________________ 1961 - अभिधानराजेन्द्रः भाग - 4 णाण तस्माद निराकारादेव ज्ञानाद् बाह्यार्थासिद्धिरभ्युपगन्तव्या / अथ निराकारं ज्ञानं नीलाऽऽदावर्थे सव्यापारं नियापारभिति कल्पनाद्वयम्। प्रथमकल्पनायामप्यव्यतिरिक्तव्यापारवत् , उत व्यतिरिक्तव्यापारवत् ? इति कल्पनाद्वयम् / आद्यविकल्पेज्ञानरूपमेव व्यापारःकश्चित् / न व व्यापारतद्वतोरभेदो युक्तो, धर्मधर्मितया प्रतीतेः / द्वितीयविकल्पेऽपि संबन्धासिद्धिः, ततस्तस्योपकाराभावात् / उपकारेऽपि तस्य तन्निर्वर्तितेऽपरो व्यापारः कल्पनीय इत्यनवस्था / व्यापारस्यापि चार्थग्रहणव्यापृतावपरो व्यापारः कश्चित् परिकल्पनीय इत्यत्राप्यनवस्था। निटापारस्यार्थव्यापृतावर्थस्यापि ज्ञानग्रहणे व्यापृतिप्रसक्तिरित्यर्थस्यापि ज्ञानं प्रति ग्राहकता स्यात् / न च निराकारों बोधों निर्व्यापारोऽपि बोधस्वरूपत्वादर्थग्राहकोऽर्थस्याप्यर्थरूपतया बोधप्रति ग्राहकतो ग्राह्यरूपासंस्पर्शान्न बोधकस्य ग्राहकता (?) न च ग्राह्यार्थरूपान्यथाऽनुपपत्त्या बोधस्याग्राहकताव्यवस्था, इतरेतराऽऽश्रयदोषप्रसक्तेः / तथाहि-ग्राह्यरूपव्यवस्था ग्राहकरूपसंस्पर्शात् . ग्राहकरूपव्यवस्थाऽपि ग्राह्यरूपसंस्पर्शादितिकथं नेतरेतराश्रयदोषः? न च समानकालयोर्नीलबोधयोाह्यग्राहकभावव्यवस्था, कर्मकर्तृरूपत्वासिद्धेः / न हि समानकालतायां निर्वयविकार्यप्राप्य - रूपकर्मतासंभवः, समानकालस्य निर्वर्त्यविकार्यताऽयोगात् / प्राप्यरूपता च न तद्व्यतिरिक्ता संभवति, समानकालयोयोरपि ग्राह्यग्राहकभावाविशेषात् / तन्न निराकारस्याप्यर्थव्यवस्थापकत्वं बोधस्येति विज्ञप्तिमात्रमेव नार्थव्यवस्येति विज्ञानवादिनोक्तमेतत्, सप्रतिघरूपतयाऽध्यक्षता बाह्यस्य सिद्धविज्ञप्तिमात्रत्वे तद्रूपताऽभावप्रसक्तिर्भवत्। न चाध्यक्षतःसप्रतिघबाह्यरूपतया प्रतीयमानस्य विज्ञप्तिरिति नामकरणे काचिन्न क्षतिः, नामकरणमात्रेण सप्रतिघत्वबाह्यरूपत्वाऽऽदेरर्थधर्मस्याव्यावृत्तेः / अतः सप्रतिघत्वाऽऽदिरूपो बाह्योऽर्थः, तद्विपरीतश्वान्तरो बोध इति कथं विज्ञप्तिमात्रम् ? न च सप्रतिधाऽऽकारतया बोधप्रतिपत्तिः, तद्विषयतया तु तस्य प्रतिपत्तिरस्त्येव, नीलविषयो बोधो मयाऽनुभूयते इति निश्चयोत्पत्तेः। न च प्रतिभासनिश्चयमन्तरेणापरस्य पदार्थस्वरूपव्यवस्थिती निबन्धनमुत्पश्यामः, ततो निराकारादेव बोधाद् बाह्यार्थसिद्धिरभ्युप्या। असदेतत्। यतो निराकारं ज्ञानमर्थव्यवस्थापकमिति कि प्रत्यक्षतोऽवगम्यते, आहोस्विदनुमानतः, उताऽपित्ते रिति विकल्पः ? तत्र न तावत् प्रत्यक्षतस्तत्प्रतिपत्तिः, प्रतिभासमानशरीरस्तम्भाऽऽदिव्यतिरिक्तस्यापरस्य ज्ञानस्यानुपलम्भेनासत्त्वात्।न च सुखाऽऽद्यान्तररूपेणाहद्वाराऽऽस्पदतया स्वसवेदनाध्यक्षतो ज्ञानरूपं प्रतीयत एवेति कथं तस्यानुपलम्भः ? यतः सुखाऽऽदयो नान्तःस्पृष्टशरीराः, नातिरिच्यमानतनवःप्रतिभान्ति / अहमिति प्रत्ययोऽपि तथाभूतशरीराऽऽलम्बनतया संवेद्यत इति। न चव्यतिरिक्तो बोधाऽऽत्मा स्वप्नेऽप्यनुभवविषय इति न प्रत्यक्षतो ग्राह्यव्यतिरिक्तवद् ग्राहकस्वरूपमवभासते / अथाभूतशरीराऽऽलम्बनतया संवेद्यत इति न तत्प्रत्यक्षावसेयम्, नाऽप्यनुमानाधिगम्यम् , प्रत्यक्षाप्रवृत्ती तत्पूर्वकस्य तत्र तस्याप्यप्रवृत्तेः / नाप्यर्थापत्तिस्तद्भावमवगमयति, तस्याः प्रामाण्यानुपपत्तेः / किञ्च-अनुस्मरणमात्रमापत्तिः, न चेदं तदित्युल्ले - खवदनुस्मरणमदृष्टऽर्थमासादयति। न च ज्ञानस्वरूप कदाचनापि दृष्ट, दृष्टे वा तत एव तत्सिद्धेः, किमर्थापत्त्या ? अथार्थस्य ज्ञानमिति निसकारस्य ज्ञानस्य प्रतीतेस्तत्सद्भावः / न चार्थग्राहकत्वेन सर्व दार्थस्य ज्ञानमित्येवं-प्रतीयमानस्याविसंवादिप्रत्ययविषयस्य तस्याभावः, संवेदनमात्रस्याप्यभावप्रसक्तेः। अतो निराकाराऽविसंवादिप्रत्ययविषया बुद्धिः सिद्धेति युक्तमुक्तम् निराकरा नो बुद्धिरिति / असदेतत् / यतो निराकराऽर्थबुद्धिमया प्रतीयत इत्यपरा बुद्धेस्तदर्थस्य चग्राहिका बुद्धिः प्रसज्येता तथा च सत्याकारमन्तरेण केनाऽऽकारण बुद्धिरर्थस्येति योग्या प्रतीयेत? न हीद तदित्यतिरूपिताऽऽकारमाकारान्तरेण योजनामर्हति / न च तथाऽप्रतीयमाना बुद्धिरिति व्यपदेशमासादयति, शशशृङ्गाऽऽदेरपि बुद्धित्वप्रसङ्गोक्तेः / अथाऽपि स्वात्मनाऽर्थबुद्धिरासीदिति नार्थाऽऽकारव्यतिरिक्ता सा प्रतिभाति, किं तु पृथगपोद्धारपरिकल्पनया प्रकाशरूपतया व्यवस्थापिता बुद्धिरिति व्यपदिश्यते / अयुक्तमेतत् / यतो नाव्यतिरेकेण प्रतीयमाना बुद्धिर्विकल्पनापोद्धर्तुं शक्या, न च पृथक् प्रतीयते सेत्युक्तम् / अथ सुखस्तम्भाऽऽद्याकारतयाऽयं तदन्तःस्पृष्टविरूपाऽऽदिकमेव ज्ञान प्रतिभाति न पुनस्ततो व्यतिरिक्तमपरं ज्ञानम् , तथा सति संवेदनमात्रमेव प्रसक्तम्। एवं च चक्षुरादिना मया रूपं प्रती यत इति संबन्धाभावात्कथं प्रतीतिः? अस्ति चेयं प्रतीतिः / तस्मादुपलब्धेऽत्र रूपाऽऽदिकेऽभिमुखीभूतं चक्षुस्तत्प्रकाशत्वं विदधाति, स वै बुद्धिरुच्यते / न च नीलाऽऽद्याकारमविद्यमानमेव तत्र प्रकाशत्वमुत्पन्नमिति वक्तव्यम्, व्यज्यमाननीलाऽऽदिविषयचक्षुरादिव्यापारऽऽदिव्यज्यमानस्य प्रकाशत्वस्यैव तत्रोत्पतेः, नीलाऽऽदेस्तु पूर्वमेव भावात्। तथा च सत्यर्थस्य बुद्धिरिति ध्यपदेशः सिद्ध एव / अत एवोक्तमबुद्धिरुपल-ब्धिनिमित्यनान्तरमिति। एतदप्यसत। यतो न प्रकाश-व्यतिरेकेण नीलाऽऽदिरुपलभ्यत इति कुतः पूर्वव्यवस्थिते एव नीलाऽऽदौ प्रकाशता चक्षुरादेरुदयतीति वक्तुं शवयम् ? न हि प्रकाशतारहित कदाचिदुपलब्धं नीलाऽऽदिकम् , उपलम्भे वा सर्वस्य सर्वदर्शित्वप्रसक्तिः / अथ नीलस्य प्रकाश इति व्यतिरेक उपलभ्यत एव।न। शिलापुत्रकस्य शरीरं स्तम्भस्य स्वरूपमित्यत्रापि व्यतिरेकोपलब्धेर्व्यतिरेकः स्यात् , प्रकाशस्य प्रकाशतेति चादृष्टो भेदः प्रकाशतायाः स्यात्। अथात्रैकव प्रकाशतोपलभ्यते नापरा इति न प्रकाशस्थापरः प्रकाशः, व्यतिरेकोपलम्भस्य प्रत्यक्षबाधित्वात्, तर्हि नीलप्रकाशयोरपि न प्रत्यक्षप्रतीतो भेद इति, तत्राऽपि समानन्यायतो व्यतिरेकस्यासिद्धेः।नीलाऽऽद्याकारैव प्रकाशिता, साचबुद्धिरिति सिद्धा साकारता ज्ञानस्य / अथ परोक्षा बुद्धिः निराकारा च ततः साकारस्य बोधस्य बुद्धिरिति विकल्पेऽप्यप्रतिभासनात् , अर्थापत्तेश्व प्रक्षयः, प्रकाशमात्रेणार्थस्य सिद्धत्वाद् व्यर्थ तदपरबुद्धिपरिकल्पनम् / ततश्च यदुक्तनिराकारमेव ज्ञान-मर्थोन्मुखमुपलभ्यमानं प्रतिनियमेन कथं सर्वसाधारणम् ? इति सिद्धः प्रतिकर्मप्रत्यय इति। तदप्ययुक्तम्। यतो न किञ्चिन्नीलाऽऽद्याकारप्रकाशिताव्यतिरेकेणोपलभ्यतेऽपर- मिति कस्यार्थे प्रत्यासन्नता परैः परिकल्प्यते ? प्रकाशता तु यदि निराकरा स्यात, प्रतिकर्मव्यवस्था न भवेत् / न ह्यालोकमात्रेणामिश्रितघटाऽऽदिरूपेण तद्रूपप्रकाशनं युक्त, कथं तर्हि चक्षुरादिना घटादिरुपलभ्यत इति व्यवस्था ? बाह्यार्थवादि-परिकल्पिते परोक्ष रूपाऽऽदितदाकारा प्रकाशता चक्षुरादिना जन्यत इति तथा व्यपदेशः संभवी; प्रकाशिता चापोद्धारपरि-कल्पनयाऽनादिवासनानियमाद् भिन्ना व्यपदिश्यत इति न किशिदयुक्तम् / यद्वापूर्वसमग्रीतश्चक्षुरादिरूपाऽऽद्याकारप्र