________________ णाण 1967 - अभिधानराजेन्द्रः भाग - 4 णाण तत्पूर्वकत्वेन पूर्ववदादेरनुमानस्याप्यभ्युपगमान्न ततोऽपि साक- | ल्यसिद्धिः / के वलं विशिष्टार्थो पलब्धिलक्षणमध्यक्षसिद्ध कार्य करणमन्तरेण नोपपद्यत इति तत्परिकल्पना, तच साकल्यमिति न कल्पयितुं शक्यमात्माऽऽदिकरणसद्भावे कार्यस्योपपत्तावपरपरिकल्पनेऽदृष्टपरिकल्पनाप्रसक्तिः, ततोऽपरापरदृष्टिपरिकल्पनयाऽनवस्थाप्रसक्तेः / तन्न सकलकारणकार्यमपि साकल्यम् / अथ पदार्थान्तरं सकलकारणेभ्यः साकल्यं, तदा यत् किञ्चित् पदार्थान्तर तत्साकल्यं प्रसज्येत, इति यस्य कस्यचित्पदान्तिरस्य सद्भावेऽर्थोपलब्धिर्भवेदिति सर्वदा सर्वस्य सर्वज्ञताप्रसक्तिः, तन्न कारकसाकल्यं प्रमाणम् / तेन प्रभातृप्रमेययोरभावः साकल्याभाव इत्यादि प्रतिक्षिप्तम् , तत्सद्भावेऽपि भवदभिप्रायेण साकल्यानुपपत्तेः / यदपिमुख्यगौणभावस्य कारकसाकल्याभावाभावनिमित्तत्वादित्यादि। तदपिव्योमकुसुभावतंसकभावकृदेवदत्तसौभाग्यासौभाग्यप्रख्यं द्रष्टव्यम्। तेन सन्निपत्य जननं साधकतमत्वं यद् व्याख्यातम् / तदपि निरस्तम्। तस्याऽपि साकल्यार्थत्वात् / यदपि साकल्यं हि तेषामेव धर्ममात्र नैकान्तेन वस्त्वन्तरमित्यभिधेयशून्यं वचः, वस्त्वन्तरपक्षे तु दोषाः प्रतिपादिता एव / यदपि प्रमातृप्रमेयजन्यत्वेऽपि सामग्या न करणत्वच्याहतिरिति / तदपि न सङ्गतम्। सामग्यास्तजन्यत्वेऽनवस्थाऽऽद्यनेकदोषाऽऽपत्तेः प्रतिपादनात् / यदप्यव्यभिचाराऽऽदिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्री प्रमाणमित्युक्तम् / तदप्यसङ्गतम् / अव्यभिचारादेकोपलब्धिविशे-षणस्य भवदभिप्रायेणायोगात् / (यथा च तस्यायोगस्तथा प्रत्यक्षलक्षणे प्रदर्शयिष्यामः / प्रत्यक्षलक्षण सम्मतौ द्रष्टव्यम् ) सामग्री चतजनिका यथा न संभवति तथाऽभिहितमेव साकल्य विचारयद्भिः / यचाबोधस्वभावस्यापि प्रदीपाऽऽदेः प्रमाणत्वं प्रतिपाद्यते / तदप्यसङ्गतम् / बोधस्वभावस्य तस्य प्रमितिक्रियायां साधकतम-त्वायोगात् / यच्च लोकस्तेषां प्रामाण्य दीपेन मया दृष्ट, चक्षुषाऽवगतं, धूमेन प्रतिपन्नमिति व्यवहरतीति तदुपचारतः, यथा ममाऽयं पुरुषश्चक्षुरिति, न तु मुख्यतः / मुख्यतस्तु बोधस्यैव प्रमिति प्रति तादात्म्यादव्यवहितं साधकतमत्वम् / चक्षुरादेस्तु बोधव्यवधानाद् गौणम् / न च व्यपदेशमात्रपरतया न पारमार्थिकवस्तुव्यवस्था, उपचारतोऽपि नड्वलोदकं पादरोग इत्यादिव्यपदेशप्रवृत्तेः / न च प्रमाणस्य प्रमितिरूपता विरुद्धा, स्वरूपे विरुद्धासिद्धिः / न च प्रमाणप्रमित्योरेकान्ततो भेद एवाभ्युपगम्यते, कथञ्चिद् बोधादर्थपरिच्छित्तिविशेषस्य भेदात् प्राक्तनपर्यायनिरोधेन कथञ्चिदवस्थितस्यैव बोधस्याऽर्थपरिच्छित्तिविशिष्टरूपतयोत्पत्तेः / अन्यथा कार्यकारणभावविरोधादित्यसकृत् प्रतिपादितत्वात्। एतेन "लिखितं साक्षिणो भुक्तिः, प्रमाणं त्रिविधं स्मृतम्" इति यत् शास्त्रान्त-रेषु बोधाबोधरूपस्य प्रमाणत्वाऽभिधानं तदप्युपचारेण व्याख्येय-मित्युक्तं भवति / अन्यथा प्रमाणविरोधप्रदर्शितन्यायेन.........(?) यदपि तत्कार्यभूता चोदिलविशेषणोपलब्धिस्तस्य सामान्यलक्षणमित्युक्तम्। तदप्यसङ्गतम्। न हि यथोक्तविशेषणोपलब्धिः पराभ्युपगमे न संभवति, नाऽपि पराभ्युपगतप्रमाणकार्यतयाऽसौ सिद्धा, येन स्वकारणं प्रमाणाभासेभ्यो व्यवच्छिद्यात। तन्नाक्षपाद-कणभुड्मतानुसारिपरिकल्पितमपि प्रमाणसामान्यलक्षणमुपपत्तिक्षमम्। तस्मात् 'प्रमाण स्वार्थनिर्णीतिस्व- | भावं ज्ञानम् ' इत्येतदेव प्रमाणसामान्यलक्षणमनवद्यम् / ननु चात्रापि स्वग्रहणविधुरस्य ज्ञानस्य नैयायिकाऽऽदिभिरभ्युपगमाद् बौद्धस्त्वर्थग्रहणविधुर-स्येति स्वार्थनिर्णीतिस्वभावताऽसिद्धा। सम्म० 2 काण्ड। " ज्ञानं स्वस्थं परस्थं वा, यथा ज्ञानेन गृह्यते। ज्ञाता स्वस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम् ||1|| उत्त०२ अ० / (20) अनुव्यवसायप्रकाश्यं ज्ञानम्तथाहि नैयायिकाः प्रतिपादयन्ति-घटाऽऽदिज्ञानं स्वग्राह्यं न भवति, ज्ञानान्तरग्राह्य वा, शेयत्वात्, घटाऽऽदिवत् / अत्र प्रयोगे हेतुः स्वरूपासिद्धः, आश्रयासिद्धश्च। धर्मिणो ज्ञानस्याऽप्रतिपत्तौ तदाश्रितज्ञेयत्वधर्माप्रतिपत्तेः। न चाऽऽश्रयासिद्धस्य परैधार्मिकत्वमभ्युपगम्यते। अन्यथा सामान्याऽऽदिनिषेधे सामान्यस्याऽसिद्धौ परं प्रत्याश्रयासिद्धो हेतुरिति दोषोद्भावनं युक्तियुक्तं भवेत् / घटाऽऽदिज्ञानस्य प्रमाणतः प्रसिद्धेनयिं दोषः। ननुतत्प्रसिद्धिरध्यक्षतोऽनुमानतोवा ? प्रमाणान्तरस्यात्रानधिकारात्।नतावदध्यक्षतः, तस्येन्द्रियार्थसन्निकर्षजत्वाभ्युपगमात् / न च ज्ञानस्य चक्षुरादीन्द्रियेण सन्निकर्षो, न च तद्व्यतिरिक्तमिन्द्रियान्तरमस्ति, अथ मनोलक्षणमन्तःकरणमस्ति, तस्य च ज्ञानेन संयुक्तसमवायः सन्निकर्ष इति तत्प्रभवमध्यक्षं तत्र प्रवर्तत इति। तथाहिआत्मना मनः संयुक्तम्, आत्मनिचसमवेतं ज्ञानमिति मनोज्ञानेन्द्रियार्थसन्निकर्षोत्पन्नतदेकार्थसमवेताध्यक्षग्राह्यत्वाद् घटाऽऽदिज्ञानस्य कथमाश्रयासिद्धत्वाऽऽदिर्हेतोर्दोषः ? अयुक्तमेतद्यदीन्द्रियं मनः सिद्धं भवेत् / अथानुमानात्तत्सिद्धिः / तथाहि-घटाऽऽदिज्ञानमिन्द्रियार्थसन्निकर्षजं, प्रत्यक्षत्वे सति ज्ञानत्वाचक्षुरादिप्रभवरूपाऽऽदिज्ञानवन्नास्य हेतोरप्रसिद्धविशेषणत्वम् / न हि घटाऽऽदिज्ञानस्याध्यक्षत्वं सिद्धम् , इतरेतराश्रयत्वात् / तथाहि-मनस इन्द्रियसिद्धावस्याध्यक्षत्वसिद्धिः, तत्सिद्धौ च सविशेषणहेतुसिद्धर्मनस इन्द्रियसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् / न च घटज्ञानाद् भिन्नमपरं ज्ञानं तद्ग्राहकमनुभूयत इति विशेष्यासिद्धश्च हेतुः, सुखाऽऽदिसंवेदनेन व्यभिचारी च / तथाहितत्संवेदनमध्यक्षत्वे सति ज्ञानंच तज्जन्यभितिव्यभिचारः। अथास्यापि पक्षीकरणाददोषः / तथा सुखाऽऽदिसंवेदनमिन्द्रियार्थसन्निकर्षजमध्यक्षज्ञानत्वाच्चक्षुरादिप्रभवरूपाऽऽदिवेदनवत्, सुखाऽऽदिर्वा भिन्नज्ञानवेद्यो, ज्ञेयत्वात् , घटवत्। नन्वेवं व्यभिचारविषयस्य पक्षीकरणे न कश्चिद् हेतुर्व्यभिचारी स्यात्। तथाहि-अनित्यः शब्दः, प्रमेयत्वाद्, घटवदित्यत्राप्यात्माऽऽदेर्व्यभिचारविषयस्यपक्षीकरणाद्न व्यभिचारः / शक्यं ह्यत्राऽपि वक्तुम्-अनित्य आत्माऽऽदिः, प्रमेयत्वाद, घटवत् / न चाऽत्र प्रत्यक्षबोधः, अन्यत्राऽपि तस्य समानत्वात्। न हि सुखाऽऽद्यविदितस्वरूपं पूर्व घटाऽऽदिवदुत्पन्नं पुनरिन्द्रियसंबन्धापजातज्ञानान्तराद्वेधत इति लोकप्रतीतिः, अपि तु प्रथममेव स्वप्रकाशरूपं तदुदयमासादयदुपलभ्यते आत्मनि त्रिविध इति चेत् / न / स्वरूपेण पदार्थस्य विरोधाभावात्। अन्यथा प्रदीपाऽऽदेरप्यपरप्रकाशविकलस्वरूपप्रकाशविरोधः स्यात्। तस्य तत्स्वरूपं कुतः सिद्धमिति चेत् ? प्रदीपाऽऽदौ कुतस्तथा दर्शनभितरत्रापि समानम् / न चैकस्य स्वभावोऽपरत्राप्यभ्युपगमार्हः, अन्यथा स्वपरप्रकाशस्वभावो घटगतः प्रदीपेऽभ्युपगते तयोर्भवत् / न च तदवगमात् पूर्वमप्रतीयमानमपि सुखाऽऽद्यभ्युपगन्तुं युक्तम्: श्रवणसमवात् प्राक् पश्चाच शब्दस्य सत्ताऽभ्युपगमप्रसङ्गतो नित्यत्वाऽऽपत्तेः। न चाऽऽत्मनो