________________ णाण १९६६-अभिधानराजेन्द्रः भाग-४ णाण येदिति ? तदपि निरस्तम् / यतः कर्तृकर्मणोः सामग्रीजनकत्वेन स्थितयोः कथमसत्त्वम् ? तत्सद्भावे च तदपेक्षया कथं न तस्याः करणता ? अथापि स्यात् तस्यास्तजन्यत्वे करणत्वव्याघातः, अन्यतः सिद्धस्य करणत्वसद्भावात्। असदेतत् / यतो दृश्यत एव प्रदीपाऽऽदेस्तजन्यत्वे करणत्वव्याघातेऽन्यस्यापि करणत्वसद्भाव इति न कश्चिद् व्याघातः / तज्जन्यत्वकरणत्वयोस्ततोऽव्यभिचाराऽऽदिभिर्विशेषणा पिलब्धिजनिका सामग्री बोधस्वभावा तदेकदेशभूतकारकजन्या प्रमाणविशेषिका अप्येतदेव प्रमाणसामान्यलक्षणं प्रतिपादयन्ति / एतत्कार्यभूता वा यथोक्तविशेषके विशिष्टोपलब्धिः प्रमाणसामान्यलक्षणम् , तथा स्वकारणस्य प्रमाणाभासेभ्यो व्यवच्छिद्यमानत्वात्। इन्द्रियजत्वाऽऽदिविशेषणविशेषिता सैवोपलब्धिः प्रमाणस्य विशेषलक्षणमिति स्थित सामग्रीप्रमाणमिति। अत्र प्रतिविधीयते-यत्तावदुक्तं कारकसाकल्यकरणत्वेनाभ्युपगमे पूर्वोक्तदोषाभाव इति / अत्र वक्तव्यम्-किमिदं कारकसाकल्यम्- किं सकलान्येव कारकाणि, आहोस्वित्तद्धर्मः, उत तत्कार्यम् , किंवा पदार्थान्तरम् ? इति पक्षाः / तत्र न तावत् सकलान्येव कारकाणि साकल्यं, कर्तृकर्मभावे तेषां करणत्वानुपपत्तेः; तत्सद्भावे वा नान्येषां कर्तृकर्मरूपता, तेषां करणत्वाभ्युपगमात् / न च कर्तृकर्मरूपाणामपि तेषां करणत्वम्, तेषां परस्परविरोधात् / तथा-हि-ज्ञानचिकीर्षाssधारता, स्वातन्त्र्यं वा कर्तृता; निर्वाऽऽदि-धर्मयोगित्वात् कर्मत्वम् , प्रधानक्रियाऽनाधारत्वं करणत्वम् एता-निपरस्परविरुद्धानि कथमेकत्र संभवन्ति ? अथापरापरनिमित्त-भेदाऽऽदेः कर्तृकर्मकरणरूपताया अविरोधः / ननु तान्यपि निमि-तानि सकलकारकेभ्यो व्यतिरिक्तानि, उताव्यतिरिक्तानि? इति वाच्यम्। यदि-श्रव्यतिरिक्तानीति पक्षः, तदा तदभेदे तेषामप्यभेदः, तेषां वा भेदे कारकस्याऽपि भेदः, अन्यथा व्यतिरेकासिद्धेः / अथ व्यतिरिक्तानि तदा संबन्धासिद्धिः / न च समवायलक्षणः संबन्धः, तस्य निषिद्धत्वात् , निषेत्स्यमानत्वाच / न चैकान्तभेदे विशेषण-विशेष्यभावाऽऽदिकोऽपि संबन्धः कश्चित्संभवति, तत्रापि संबन्धान्तरकल्पनातोऽनवस्थाप्रसक्तेः / न च तस्य संबन्धरूपत्वात् संबन्धान्तरमन्तरेणाऽपि संबन्धत्वानवस्था, एकान्तभेदे संबन्धरूपताया एवायोगात्, कथञ्चिनिमित्तानां कारकेभ्योऽभेदे अनेकान्तवादाऽऽपत्तिः, तन्न सकलकारकाणि साकल्यम्। अथ कारणधर्मसाकल्याननु सोऽपि यदि कारकाव्यतिरिक्तस्तदा धर्ममात्रं, कारकमानंदा? अथव्यतिरिक्तस्तदा सकलकारकधर्मः साकल्य-मिति संबन्धासिद्धिः। संबन्धेऽपि यदि सर्वकारकेषु युगपदसौ संबध्यते, तदा बहुत्वसंख्यया तत्पृथक्त्वसंयोगविभागसामान्यानामन्यतमस्वरूपाऽऽपत्तिस्तस्येति तदूषणेन तस्य दूषितत्वान्न साधकतमत्वमुपपत्तिमत्। अथ तत्कार्य साकल्यम् / तदप्ययुक्तम्। नित्यानां साकल्यजननस्वभावत्वे सर्वदा तदुत्पत्तिप्रसक्तेः / ततश्चैकप्रमाणोत्पत्तिसमये सकलतदुत्पाद्यप्रमाणोत्पत्तिप्रसक्तिः / तज्जनकस्वभावस्य कारणेषु पूर्वोत्तरकालभाविनां सर्वप्रमाणानां तदा नित्याभिमतं जनकमात्माऽऽदिकं कारणमिति कथं न तदैव सकलतदुत्पाद्यप्रमाणोत्पत्तिप्रसक्तिः ? अथाऽऽत्माऽऽदिके सत्यपि तदा तानि न भवन्ति, न तर्हि तत् तत्कारणं, नापि तानि तत्कार्याणीति सकृदपि तानि ततो न भवेयुरिति सकलं जगत्प्रमाणविकल्पमापद्यते / न चाऽऽत्माऽऽदिके तत्करणसामर्थ्य सत्यपि स्वयमेव यथाकालं तानि भवन्तीति वक्तव्यम्, तेषां तत्कार्यताभाव-प्रसक्तेः तस्मिन् सत्यपितदाभावात् स्वयमेवान्यदाच भावात् / न च स्वकालेऽपि कारणे सत्येव भवन्तीति तत्कार्यता, गगनाऽऽदि-कार्यताप्रसक्तेः, गगनाऽऽदावपि सत्येव तेषां भावात् / न च गगना-ऽऽदेरपि तत्प्रति कारणत्वस्येष्टे र्नाऽयं दोषः, प्रमितिलक्षणस्य तत्फलस्याऽपि व्योमाऽऽदिजन्यतयाऽऽत्मनाऽऽत्मविभागाभावप्रसक्तेः। अथ यत्र प्रमितिः समवेता, स एवाऽऽत्मा, न ध्योमाऽऽदिरिति न तद्विभागाभावः। ननु समवेत इति कोऽर्थः? समवायेन संबद्ध इति चेत्। ननु तस्य नित्यसर्वगतैकत्वेन व्योमाऽऽदावपि प्रमितः संबन्धान्न तत्परिहारेणाऽऽत्मनो विभागः / न च समवाय-विशेष समवायिनो विशेषान्नायं दोषः, समवायस्याभावप्रसक्तेः / अथ यदा यत्र यथा यद् भवति तदा तत्र तथा तदात्माऽऽदिकं कर्तुं समर्थ मिति नेकदा सकलतदुत्पाद्यप्रमाणोत्पत्तिप्रसक्तिः।न।स्व-भावभूतसामर्थ्यमन्तरेण कार्यस्य कालाऽऽदिभेदायोगात् / अन्यथा दृश्यपृथिव्यादिमहाभूतकार्यनानात्वस्य कारणं किमदृष्टपृथिवीपर-माण्वादिचतुर्विधमभ्युपेयते, एकमेवानन्तं नित्यं सर्वगं सर्वोत्पत्तिमतां समवायिकारणमभ्युपगतम् ? अथ कारणजातभेदमन्तरेण न कार्यभेदउपपद्यते, तर्हि कारणशक्तिभेदमन्तरेणाऽपि न कार्यभेद उपपद्यत इत्यभ्युपगन्तव्यम्। अथ यथा शक्त्यैकमनेका शक्तिर्विभक्तिः, तत्राप्यनेकशक्तिपरिकल्पनेऽनवस्थाप्रसक्तेः / न च तदाऽनेक कार्य विधास्यतीति न शक्तिभेदपरिकल्पना / असदेतत्। यतो नजैनस्यायमभ्युपगमः-यदुत भिन्नाः शक्तीः कयाचित् प्रत्यासत्ति-लक्षणया शक्या एकः कश्चिद्वारयतीति, किं तु यत्तदात्मकं तदपि तथाविधं न कस्याश्चित् शक्तेः, अपितु स्वकारणवशात् / न चैक-स्यानेकाऽऽत्मकत्वमदृष्टमेव परिकल्प्यते, अनेकरूपाऽऽद्यात्मकस्यैकस्य पटाऽऽदेः प्रमाणतः प्रतिपत्तेः / अन्यथा गुणगुणिभाव एव न भवेत् , समवायस्य तन्निमित्तस्याभावात् / सकलकारणानि सा-कल्यजननस्वभावानि, सकलकालभाविसाकल्यस्य तदैवोत्प-त्तिप्रसक्तेः / न चातज्जननस्वभावानि नैकदाऽपि तदुत्पत्तिः, अतज्जननस्वभावात् सकृदपि तस्यानुपपत्तेः / न च सहकारिसव्यपेक्षाणि तानि तज्जनयन्ति, नित्यस्यानुपकार्यतया सहकार्यपेक्षायोगात् / न च संभूयैककार्यकारित्वं तेषां सहकारित्वम् , एकान्तनित्यवादे तस्यापि निषिद्धत्वात् / तत्र सकलकार्यकारणमपि साकल्यं संभ-वति। किञ्च-सकलानि कारणानि साकल्यं जनयन्ति, उतासक-लानि? न तावदसकलानि, अतिप्रसङ्गात्। नापि सकलानि, साकल्यमन्तरेण सकलानीति व्यपदेशाभावात् / भावे वाऽकिञ्चि-त्करं साकल्यमिति तत्परिकल्पना व्यर्था / किञ्च-यथा प्रत्यासत्या तानि साकल्यं जनयन्ति तथैव प्रमितिमप्युत्पादयिष्यन्तीति व्यर्था साकल्यपरिकल्पना / अथ साकल्यस्य साधकतमत्वात् तदभावेनाकरणिका प्रमित्युत्पत्तिः, तर्हि साकल्योत्पत्तावपि तेषां न परं साकल्यलक्षणं करणमभ्युपगन्तव्यम् / अन्यथा-अकरणिका साकल्यस्यापि कथमुत्पत्तिः ? अथ तदत्पत्तावपि करणाभ्युपगमस्तर्हि तदुत्पत्तावप्यपरं करणमभ्युपगन्तव्यमित्यनवस्था। अथ करणोत्पत्तौ नापरं करणमभ्युपगम्यत इति नानवस्था, तर्हि उपलब्ध्युत्पत्तावपिन करणमभ्युपगन्तव्यमितिन साकल्यप्रमाणपरिकल्पना युक्तिसङ्गता।नच साकल्यस्याध्यक्षाऽऽदिप्रमाणसिद्धत्वादध्यक्षबाधितोऽयं विकल्पकलापः, आत्माऽन्तःकरणतत्संयोगाऽऽदे करणसाकल्यातीन्द्रियत्वेनाध्यक्षाविषयत्वात्