SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ णाण 1964 - अभिधानराजेन्द्रः भाग - 4 णाण प्रमाणान्वेषणं वैयर्थ्यमनुभवेत् : भूयो भूय उपलभ्यमाने दृढतरा प्रतिपत्तिर्भवतीति सुखसाधनं तथैव निश्चित्योपादत्ते, दुःखसाधनं च तथात्वेन सुनिश्चित परित्यजेत्, अन्यथा विपर्यवेणाप्युपादा-नत्यागी भवेताम्। अत एवैकविषयाणामपि पुरुषप्रवृत्तेः प्रमाणा-धीनत्वाभावाद् विशिष्टप्रमाया एव प्रमाणाधीनत्वात् , तां च जन-यत उपेक्षणीयाऽऽदौ विषये प्रमाणस्याप्रवर्तकस्यापि प्रमाणत्वेन लोके प्रसिद्धत्वात् , प्रवृत्तेस्तु पुरुषेच्छानिबन्धनत्वात् तदभावेनोक्तफलजनकस्य प्रमाणत्वव्याघातः। न च पुरुषार्थसाधनप्रवर्तकत्वमेव तस्य प्रवर्तकत्वं, तत् सद्भावेऽपि प्रवर्तितोऽहमत्र नात्रेति तद्ग्रहणे भावेच्छाप्रतिपत्त्यनुपपत्तेः / न च प्रवृत्त्यभावे तस्य प्रदर्शकत्वान्न तत्प्रदर्शकमिति लोकप्रतीतिः / तन्नानधिगतार्थाधिगन्तृत्वमपि ज्ञातृव्यापारविशेषणमुपपत्तिमत्।। अतोऽनधिगतार्थाधिगन्तृज्ञातृव्यापारोऽर्थप्रकटताऽऽख्यफलानुमेयो जैमिनीयपरिकल्पितो न प्रमाणमिति स्थितम् / (18) सौगतैस्तु 'प्रमाणमविसंवादि ज्ञानम्' इति वचनादविसंवादकत्वं प्रमाणलक्षणमुक्तम् / अविसंवादकत्वं च प्राप्तिनिमित्तं प्रवृत्तिहेतुभूतार्थक्रियाप्रसाधकार्थप्रदर्शकत्वम् / यतोऽर्थक्रियाऽर्थी पुरुषस्तन्निर्वर्तनक्षममर्थमवाप्तुकामः प्रमाणमप्रमाणं वाऽन्वेषते / यदेव चार्थक्रियानिर्वर्तकवस्तुप्रदर्शकं तदेव तेनान्विष्यते। प्रत्यक्षानुमाने एव च तथाभूतार्थप्रदर्शक, न ज्ञानान्तरमिति / ते च लक्षणार्हे, तयोश्च द्वयोरप्यविसंवादकत्वमस्ति लक्षणम् / प्रत्यक्षेण ह्यर्थक्रियासाधनं दृष्टतयाऽवगतं प्रदर्शितं भवति; अनुमानेन तु दृष्टलिङ्गाव्यभिचारतयाऽध्यवसितमित्यनयोः प्रदर्शकत्वमेव प्रापकत्वम् / न ह्याभ्यां प्रदर्शितऽर्थ प्रवृत्तौ न प्राप्तिरिति नान्यत् प्रदर्शकत्वव्यतिरेकेण प्रापकत्वम् , तच शक्तिरूपम् / उक्त च-'प्रापणशक्तिः प्रामाण्य, तदेव च प्रापकत्वम्। अन्यथा ज्ञानान्तरस्वभावत्वेन व्यवस्थितायाः प्राप्तेः कथं प्रवर्तकज्ञानशक्तिस्वभावता / तत्र यद्यपि प्रत्यक्ष वस्तु क्षणग्राहि, तद्ग्राहकत्वं च तस्य प्रदर्शकत्वं, तथापि क्षणिकत्वेन तस्याप्राप्तेस्तत्सन्तान एव प्राप्यत इति सन्तानाध्यव-सायोऽध्यक्षस्य प्रदर्शकव्यापारो द्रष्टव्यः। अनमानस्य तुवस्त्वग्राहकत्वात्तत्प्रापकत्वं यद्यपि न संभवति, तथाऽपि स्वाकारस्य बाह्यवस्त्वध्यवसायेन पुरुषप्रवृत्तौ निमित्तभावोऽस्तीति तस्य तत्प्रापकमुच्यते / एतदुक्तं भवति-प्रत्यक्षस्य हि क्षणो ग्राह्यः, स च निवृत्तत्वान्न प्राप्तिविषयः, सन्तानस्त्वध्यवसेयः प्रवृत्तिपूर्विकायाः प्राप्तर्विषय इति तद्विषयं प्रदर्शितार्थप्रापकत्वमध्यक्षस्य प्रामाण्यम् / अनुमानेन त्वारोपितं वस्तुगृहीत, स्वाकारोवा, तयोर्द्वयोरप्यवस्तुत्वान्न प्रवृत्तिविषयतेति न तद्विषयं तस्य प्रापकत्वम् / अपि त्वारोपिततबाह्यव्यापारभेदाध्यवसायेन वस्तुन्येव प्रवर्तकत्वप्रापकत्वेऽस्य द्रष्टव्ये / तेनानुमानस्य ग्राह्योऽनर्थः, प्राप्यस्तु बाह्यः स्वाकारो भेदेनाध्यवसित इति तद्विषयमस्यापि प्रदर्शितार्थप्रापकत्वं प्रामाण्यमुक्तम् / तथा परमप्युक्तम्-'न ह्याभ्यामर्थ परिच्छुिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते इति। अत्र च प्रत्यक्षानुमानयो-योरपि छेदसन्तानविषयोऽध्यवसायो द्रष्टव्यः। तथा प्रामाण्य वस्तुविषयं द्वयोरिति चोक्तम्। अत्रापि सन्तानविषयित्वेन वस्तु-विषयत्वं द्वयोरित्युक्तम् / लौकि कं | चैतदविसंवादकत्वं प्रामाण्यं, यतो लोके प्रतिज्ञातमर्थ प्रापयन् पुरुषः संवादकः प्रमाणमुच्यते, तद्वदत्रापि द्रष्टव्यम् / न च क्षणिकस्य ज्ञानस्याऽर्थप्राप्तिकालं यावदनवस्थितेः कथं प्राप्यते ? इत्याशङ्कनीयम्, प्रदर्शकत्वव्यतिरेकेण तस्यास्तत्रासंभवादित्युक्तत्वात् / न चान्यस्य ज्ञानान्तरस्य प्राप्तौ सन्निकृष्टत्वात् तदेव प्रापकमित्याशङ्कनीयम् / यतो यद्यप्यनेकरमाद्ज्ञानक्षणात्प्रवृत्तावर्थप्राप्तिः, तथाऽपिपलोच्यमानमर्थप्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वम्, नान्यत् / तच प्रथमज्ञान-क्षण एव संपन्नमिति नोत्तरोत्तरज्ञानक्षणानां तदुपयोगि, प्राप्यमाणं च वस्तु नियतदेशकालाऽऽकारं प्राप्यत इति तथाभूतवस्तुप्रदर्शकयोरेव प्रामाण्यं, न ज्ञानान्तरस्य / तेन प्रदर्शितप्रापकत्वलक्षणे प्रामाण्ये पीतसंवादिग्राहिज्ञानानामपि प्रापकत्वात् प्रामाण्यप्रसक्तिर्न भवेत् ; तर्हि तानि प्रदर्शितमर्थ प्रापयन्ति; यद्देशकालाऽऽकार वस्तु तैः प्रदर्शितं न तत्तथा प्रापयति, यथा प्राप्यते न तैस्तथा प्रदर्शितम् / देशाऽऽदिभेदेन वस्तुभेदस्य निश्चितत्वान्न तेषां प्रदर्शितार्थप्रापकता / एवमपि प्रदर्शितार्थप्रापकत्वे जलाऽऽदिप्रदर्शकस्य मरीच्यादिवस्त्वन्तरप्राप्तौ प्रदर्शितप्रापकत्वेन प्रामाण्य-प्रसक्तिरिति न किञ्चिदप्रमाणं भवेत् / प्रमाणद्वयातिरिक्तं च ज्ञानं नियतप्रदर्शितार्थप्रापकम् / तेन हि भावाभावसाधारणोऽनियतोऽर्थः प्रदर्शितः। स च तथाभूतोऽसत्त्वात् न प्राप्तुं शक्य इति / न च तत्प्रदर्शितार्थप्रापकत्वेन प्रमाणम् / अनियतार्थप्रदर्शकत्वं च शब्दाऽऽदेः साक्षात्, पारम्पर्येण वा प्रतिपाद्याददिनुत्पत्तेः / तत् स्थितं प्रापणशक्तिस्वभावमविसंवादकत्वं प्रामाण्यं द्वयोरेवा प्रापणशक्तिश्च प्रमाणस्यार्थाविनाभावनिमित्ता दर्शनपृष्ठभाविना विकल्पेन निश्चीयते / तथाहि-दर्शनं यतोऽर्थादुत्पन्नं तद्दर्शकमात्मानं स्वानुरूपावसायोत्पादनाद् निश्चिततदर्थाविनाभावित्वं प्रमाणशक्तिनिमित्तं प्रामाण्यं स्वतो निश्चिनोतीत्युच्यते, नपुनर्ज्ञानान्तरं तन्निश्चायकमपेक्ष्यते / अर्थानुभूताविव ततोऽविसंवादकत्वमेव प्रमाणलक्षणमुक्तम्। एतदप्ययुक्तम् / यतो नार्थप्रदर्शकत्वमेव प्रापकत्वं, पुरुषेच्छाऽधीनप्रवृत्तिनिमित्तत्वात् / सति वस्तुन्यर्थप्रापकत्वं पुरुषेच्छाऽऽप्तेः / एतच्च प्राक् प्रतिपादितम्। उपेक्षणीये च विषये पुरुषस्यतद्विषयार्थित्वाऽऽद्यभावे प्राप्तिपरित्यागयोरभावेऽपि तत्प्रदर्शकत्वलक्षणस्य प्रामाण्ये न कश्चिद् व्याघात उपलभ्यते / अथेष्टानिष्टसाधनार्थव्यतिरेकेणोपेक्षणीयस्याऽर्थान्तरस्याभावाद् न तत्प्रदर्शकं किश्चिद् ज्ञानं समस्तीति कथं प्रापकत्वाभावेऽपि प्रदर्शकत्वस्य संभवने दोषाऽऽपादनं क्रियते। तथा च तृतीयविषयाभावमवगत्यैवोक्तम्-अर्थानर्थविवेचनस्यानुमानायत्तत्वात्। तथा-हिताहितप्राप्तिपरिहारयोरिति च, तृतीयाविषयाभावश्च सर्वस्य वस्तुनो राशिद्वयेन भावात् / तथाहि-तृतीयं वस्तु नेष्टसाधनम् , उपेक्षणीयत्वात् / यच तत्साधनं न भवति तस्याऽनिष्टसाधनराशावन्तर्भावः। एतचाऽयुक्तम् / स्वसंविदितवस्त्वपह्नवस्य युक्तिशतेनापि कर्तुमशक्यत्वात् / तथाहि-यद्वा तद् वस्त्विष्टसाधनं न भवति, तथाऽनिष्टसाधनमपि न भवति, इष्टानिष्टसाधनयोर्यत्नोपादेयत्वहेयत्वदर्शनात् / उपेक्षणीयस्य चायनसाध्योपादानत्यागविषयत्वात् कथमिष्टानिष्टसाधनयोरन्तर्भावः ? तत्र प्रदर्शकत्वमेव प्रापकत्वं, बौद्धाभ्युपगमे न प्रदशितार्थप्रापकत्वं क्वचिदपि ज्ञाने संभवति / तद्धि संतानाऽऽश्रयेण सौगतैः परिकल्प्यते, न च संतानः संभवति। स हि स्वरूपेण वा वस्तु सन् भवेत् , सन्तानिरूपेण वा ? नतावत्स्वरूपेण, सन्तानिव्यतिरेकेण तस्य वस्तुनोऽसतोऽनभ्युपगमात् / अभ्युपगमे वा क्षणिकवादहानिप्रसक्तिः, सामा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy