________________ णाण 1668 - अभिधानराजेन्द्रः भाग - 4 णाण ज्ञानाचार्थान्तभूता एव सुखाऽऽदयोऽनुग्रहाऽऽदिविधायिनो भवे-युः इतरथाऽयोगिनोऽपि ते तथा स्युः / न च तेषां तत्रासमवायान्नाय दोषः, / समवायस्य निषिद्धत्वात् / सुखाऽऽदिग्रहणे मनस इन्द्रियसिद्धिः। अत / एव चाऽऽत्मा मनसायुज्यते, तत्र च समवेताः सुखाऽऽदय इत्यादिक्रिया अनुपपन्नैवानच निरशयोरात्ममनसोः संयोगः संभवी, एकदेशेन तत्संयोगे सांशत्वप्रसक्तेः, सर्वाऽऽत्मना संयोगे उभयोरेकत्वप्राप्तेः / यदि च यत्र मनः संयुक्त तत्र समवेत ज्ञानं समुत्पादयति,तदा सर्वाऽऽत्मना व्याप्तितया सामान्यदेशत्वेन मनसः तैः संयुक्तत्वात् सर्वाऽऽत्मसमवेतसुखाऽऽदिषु द्विधैवैकं ज्ञानमुत्पादयतीति प्रतिप्राणि भिन्नं मनःपरिकल्पनमनर्थमासज्येत / न च यस्य संबन्धि यन्मनः, तत्समवेतसुखाऽऽदिज्ञाने तदेव हेतुरिति नायं दोषः, प्रतिनियताऽऽत्मसंबन्धित्वस्यैव तत्रासिद्धः। न हि तत्कार्यत्वेन तत्संबन्धेन तस्य नित्यत्वाभ्युपगमात् तत्र चानाधेयाप्रहेयाऽतिशये तत्कार्यतायोगान्नापि तत्संयोगात् तस्याऽपि तत्रैकदेशेन सर्वाऽऽत्मना वा योगात्। योगेऽपि व्यापकत्वेन समानदेशि-सर्वाऽऽत्मभिर्युगपत् संयोगेन प्रतिनियताऽऽत्मसंबन्धित्वानुपपत्तेः / न च यददृष्टप्रेरितं तत्प्रवर्तते तत्संबन्धीति वक्तव्यम्, अदृष्टस्याचेतनत्वेन प्रतिनियतविषयतया तत्प्रेरकत्वायोगात् / प्रेरकत्वे वा ईश्वरपरिकल्पनावैयर्थ्यप्रसक्तेः / न चेश्वरप्रेरितयैवासौ तत्प्रेरक इतिन तत्परिकल्पनावैयर्थ्यम्, अदृष्टप्रेरणामन्तरेण ईश्वरस्य साक्षान्मनःप्रेरकत्वोपपत्तेरदृष्टपरिकल्पनावैयर्थ्य पुनः प्रसज्यते / न च प्रतिनियतनिमितमदृष्ट परिकल्पना, तस्यापि स्वतः प्रतिनियतत्वासिद्धेः / येनाऽऽत्मना यदृष्ट निर्वर्तितं तत्तस्य इति प्रतिनियमसिद्धिरिति चेत्, ननु किमिदमात्मनोऽदृष्टनिर्वर्तकत्वम् ? तदा-धारभाव इति चेत्, ननु समवायस्यैकत्वे आत्मनां च व्यापकत्वेन एकदेशत्वे प्रतिनियत एव आत्मा प्रतिनियतादृष्टाऽऽधार इत्येतदेव दुर्घटम् . समवायाविशेषेऽपि समवायिनोर्विशेषात् प्रतिनियमे सम-वायप्रसक्तरित्यात्मसुखाऽऽद्योस्तत्संवेदनस्य कथञ्चित् तादा-त्म्यमभ्युपेयम्। अन्यथातदेकार्थसमवेतग्राह्यज्ञानत्वेन सुखाऽऽदयो न सिद्धिमासादयेयुः / तत्रादृष्टमपि मनसः प्रतिनियमहेतुः, न च येनाऽऽत्मना यन्मनः प्रेर्यते तत् तत्संबन्धीति प्रतिनियमः, अदृप्रत्वादात्मनोऽप्यचेतनत्वेन तत्प्रत्ययप्रेरकत्वात्। चेतनत्वेऽपिनानुपलभ्यस्य प्रेरणमिति न नियतं मनः सिध्यतीति / एकस्मात् ततो युगपत् सर्वसुखाऽऽदिसंवेदनप्रशक्तिः, इत्युक्तन्यायेन सुखाऽऽदिसंवेदनस्येन्द्रियार्थसन्निकर्षजन्यत्वाभावाद् हेतुरनेन व्यभिचारी। किञ्चस्वसंविदितविज्ञानानभ्युपगमे सदसद्वर्गः कस्यचिदेकज्ञानाऽऽलम्बनोऽनेकत्वात् पशाङ्गुलिवदित्यत्र पक्षीकृतैकदेशेन व्यभिचारः, तज्ज्ञानान्यत्वे सदसद्भर्गयोरनेकत्वाविशेषेऽप्येक्ज्ञानाऽऽलम्बनत्वाभावात्, एकशाखाप्रभवत्वानुमानवत् / अथ सर्वज्ञज्ञानस्वसंविदितमिति नानेकत्वानुमानस्य व्यभिचारः, तर्हि तज्ज्ञानवदन्यज्ञानस्यापि न स्वाऽऽत्मनि क्रियाविरोध इति सर्वज्ञानं स्वसंविदितं ज्ञानत्वात् सर्वज्ञज्ञानवदिति तत् दृष्टान्तबलात् स्वसंविदितसकलज्ञानसिद्धिः / घटाऽऽदिज्ञानं ज्ञानान्तरग्राह्य, ज्ञेयत्वाद्, घटवदित्यत्र च व्यभिचारः। सम्म०२ काण्ड। ननु "जुगवं दो णस्थि उवओगा' इति वचनाद् भवतोऽपि युगपद् ज्ञानानुत्पत्तिः सिद्धैवान।मानसविकल्पद्वययोगपद्यनिषेधपरत्वादस्य, नेन्द्रियमनोविज्ञानयोर्योगपद्यनिषेधः / न च विवादाऽऽस्पदीभूतानि ज्ञानानि क्रमभावीनि ज्ञानत्वाद् मानसविकल्पद्वयवदित्यतोऽनुमानतद्विभ्रमसिद्धिः, अस्य प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टत्वात् / न चैतदनुमान-बाधितत्वाद् युगपत्प्रतिपत्त्यनुभवः प्रत्यक्षमेव न भवति, अश्रावणः शब्दः, सत्त्वात्, घटवदित्यनुमानबाधितत्वात् श्रावणशब्दज्ञानस्याप्यप्रत्यक्षताप्रसक्तेः / न च सौगतमतमेतद् जैनमतमिति वक्तव्यम्,-" सहभावितो गुणाः, क्रमभाविनः पर्यायाः " इति जैनैरभिधानात्। तथा सहभावित्वं गुणानां प्रतिपादयता दृष्टान्तार्थमुक्तम्" सुखमाह्रादनाऽऽकार, विज्ञानमयबोधनम्।। शक्तिः क्रियाऽनुमेया स्याद् , यूनः कान्तासमागमे // 1 // तदेवं मनसोऽसिद्धेन घटाद् विज्ञानं, तेन सन्निकृष्टमिति कुतस्तत्राऽध्यक्षज्ञानोत्पत्तिरिति यतस्ततस्तत् प्रतीयते ? न चान्यत्तदुत्प-तौ पराभ्युपगमे निमित्तमस्ति, सद्भावे चेन्द्रियार्थसन्निकर्षा त्यनत्वाऽऽदिना तव ग्राहिणोऽध्यक्षता विरुध्यते / अथ ज्ञानान्तरेऽस्यानध्यक्षत्वेऽपि घटज्ञानग्राहकता भविष्यतीति न धर्म्यसिद्धेराश्रयासिद्धो हेतुर्भविष्यति, घटज्ञानस्य ततः सिद्धेः / असदेतत् / स्वयमसिद्धेन ज्ञानेन गृहीतस्याप्यगृहीतरूपत्वात् / अन्यथा सर्वज्ञज्ञानगृहीतस्य रथ्यापुरुषज्ञानगृहीतत्वं भवेदिति तस्याऽपि सर्वज्ञताप्रसक्तिः / न च स्वज्ञानगृहीतादगृहीतमिति नायं दोषः, स्वसंविदितज्ञानाभावे स्वज्ञानमित्यस्यैवासिद्धेः / स्वस्मिन् समवेतस्वज्ञानमभिधीयत इति नायं दोष इति चेत् / न / तस्याभावात् , भावेऽप्यविशिष्टत्वाच। नयस्वोत्पादितं स्वमिति वक्तव्यम्, तदु-त्पादस्य परदर्शने तदाधेयत्वेन प्रसिद्धत्वात् / समवायाभावे च तस्याऽप्यसिद्धत्वाद् नित्यस्य चेश्वरज्ञानस्य तदसिद्धिः / न च स्वसंविदितज्ञानवादेऽपि स्वसंविदितत्वाविशेषाद्देवदत्तज्ञानं प्रसज्येत, यज्ञदत्तज्ञानस्य देवदत्तासविदितत्वात्स्वज्ञानस्य कथञ्चित् स्वा-त्मना तादात्म्यात् तस्यैव तद्रूपतया परिणतेरिति प्रसाधितत्वात्। ज्ञानान्तरेण तस्यासंवेदनाद नागृहीतत्वमिति चेत् / न / तस्याऽपि ज्ञानान्तरेण ग्रहणेऽनवस्थाप्रसक्तेः / अग्रहणेऽगृहीतवेदनेन गृहीतस्य द्वितीयज्ञानस्यागृहीतरूपत्वाद् न तेन प्रथमग्रहणमिति तदवस्था धर्मसिद्धिः / तेन घटाऽऽदिज्ञानस्य धर्मिणा द्वितीयेन तस्याऽपि तृतीयेन ग्रहणादर्थसिद्धे परज्ञानकल्पनमिति नानवस्थेति यदुक्तम् / तदप्यसंगतम् / तृतीयाऽऽदेनिस्थाग्रहणे प्रथमस्याप्यसिद्धेः / उक्तन्यायाद् यदि पुनस्तृतीयज्ञानेन स्वयमसिद्धेनापि द्वितीयं गृह्यते, द्वितीयेन तथाभूतेनैव प्रथम, तेनाऽपि तथाभूतेनैवार्थो ग्रहीष्यत इति द्वितीयज्ञानपरिकल्पनमपि व्यर्थमासज्येत। न च विदितोऽर्थ इति ज्ञानविशेषणस्यार्थस्य प्रतिपत्तेरगृहीतविशेषणा विशेष्ये बुद्धिर्नोपजायत इति विशेषणग्राहिज्ञानं द्वितीयं परिकल्प्यते / न च विशेषणस्याप्युपरि विशेषणसविशिष्टता प्रतीयते, येन तृतीयाऽऽदिज्ञानपरिकल्पना युक्तिसङ्गता भवेदिति वक्तव्यम् / विशेषणस्यैव तृतीयाऽऽदिज्ञानपरिकल्पनामन्तरेण ग्रहणासंभवादित्युक्तेः / स्वसंविदितज्ञानाभ्युपगम एव ज्ञानविशेषणविशिष्टार्थप्रतिपत्तिः संभवति, अन्यथा तदयोगादनवस्थानिवृत्तेः / न च विषयान्तरसंचारादनवस्थानिवृत्तिः, यतो धर्मिज्ञानविषयात साधनाऽऽदिर्विषयान्तरं, तत्र ज्ञानस्योत्पत्तिर्विषयान्तरसंचारः। न चाप