________________ णाण 1962 - अभिधानराजेन्द्रः भाग - 4 णाण काशताबुद्धिस्वभावोपजायत इत्येकसामग्यधीनया तया व्यप- देशः / दृश्यते हि प्रदीपप्रकाशयोः समानकालयोः प्रदीपनघटप्रकाशन इत्ये कसामन्यधीनया व्यपदेशः / न ह्येककालयोरपि प्रकाश्य - प्रकाशकयोः कार्यकारणभावमुपपद्यते / ननु यदि साकारं विज्ञानमभ्युपगम्यते, तदा चक्षुरादिकोऽर्थः प्रतिक्षिप्त एव, चक्षुराद्याकारस्य संवेदनमात्रस्यैवोपलब्धेन तदाकाराऽर्थव्यवस्था स्यात् / यतो न बाह्यार्थः, तदाकारं च विज्ञानद्वयमुफ्लम्भविषयः, तत्त्वे चाज्ञानमेव, तत्रापि साकारं तत्राप्यर्थस्य पुनरुपलब्ध्याऽभ्युपगमे ज्ञानाऽऽकारेऽनुभव इति न कदाचित्स्वरूपेणोपलब्धिर्भवेदिति नार्थव्यवस्था। असदेतत्। कार्यव्यतिरेकेण बाह्यार्थपरिकल्पनाऽपित्त्या वा परेषामभिगतेति तदभ्युपगमादर्थस्यायमाकारं प्रकाशकमनुप्रविष्ट इत्यभिधानार्थोक्तदोषानुपपत्तेः / अथवा-विज्ञानवादेऽसिद्धिप्रेरणं सिद्धसाधनदोषाऽऽवहमिति साकारमेव ज्ञानं प्रमाणमभ्युपपन्नाः सौत्रान्तिकयोगाचाराः। अत्र प्रतिविधीयते-निराकारं विज्ञानमर्थग्राहकमिति न प्रत्यक्षतः प्रतीयते, शरीरस्तम्भाऽऽदिव्यतिरेकेण उपलम्भस्यासत्त्वादिति / तस्यासत्त्वादित्यत्र हेतुरसिद्धः, अहङ्कारस्य सुखाऽऽदेनिविशेषस्यान्तःस्वसंवेदनप्रत्यक्षानुभूयमानस्य सत्त्वात् / न च स्वसंवेदनप्रत्यक्षसिद्धस्याप्यसत्त्वम्, स्तम्भाऽऽद्याकारस्यापि ज्ञानस्यासत्त्वप्रसक्तेः / न हि तथाप्रतिभासव्यतिरेकेणापरमत्रापि सत्त्वनबन्धनम् / न चाहमिति प्रत्ययोऽन्तःस्पृष्टशरीराऽऽद्यालम्बनः; शरीरस्य सप्रतिधत्वेन, अपरप्रत्यक्षविषयत्वेन वाऽज्ञानरूपतया सुख्यहप्रत्ययविषयत्वानुपपत्तेः ज्ञानस्यवाप्रतिघातसंवेद्यरूपस्यान्तःसुखाऽऽकारस्य सुख्यहप्रत्ययविषयत्वात, अहं कृशः स्थूल इत्यादिशरीराऽऽलम्बनत्वस्याहं प्रत्ययस्यौपचारिकत्वादु पचारनिबन्धनत्वस्य च प्राक् प्रतिपादितत्वात् / तेन निराकारस्य ज्ञानस्य स्वप्नेऽप्यसंवेदनान्न प्रत्यक्षतो बाह्यव्यतिरिक्तं ग्राहकस्वरूपं प्रतिभातीति प्रत्युक्तम् , नीलमह वेद्यीति बाह्मनीलार्थग्राहकस्यान्ताह्यव्यतिरिक्तस्य स्वसंवेदनाध्यक्षतो ज्ञानस्याहमहमिकया प्रतीतेः / न चान्तः सुखाऽऽदयो बहिश्च नीलाऽऽदयः परिस्फुटवपुषः स्वयं विदिताः प्रतिभान्ति, न पुनस्तद्व्यतिरिक्तनिराकारज्ञानस्वरूपमर्थग्राहकमाभाति, सुखाऽऽदेरर्थग्राहकत्वायोगादिति वक्तव्यम् / यतो बाह्यं प्रति सुखाऽऽदीनां नैवास्माभिरपि ग्राहकत्वमभ्युपगम्यते / न हि सुखाऽऽदयो भावनोपनेयजन्मानो बहिरर्थसन्निधिमन्तरेणाऽपि प्रादुर्भवन्तः पदार्थव्यक्तीनां नियमेनोद्द्योतकाः, स्ववपुःपर्यवसितस्वरूपत्वात् तेषां, चक्षुरादिप्रभवास्तु सविदो बहिरर्थमुद्भासयन्त्यः स्पष्टावभासा अन्वयव्यतिरेकाभ्यां पृथगवसीयन्त इति पदार्थग्राहिण्यस्ता एवाभ्युपगमनीयाः / सुखाऽऽदिवेदिनं तु हदि परिवर्तमानं बाह्याऽर्थसंविद पृथगेव, न तद् बाह्यार्थग्राहकतयाऽभ्युपगमविषयः / तदेवं ग्राह्याव्यतिरेकेण निराकारज्ञानस्य संवेदनाध्यक्षसिद्धत्वादनुमानमपि तत्सत्त्वप्रतिपादकत्वेन प्रवर्तत एव विप्रतिपत्तिसद्भावे। यच्चापित्त्यप्रामाण्यान्नाऽतस्तत्प्रतिपत्तिरिति / तत्सिद्धसाधनमेव / यदपि निराकारा मया बुद्धिः प्रतीयत इति बुद्धेरप्यपरा बुद्धिाहिकेत्याद्युक्तम् / तदप्य-सङ्गतमेव, यतः स्वपरार्थग्राहक बुद्धः स्वरूप, तेन च रूपेण स्व-संविदि प्रतिभासमाना कथं शशशृङ्गाऽऽदिवदव्यवस्थितरूपा भवे-त् ? यदपि तदव्यतिरिक्ततया प्रतीयमाना न विकल्पेनाप्यपोद्धर्तु शक्या इति / तदप्यसङ्गतम् / ग्राह्मस्वरूपवक्तव्यतया स्वरूपेण तत्प्रतिभासनस्य प्रतिपादितत्वात् / यदपि प्रकाशतारहित नीलाऽऽदिकं नोपलभ्यते, तथोपलम्भे सर्व सर्वदा भवेदिति तत्राऽपि यदि ज्ञान विना नीलाऽऽदिकं नोपलभ्यते इत्युच्यते, तदा सिद्धसाध्यता, तदन्तरेण तदुपलम्भस्यानिष्टेः / अथ नीलमेव प्रकाशरूपमिति प्रतिपाद्यते / तदयुक्तम् / नीलस्य जड़तया प्रकाशरूपत्वानुपपत्तेः परस्परपरिहारस्थितलक्षणतया जडाजड़योरेकत्वयोगात्। यदपि नीलस्य प्रकाश इति व्यतिरेकः शिलापुत्रस्य शरीरमित्यादावभेदेऽपि संभवीति / तदपि न सम्यक् / दृष्टान्ते हि प्रत्यक्षावगतो भेदप्रतिभासः स्यात् वाक्ये न तु दार्शन्तिके प्रत्यक्षारूढे तदेव प्रतिभासः समस्ति। तथाहि-ग्राह्यरूपस्तभाऽऽद्यनन्यव्यावृत्तत्वेन ग्राह्यतयाऽध्यक्षे प्रतिभाति प्रकाशितुं, स्तम्भाऽऽदिकर्मणि व्यावृतत्वेन ग्राहकतया प्रतिभाति। तेन स्तम्भतत्संवेदनयोरभेदावभासोऽध्यक्षाऽऽरूढोऽवभाति। न केवलं ग्राह्याऽऽकारोऽन्यव्यावृत्तत्वेन ग्राह्यतयाऽध्यक्ष प्रतिभाति प्रकाशित, स्तम्भाऽऽदिकर्मणि व्यावृत्तेन ग्राहकतया प्रतीतेन स्तम्भः प्रतिभाति, किं त्वालादाऽऽदिस्वभावतयाऽहङ्काराऽऽस्पदश्च प्रतिभासनिश्चयाभ्यामवसीयते, तद्ग्राह्यस्तु तद्विपरीतत्वेन / न चाध्यक्षसिद्धभेदयोर्नीलतत्संवेदनयोः कुतश्चित् प्रमाणाऽऽदिकताऽवसातुं शक्येति न भेदप्रतिभासस्य बाधा। न च नीलाऽऽदिरेव ज्ञानरूपः, अहं नीलाऽऽदिरित्यनवगमात् / तेन नीलाऽऽद्याकारैव प्रकाशिता, सा च बुद्धिरिति साकारता ज्ञानस्येति यदुक्तं, तदपि निरस्तं द्रष्टव्यम्। यदपि प्रकाशतामात्रेणार्थस्य सिद्धत्वाद् व्यर्थ तदपरबुद्धिपरिकल्पनम्, तदपि सिद्धमेव साधितम् : अर्थप्रकाशताया अर्थव्यतिरिक्ताया बुद्धित्वेन तदपरिकल्पनाया असिद्धत्वात्। यदपि नायमाकारं नीलाऽऽद्या-कारप्रकाशिताव्यतिरेकेणोपलभ्यत इति कस्यार्थे प्रत्यासन्नता परैः परिकल्प्यते, तदपि नीलाऽऽद्यर्थग्रहणपरिणते ज्ञानस्य स्वसंवेदनाध्यक्षतः सिद्धरयुक्ततया स्थितम्। प्रकाशता तु यदि निराकारा भवेत्, प्रतिकर्मव्यवस्था न स्यादिति यदुक्तं, तदप्यसङ्गत्तमेव / यतः प्रकाशता किं नीलाऽऽकारा? आहोस्विद् गाहाऽऽकाराऽभ्युपगम्यते ? यदि प्रथमो विकल्पस्तदा वक्तव्यम्-किमेकदेशेन नीलाऽऽद्याकारा प्रकाशता ? आहोस्वित् सर्याऽऽत्मनेति ? तत्र यो कदेशेन नीलाऽऽधाकारा प्रकाशता, तदा स्वांशैकप्रकाशताप्रसक्ते रित्यनेकान्तसिद्धिः / अथ सर्वाऽऽत्मना, तदा प्रकाशताया जडरूपनीलाऽऽदिस्वभावत्वाद्विज्ञप्तिरूपताऽभावप्रसक्तिः, जड-स्य प्रकाशरूपताऽयोगादग्राह्याकारित्वमपीतरेतराश्रयत्वम्। न हि देवदत्तस्य प्रतिनियताऽऽकारतासिद्धौ यज्ञदत्तस्य तदाकारतासिद्धिदृष्टा / न च प्रकाशता साकारतासिद्धिमन्तरेणापि ग्राह्यस्य प्रतिनियतरूपसिद्धिनिराकारा, ज्ञानस्य प्रतिकर्मव्यवस्थाहेतुत्वप्रसक्तेः / न च यद् यदाकारं तत्तस्य ग्राहकमिति व्याप्तिसिद्धिः, अन्यथोत्तरनीलक्षणपूर्वनीलक्षणस्य ग्राहकः स्यात्। न च तस्याज्ञानरूपत्वाद्नायं दोषः, देवदत्तनीलज्ञानस्य यज्ञदत्तनीलज्ञानग्राहकताप्रसक्तेः। न च तयोः कार्यकारणभावाभावान्नाय दोषः, सदृशसमनन्तरज्ञानं प्रति उत्तरज्ञानक्षणस्य ग्राहकताप्रसक्तेः। अथ तत्र तादृगविधसारूप्याभावाद् नायं दोषः / ननु तथाविधं यदि कश्चित् सारूप्यमभिधीयते, तदाऽनेकान्तवादाऽऽपत्तिः / अथ सर्वात्मना सारूप्यं, तदोत्तरक्षणस्यापि पूर्वक्षणरूपताप्रसक्तिरित्येकक्षण