SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ णाण 1963 - अभिधानराजेन्द्रः भाग-४ णाण मात्र सर्वः सन्तानो भवेत् / न च पूर्वोत्तरक्षणयोः परपक्षे भिन्नमभिन्नं वैकान्ततः सारूप्यं संभवति, भेदपक्षे सामान्यवादप्रसक्तेः, अभेदपक्षे तु तदभावप्रसक्तेः।नच परपक्षे सारूप्यग्रहणोपायः संभवतीत्युक्तम्। किश्चयदि नीलाऽऽकारं ज्ञानमनुभूयत इति बाह्योऽप्यों नीलतया व्यवस्थाप्यते, तर्हि त्रैलोक्यगतनीलार्थव्यवस्थितिस्ततो भवेत् . सर्वनीलार्थसाधारणत्वात् तस्य / अथ नीलाऽऽकारताविशेषेऽपि कश्चित्प्रतिनियमहेतुस्तत्र विद्यते, यतः पुरोवर्तिन एव नीलाऽऽदेस्ततो व्यवस्था, तहनाकारत्वेऽपि ज्ञानस्य तत एव नियमहे तो: प्रतिनियतार्थव्यवस्थापकत्वं भविष्यतीति तत्साकारपरिकल्पनं व्यर्थम्। यदपि चक्षुरादिना रूपमुपलभ्यत इति व्यपदेशनिबन्धनं जन्यत्वं / रूपाऽऽकारप्रकाशस्योक्तम् , तदपि स्वजाड्याऽऽविष्करणमात्रम्। यतो यथा प्रत्यासत्या चक्षुरादिकं समानकालं भिन्नकाल या भिन्न रूपाऽऽद्याकारं ज्ञानं भवति, तयैव निराकारमपि ज्ञानं समानकालं भिन्नकालं वा स्वग्राह्यं भिन्नमपि ग्रहीष्यति / न हि चक्षुरादेर्विभिन्नकार्योत्पादनव विभिन्नग्राह्यग्रहणे शक्तिप्रक्षयः कश्चिद् ज्ञानस्य संभवी। अथ विभिन्नकार्योत्पादनमप्यसंभवी नाऽभ्युपगम्यते, तर्हि ' प्रमाणमविसंवादि ' इति प्रमाणलक्षणप्रणयनमनर्थकं धर्मकीर्तेराप्यते, अविसंवादित्वस्याऽर्थक्रियाज्ञानजनकत्वलक्षणस्याऽभावात् / अथ व्यावहारिकमेतद् लक्षणं न पारमार्थिकम् ,किं तर्हि पारमार्थिकमिति वक्तव्यम् ? ..........., अज्ञातार्थप्रकाशो वेति चेत्, तत्रापि यद्यज्ञातस्याऽर्थस्य प्रकाशः स्वसंविदितोऽर्थग्रहणपरिणाम आत्मसंबन्धी, तदाऽऽस्मन्मताभ्युपगम इति न कश्चिद्दोषः / अथ "स्वरूपस्य स्वतो गतिः' इति वचनादज्ञातार्थप्रकाशः स्वरूपसंवेदनमात्र, तदाऽध्यक्षबाधदोषः, स्वपरसंवेदकत्वेन ज्ञानस्य स्वसंवेदनाध्यक्षतः प्रतिपत्तेरिति प्रतिपादकत्वात् , प्रतिपादितत्वात् , प्रतिपादयिष्यमाणत्वाच्च / एतेन एकसामग्यधीनतया चक्षुरादिना रूपमुपलभ्यत इति व्यपदेश इत्येतदपि निरस्तम्। भिन्नानामेकसामग्यधीनत्वलक्षणप्रतिबन्धाविरोधे ग्राह्यग्राहकलक्षणस्यापि तस्याविरोधात्। यथा चैकसामग्यधीनानां चक्षुरादीनां समानसमयेऽपि स्वरूपप्रतिनियमः, तथा ग्राह्यग्राहकयोरपि समानकालत्वाविशेषेऽपि विज्ञानग्राहकमेव, अर्थस्तु ग्राह्य एवेति प्रतिनियमो भविष्यति। अथ एकसामग्यधीनत्वं रूपप्रतिनियमश्चक्षुरादेर्नेष्यते, तर्हि प्रमा-णाऽऽदिव्यवहारस्य सकलस्य विलोपात्साकारज्ञानाऽभ्युपगमोइसङ्गत एव स्यात्। यदपि कार्यव्यतिरेकेण बाह्यार्थकल्पताऽर्थापत्त्या च परेषामिति तदभ्युपगमेनोच्यते-अर्थस्यायमाकारः प्रकाशतामनुप्रविष्ट इत्युक्तम्, तदपि परदर्शनानभिज्ञता ख्यापयति। न हि जैनानां कार्यव्यतिरेकादर्थापत्त्या वाऽर्थपरिकल्पना, किं तु तद्ग्राहिप्रतिभासवशात्। साकारज्ञानवादिनस्तु-यदि ज्ञानाऽऽकारोऽर्थव्यतिरेकेण नोपपद्यत इत्यर्थव्यवस्थापकः, तदा नियतार्थव्यवस्थापकः स्यात्। जनकस्यैव L व्यवस्थापक इति चेत् / न / चक्षुरादेरपि व्यवस्थापकः स्यात् / / तजनकत्वेऽपि चक्षुरादेरनाकारत्वान्नेति चेत् , ननु चक्षुरादिजन्य॑त्वेऽपि किमिति तज्ज्ञानं तदाकारं न भवति चक्षुरादिवा साकारज्ञानजनकमिति वक्तव्यम् ? स्वहेतुबलाऽऽयाततत्स्वभावत्वात् तयोरिति चेत् / ननु निराकारज्ञानपक्षेऽपि तत्स्वाभाव्याद् ज्ञानमेव चक्षुरादिव्यतिरेकेण स्वजनकार्थव्यवस्थापकमिति किन्नाभ्युपगम्यते ? न्यायस्य समान- | त्वात् / किञ्चग्राहकस्यार्थजन्यत्वेन साकारता, सा च प्रतिभासगोचरा, एवं च ग्राहके आकारस्य जनकस्यैव प्रतिभासविषयत्वेऽन्यस्य तजनकस्य कल्पनाप्रसक्तिस्तत्राप्येवमित्यनवस्था भवेत् / तत्र साकारज्ञानानुभववशादर्थव्यवस्थाप्रकाशताऽनुप्रविष्टताऽर्थाssकारस्यायुक्तैव, वस्त्वन्तरानुप्रवेशासंभवात्। संभवे या प्रकाशताया अपि चैतन्यरूपतायाः पृथिव्याद्यनुप्रवेशात् परलोकाय दत्तो जलाञ्जलिभवत् / यदप्यर्थवादिन एवाऽयं दोषो, ज्ञानवादेतु सिद्धसाध्यतेति, तदपि न्यायबहिष्कृतम्। प्रमाणसिद्धस्याप्यर्थस्याभावो यदि न दोषाय भवेत्, ज्ञानाभावोऽपिन दोषाय स्यात् / न च शून्यताऽभ्युपगमात् तदभावोऽपि न दोषाऽऽयह इति वक्तव्यम्, तत्प्रतिपादकप्रमाणाभावाद् न तेन साकारज्ञानप्रमाणवादोऽभ्युपगमार्हः, अनेकदोष-दुष्टत्वादिति स्थितम् / सम्म०२काण्ड। (17) जैमिनीयाऽभिमतस्य तु ज्ञातृव्यापारस्य फलानुमेयस्य यथा प्रमाणता न संभवति, तथा स्वतः प्रामाण्यं निराकुर्वद्भिः प्रदर्शितमिति न पुनः प्रतन्यते। यदप्यनधिगतार्थाधिगन्तृत्व ज्ञातृव्यापारविशेषणत्वेन प्रतिपादितम् , तदप्यसङ्गतमेव! यतः प्रमाणं वस्तुव्यधिगतेऽनधिगतेवा व्यभिचाराऽऽदिविशिष्टां प्रमा जनयन्नोपालम्भविषयः / न चाऽधिगते वस्तुनि किश्चित्तत्प्रमाणतामाप्नोतीति वक्तव्यम् , विशिष्टतां विदधानस्य प्रमाणताप्रतिपादनात्। न च पूर्वोऽसन्नेव प्रमाणेनजन्यते, प्रमित्यन्तरोत्पादकत्वेन प्रमाणत्वात् / न च प्रमित्यन्तरजनकत्वेऽधिगते विषये तस्याकिश्चित्करत्वेनोपलम्भविषयताऽनुपपत्तिः / न च एकान्ततोऽनधिगतार्थाधिगन्तृत्वे प्रामाण्यं तस्यावसातुं शक्यम्, तद् व्यर्थ तथभावित्वलक्षणं संवादादवसीयते, स च तदर्थात्तरज्ञानवृत्तिः / न चानधिगतार्थाधिगन्तुरेव प्रामाण्ये संवादप्रत्ययस्य प्रामाण्यमुपपन्नम्। नच प्रमाणेन संवादप्रत्ययेन प्राक्तनस्य प्रामाण्यं व्यवस्थापयितुं शक्यम्, अतिप्रसङ्गात् / अतो यथाऽधिगतार्थाधिगन्तुरर्थक्रियानि सिनः सिद्धं ज्ञानस्य प्रामाण्यं, तथा साधननिर्भासिनोऽप्यभ्युपगन्तव्यम् / न च सामान्यविशेषतादात्म्यवादिन एकान्ततोऽनधिगतार्थाधिगन्तृत्वं प्रमाणस्य संभवति, इदानीन्तनास्तित्वस्य पूर्वास्तित्वाभेदात, तस्य च पूर्वमप्यधिगतत्वसंभवात् कथञ्चिदनधिगतार्थाधिगन्तृत्वाभ्युपगमेऽस्मन्मतानुप्रवेशप्रसक्तिः / अथाप्रेक्षापूर्वकारितया प्रमाणस्याऽनुपालम्भविषयत्वेऽपि पुरुषस्य प्रेक्षापूर्वकारिणोऽभिगतविषयमपि प्रमाणं पर्येषमाणस्योपालम्भविषयता। स हि पूर्वाधिगते वस्तुनि प्रेक्षापूर्वकारी किमित्यधिगमाय प्रमाणान्तरमन्देषते ? निष्पन्नप्रयोजनापेक्षया हेतुव्यापारतः प्रेक्षापूर्वकारिताहानिप्रसक्तेः / नैतादिदम् / यतो यदर्थ प्रमाणोत्पत्त्यतिशयजनकत्वेन सप्रयोजनत्वात् प्रमाणान्वेषणस्य न तदन्येष्टुः पुरुषस्योपालम्भार्हता। न च निश्चिते विषये न किञ्चिन्निश्चयान्तरण प्रयोजनम् , यतस्तदर्थ प्रमाणान्वेषणं न वैयर्थ्यमनुभवेत् / यतो भूय उपलभ्यमाने दृढतरा प्रतिपत्तिर्भवतीति सुखसाधनं तथैव निश्चित्योपादत्ते, दुःखसाधनं च तथात्वेन सुनिश्चितं परित्यजेत् / अन्यथा विपर्ययेणाप्युपादानत्यागौ भवेताम्। अत एवैकविषयाणामपि शब्दाऽनुमानाध्यक्षाणां प्रामाण्यमुपपन्नम्, प्रतिपत्तिविशेषस्य, प्रीत्यतिशयादेश्च सद्भावात् / न च प्रथमप्रत्यये नैवाऽर्थ - क्रियासमर्थप्रदर्शने प्रवर्तितः पुरुषः, प्रापितश्चार्थ इति तज्ज्ञापक
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy