________________ णाण 1965 - अभिधानराजेन्द्रः भाग - 4 णाण न्यानभ्युपगमश्च निर्निबन्धनो भवेत् / इति न तस्य स्वरूपेण प्रवृत्यादिविषयता, सन्तानरूपेणाऽपि तस्य सत्त्वे सन्तानिन एव तथाभूतानव्यतिरिक्तः सन्तानः प्रवृत्यादिविषयः, सन्तानिनां चोल्पत्यनन्तरध्वंसित्वाद्न तद्विषयस्य विज्ञानस्य प्रदर्शितार्थप्रापक-स्वम्, दृश्यप्राप्ययोः क्षणयोरत्यन्तभेदात् / यत्र हि देशकालभेदेन प्रतीयमानस्याऽपि वस्तुनो भेदोऽभ्युपगभ्यते, तत्र स्वरूपेण भिन्नयोः पूर्वोत्तरक्षणयोः कथमभेदः ? येन प्रदर्शितार्थप्रापकत्वं साधननिर्भासिज्ञानस्य युक्तिसंगतं भवेत् / अथ संवृत्या सन्तानस्य स्वरूपसिद्धिः पूर्वोक्तमदूषणतया च प्रतिपादितम् / सांव्यवहारिकस्य च प्रमाणस्यैतल्लक्षणम्, न त्वेवं लोकव्यवहारानुरोधेन यदि प्रदर्शितार्थप्रापकत्वं साधननिर्भासिज्ञानस्य युक्तिसङ्गतं भवेत्। अथ संवृत्या प्रमाणस्याऽभ्युपगम्यते, तदा नित्यानित्यवस्तुप्रदर्शकस्य तदभ्युपगम्यताम् , लोकव्यवहारस्य तत्रैवोपपत्तेः / न च तथाभूत-सद्ग्राहकस्य युक्तिवाधितत्वाद् निर्विषयम् , सन्तानविषयस्यैव पूर्वोक्तन्यायेन युक्तिबाधितत्वोपपत्तेः / तन्नाध्यासितार्थप्रापकं प्रत्यक्ष पराभ्युपगमेन संभवति / तथाहि-यदेवाध्यक्षेणोपलब्धं तदेव तेनाध्यवसितम् / न च सन्तानस्तेन पूर्वमुपलब्ध इति कथमसावध्यवसीयते ? न हि क्षणमात्रभाविना सन्तानिनां दर्शनविषयत्वे तत्पृष्ठभाविनाऽध्यवसायेः दृष्टस्यैव विषयीकरणम्। न चाऽन्यथा-भूतस्य वस्तुग्रहणेऽन्यथाभूताऽध्यवसायिनः प्रदर्शितार्थप्रापकत्वं प्रामाण्यं युक्तम्, तथाऽभ्युपगमे शुक्तिकायां रजताध्यवसायिनोऽपि तत् स्यात्। अथाऽत्र प्रवृत्ते रजतं न प्राप्यत इति न प्रदर्शितार्थप्रा-पकत्वं, तर्हि सन्तानेऽध्यवसितेक्षणः प्राप्यत इति प्रकृतेऽपि न प्रदर्शितार्थप्रापकत्वम्। अथाऽत्र सन्तान एव प्राप्यते, तर्हि स एव वस्तु सन् भवेदितिन सामान्यधर्माः स्वरूपेणासन्तोऽभ्युपगन्तव्याः, अक्षणिकस्य च वस्तुनः सिद्धेः / यदुक्तं भवदभिःदर्शनेन क्षणिकाक्षणिकत्वसाधारणस्यार्थस्य विषयीकरणात् कुतश्चिद्भमनिमित्तादक्षिवत्त्वारोपेऽपि नदर्शनमक्षणिकत्वे प्रमाणम् , किं तु प्रत्यक्षाप्रमाणम् , विपरीताध्यवसायाऽऽकान्तत्वात्। क्षणिकत्वे-ऽपि न तत्प्रमाणम्, अनुरूपाध्यवसायाजननात्। नीलरूपे तु तथाविधनिश्चयकरणात् प्रमाणमिति हि विरुध्यते / किञ्च-एवंवा-दिन एकस्यैव दर्शनस्य क्षणिकत्वाक्षणिकत्वयोरप्रामाण्यम्, नीलाऽऽदौ तु प्रामाण्यं प्रसक्तमित्यनेकान्तवादाभ्युपगमो बलादापतति। न क्षणग्रहणे तद्विपरीतसन्तानाध्यवसायोत्पत्तौ दर्शनस्य प्रामाण्यं युक्तम्, मरीचिका स्वलक्षणग्रहणे जलाध्यवसायिन इव। यतो यदेव मायात्वतो दृष्ट, तदेव प्राप्तमित्यध्यवसाये तस्य प्रामाण्यं व्यवस्थाप्यते / न च दृष्टस्य क्षणिकसन्तानिस्वरूपेण सन्तानस्य प्राप्तिरिति प्राक् प्रतिपादितम्, स्वरूपेण तु तस्यासत्त्वात् प्राप्त्यविषयतैवेतिन धर्मोत्तरमतपयलोचनया किञ्चित् परमार्थतः प्रदर्शितार्थप्रापकं प्रमाण संभवति; अतः संवादकत्वमपि तन्मतेन प्रमाणलक्षणमयुक्तम्। (16) नैयायिकास्तु-"अव्यभिचाराऽऽदिविशेषणविशिष्टार्थो - पलब्धिजनिका सामग्री प्रमाणम्" इति प्रमाणसामान्यलक्षणं प्रतिपन्नाः, तजनकत्वमेव प्रामाण्यमिति च / अथ सामग्रया प्रमाणत्वे साधकतमत्वमनुपपन्नम्। सामग्री ह्यनेककारकस्वभावा, तत्र चानेकसमुदाय कस्य | स्वरूपेणातिशयो वक्तुं शक्यते ? तथाहि-सर्वस्मात् कारणकलापात् कार्यमुपजायमानमुपलभ्यते / तदन्यतमापायेऽप्यनुपजायमानं कस्य कार्योत्पादने साधकतमत्वमावेदयतु ? न च समस्तसामग्याः साधकतमत्वम्, अपरस्यासाधकतमस्याभावे तदपेक्षया साधकतमत्वस्यानुपपत्तेः, असाधकतममपेक्ष्य साधकतमत्वव्यवस्थितेः / न चानेककारकजन्यत्वेऽपि कार्यस्य 'विवक्षातः कारकाणि भवन्ति'' इति न्यायात साधकतमत्वं विवक्षितमिति वक्तव्यम्, पुरुषेच्छानिबन्धनत्वेन वस्तुव्यवस्थितेरयोगात्। अथ कर्मकर्तृविलक्षणस्याऽव्यभिचाराऽऽदिविशेषणविशिष्टोपलब्धिजनकस्य प्रमाणत्वान्न यथोक्तदोषानुषङ्गः / असदेतत्। अनेकसन्निधानात् कार्यस्य स्वरूपालाभे एकस्य तदुत्पत्ती वैलक्षण्याभावे साधकतमत्वानुपपत्तेः / तत्र कर्मकर्तृवैलक्षण्यमपि साधकतमत्वम् / अत्र चाऽनेकपक्षानुभाय्योद्योतकरोत्तराध्ययनकारप्रभृतिभिः साधकतमत्वं निरस्तम् ते च पक्षा ग्रन्थगौरवभयाद्नेह प्रदर्श्यन्ते। सन्निपत्य जनकत्वे पूर्वोदितदोषाभावः। तथाहि अनेकस्मिन् सन्निधौ कार्यनिष्पत्तेः साधकतमत्वानुपपत्तिः, तस्मिस्तु सति यदा नियमेन कार्यमुपजायते तदा कथं न तस्य साधकतमत्वोपपत्तिः ? असदेतत् / एवं प्रमाणत्वस्याव्यवस्थितिप्रसक्तेः / तथाहि-दीपाऽऽप्रकाशस्य सामग्येकदेशस्य कस्याश्चिदवस्थायां प्रमाणितऽभिमतस्य सद्भावेऽपि प्रमेयाभावात् कार्यानिष्पत्तौ तत्सद्भावे तु तन्निष्पत्ती तस्यापि प्रदीपवदसन्निपत्त्यकारकत्वात् प्रमाणताप्रसक्तिर्भवत् / तथा प्रमातुरपि मूर्जाऽऽद्यवस्थायाम् , अनवधाने वाऽन्यकारकसन्नि-धानेऽपि कार्यानुपपत्तौ तदवधानाऽऽदिसन्निधाने तज्जन्यकार्यनि-पत्तेः / सन्निपत्य जनकत्वेन साधकतमत्वप्रसक्तिः / अत्र कारक-साकल्यस्य साधकतमत्वेनाऽभ्युपगमात् पूर्वोक्तदोषाभाव केचिन् मन्यन्ते।तथाहिनैकस्य प्रदीपाऽऽदेः सामग्यैकदेशस्य करणता, अपि तु कारकसाकल्यस्य, तदभावे कारकसाकल्यानभिमतकार्यासत्त्वमिति प्रमातृप्रमेयसदभावे कारकसाकल्यस्तोत्पत्तौ प्रमितिलक्षणस्य कार्यस्य भाव एव। अथ मुख्यप्रमातृप्रमेयसद्भावेऽपि पूर्वोदितस्य नियमस्य तुल्यता, न कारकसाकल्पभावाभावनिमित्तत्वात् तन्मुख्या गौणभावस्य / तथाहि-कथञ्चित् कारकवैकल्ये तयोः सत्त्वेऽपि गौणता। तत्साकल्ये कुतश्विन्निमित्तान्तराद् यथोक्त प्रमितिलक्षणकार्यनिष्पत्तावगौणता प्रमातृप्रमेययोः, तयोश्चानुपपत्तौ साकल्यस्यासत्त्वम्, अतः कारकसाकल्ये कार्यस्यावश्यंभाव इति तस्यैव साधकतमत्त्वम्। अनेककारकसन्निधाने उपजायमानोऽतिशयः सन्निपत्य जननं साधकतमत्वं यधुच्येत, तदान कश्चिद्दोषः। तथाहि-सामग्येकदेशकारकसहभावेऽपि प्रमि-तिकार्यस्याऽनुपपत्तेरेकदेशस्यन प्रमाणता, सामग्रीसद्भावे त्ववश्यतया विशिष्टप्रमितिस्वरूपोपपत्तेः। एकदेशापेक्षया तस्या एव सन्निपत्य जनकत्वमेव साधकतमता। न चाऽत्र किमपेक्षया तस्याः साधकतमत्वम् ? अन्यस्मिन्नसाधकतमे साधके साधकतरे वा सति तदपेक्षया तस्याः साधकतमत्वमुपपत्तिमदिति प्रेरणीयम्: यतो न सामग्यन्तर्गतानामेकदेशानां जनकत्वव्याघातः, तेषामेव धर्ममात्रत्वात् सामग्यस्येति जनकैकदेशापेक्षया तत्सामग्यस्य साधकतमत्वात्प्रमाणत्वमुपपन्नमेव / एतेन यत्परैः प्रेरितंकिल सामग्रीकारणतच कर्तृकापक्ष, सामग्रीजन-कत्वेन चेत्, तयोर्ध्या तेरान्तरभूतयोरभावात् किमपेक्ष्य साधकतमवमासाद