुः, स्वरूपासिद्धश्चेति व्यवस्थिमेतत् स्वनिर्णीतिस्वभावं ज्ञानमिति। सम्म०२ काण्ड। (युगपद् ज्ञानद्वयानुभवो' दोकिरिय शब्दे निषेत्स्यते) (21) ज्ञानस्य स्वप्रकाशकत्वम्अस्त्येव प्रदीपाऽऽदिलक्षणो दृष्टान्तो ज्ञानस्य प्रकाशं प्रति सजातीयापरानपेक्षणे साध्ये / तथाहि-यथा प्रदीपाऽऽद्यालोको न स्वप्रतिपत्तावालोकान्तरमपेक्षते, तया ज्ञानमपि स्वप्रतिपत्तौ न समानजातीयज्ञानापेक्षम् / एतावन्मात्रेणाऽऽलोकस्य दृष्टान्तत्वम् , न पुनस्तस्यापि ज्ञानत्वमासाद्यते / येनेन्द्रियाग्राह्यत्वाच क्षुष्मतामिवान्धानामपि तत्प्रतीतिवसङ्ग इति प्रेर्यते। न हि दृष्टान्ते साध्यधर्मिधर्माः सर्वेऽप्यासञ्जयितुंयुक्ताः, अन्यथा घटेऽपि शब्दधर्माः शब्दत्वाऽऽदयः प्रसज्येरनिति तस्याऽपि श्रोत्रग्राह्यत्वप्रसङ्गः / न च साधर्म्यदृष्टान्तमन्तरेण प्रमाणप्रतीतस्याप्यर्थस्याप्रसि-द्धिरितिशक्यं वक्तुम्। अन्यथा जीवच्छरीरस्यापि सात्मकत्वे साध्ये तत्प्रसिद्धदृष्टान्तस्याभावात् प्राणाऽऽदिमत्त्वाऽऽदेन्तसिद्धिर्न स्यात्। अथ साधर्म्यदृष्टान्ताभावेऽपि दृष्टवैधHदृष्टान्तस्य घटा-ऽऽदेः सद्भावात् केवलव्यतिरेकिबलात्तत्र तत्सिद्धिः तर्हि यत्र स्वप्रकाशकत्वं नास्तितत्रार्थप्रकाशकत्वमपि नास्ति, यथा घटाऽऽदाविति व्यतिरेकदृष्टान्तसद्भावादर्थप्रकाशकत्वलक्षणाखेतोः स्वप्रकाशकत्वं विज्ञानस्य किमिति न सिद्धिमासादयति? यत्तूक्तंकस्यचिदर्थस्य काचित्सामग्री, तेन प्रकाशः प्रकाशान्तरनिरपेक्ष एवं स्वग्राहिणि ज्ञाने प्रतिभाति / तदयुक्तमेव / यथा हि स्वसामग्रीत उपजायमानाः प्रदीपाऽऽलोकाऽऽदयो न समानजातीयमालोकान्तरं स्वग्राहिणि ज्ञाने प्रतिभासमाना अपेक्षन्ते, तथा स्वसामग्रीत उपजायमानं विज्ञान स्वार्थप्रकाशस्वभावं स्वप्रतिपत्तौ न ज्ञानान्तरमपेक्षते, प्रतिनियतत्वात् स्वकारणाऽऽयत्तजन्मनां भावशक्तिनाम्। | यत्तुप्रदीपाऽऽलोकाऽऽदिकं सजातीयाऽऽलोकान्तरनिरपेक्षमपि स्वप्रतिपत्तौ ज्ञानमपेक्षते, तत्तम्याज्ञानरूपत्वात् ज्ञानस्य च तद्विपर्ययस्वभावत्वाद् युक्तियुक्तमिति नैकत्र दृष्टः स्वभावोऽन्यत्राऽऽसजयितुंयुक्त इति पूर्वपक्षवचो निःसारतया व्यवस्थितम् / अथाऽऽलोकस्य तदन्तरनिरपेक्षा प्रतिपत्तिरुपलब्धेति न तदृष्टान्तबलाद् ज्ञानस्यापि ज्ञानान्तरनिरपेक्षा प्रतिपत्तिः; अदृष्टत्वात्, स्वात्मनि क्रियाविरोधाच। नन्वेवमुपलभ्यमानेऽपि वस्तुनि यद्यदृष्टत्वं, विरोधश्चोच्येत, तदा स्वात्मवघटाऽऽदेरपि बाह्यस्य न ग्राहकं ज्ञानम्। अदृष्टत्वात् , जडस्य प्रकाशायोगाचेत्यपि वदतः सौगतस्य न वक्त्रवक्रता समुपजायते / तथाहि-असावप्येवं वक्तुं समर्थःजडवस्तुन स्वतः प्रकाशते, विज्ञानवद्, जड़त्वहानिप्रसङ्गात् / नाऽपि परतः प्रकाशमानम्, नीलसुखाऽऽदिव्यतिरिक्तस्य विज्ञानस्यासंवेदनेनासत्त्वात् / अथ नीलस्य प्रकाश इति प्रकाशमाननीलाऽऽदिव्यतिरिक्तस्तत्प्रकाशः / अन्यथा भेदेनास्याप्रतिपत्ती संवेदनस्य तत्प्रतिभासो न स्यात् / ननु न नीलतद्वेदनयोः पृथगवभासः प्रत्यक्षसंभवी, प्रकाशविविक्तस्य नीलाऽऽदेरननुभवात् तद्विवेकेन च बोधस्याप्रतिभासनात् / न चाध्यक्षतो विवेकेनाप्रतीयमानयोर्नीलतत्संविदो दो युक्तः, विवेकादर्शनस्य भेदविपर्ययाऽऽश्रयत्वान्नीलतत्रवरूपवत् / अथापि कल्पना नीलतत्संविदोर्भेदमुल्लिखति-नीलस्यानुभव इति / नन्वभेदेऽपि भेदोल्लेखो दृष्टः, यथा शिलापुत्रकस्य वपुः, नीलस्य वा स्वरूपमिति! अथ तत्र प्रत्यक्षाऽऽरूढो भेदो बाधक इति न भेदोल्लेखः सत्यः, स तर्हि नीलसंविदोरपि प्रत्यक्षाऽऽरूढो भेदोऽस्तीति न भेदकल्पना सत्या। तदेवं नीलाऽऽदिक सुखाऽऽदिक वस्तु प्रकाशवपुः प्रतिमातीति स्थितम् / तद्व्यतिरिक्तस्य प्रकाशस्य प्रतिभासनेनाभावात्। भवतु वा व्यतिरिक्तो बोधः, तथाऽपि न तद्ग्राह्या नीलाऽऽदयो युक्ताः / तथाहि-तुल्यकालो वा बोधस्तेषां प्रकाशकः, भिन्नकालो वा? तुल्यकालोऽपिपरोक्षः, स्वसविदितो या ? न तावत्परोक्षः, यतोऽप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीत्यादिना स्वसंविदितत्यं ज्ञानस्य प्रसाधयन्त एतत्पक्षं निराकरिष्यामः (निराकरणं ग्रन्थतोऽवसेयम्।) नाऽपि ज्ञानान्तरवेद्यः, अनवस्थाऽऽदिदूषण-स्यात्र पक्षे प्रदर्शयिष्यमाणत्वात् / स्वसंवेदनपक्षे तु यथाऽन्तर्नि-लीनो बोधः स्वसंविदितः प्रतिभाति; तथा तत्काले स्वप्रकाशव-पुषो नीलाऽऽदयो बहिर्देशसंबन्धितया प्रतिभान्ति, इति समान-कालयोनीलतत्संवेदनयोः स्वतन्त्रयोः प्रतिभासनात्सव्येतरगो-विषाणयोरिव न वेद्यवेदकभावः / समानकालस्यापि बोधस्य नीलं प्रति ग्राहकत्वे नीलस्यापि संप्रात ग्राहताप्रसङ्गः / समानकालप्रतिभासाविशेषेऽपि बुद्धिर्नीलाऽऽदीनां ग्रहणमुपरवयतीति ग्राहिका, नीलाऽऽदयस्तु ग्राह्याः / नैतदपि युक्तम्। यतो नीलबोधव्यतिरिक्ता न ग्रहणक्रिया प्रभाति / तथाहि-बोधः सुखाऽऽस्पदीभूतो हृदि, बहिः स्फुटमुद्भासमानतनुश्च नीलाऽऽदिराभाति, न त्यपरा ग्रहणक्रिया प्रतिभासविषया / तदनवभासे च न तया व्याप्यमानतया नीलाऽऽदेः कर्मता युक्ता / भवतु वा नील-बोधव्यतिरिक्ता क्रिया, तथाऽपि किं तस्या अपि स्वतः प्रतीतिः यद्वा अन्यतः? तत्र यदि स्वतो ग्रहणक्रिया प्रतिभाति; तथा सति बोधो, नीलम् ग्रहणक्रिया चेति वयं स्वरूपनिमग्नमेककालं प्रतिभातीति न कर्तृकर्मक्रियाव्यवहतिः / अथान्यतोग्रहणक्रिया प्रतिभाति, नतु तत्राप्यपरा ग्रहणक्रियोपेया, अन्यथा तस्या ग्राह्यतसिद्धेः पुनस्तत्राप्यपरा कर्मतानिबन्धन क्रियोपेयेन्यन