SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ णाण 1960 - अभिधानराजेन्द्रः भाग - 4 णाण लिखितस्वरूपकार्यजनकत्वेन कार्यस्य चाव्यभिचाराऽऽदिस्वरूपत्वात् तजनकत्वेनापरेण साधकतमेन भाव्यम्, एकस्यैव स्वात्मनि करणक्रियाविरोधात्। ततो बोधाबोधरूपस्य प्रमितिजनकस्य प्रमाणतोपपत्तेबाँधमात्रं प्रमाणमित्यत्राव्याप्तिर्लक्षणदोषः प्राप्नोतीति स्थितम्। अथ बोधविशेषः प्रमाणं, तदाऽत्रापि वक्तव्यम् कः पुनरसौ बोधस्य विशेषः ? यद्यव्यभिचाराऽऽदिविशेषणविशिष्टत्वं, तदा प्रमितिस्वभावस्य तस्य प्रमाणताप्रसक्तिः / न चाभ्युपगम्यत एवेति वाच्यम् , करणविशेषस्य प्रमाणव्यवस्थितेः / अत एव 'निराकारो बोधोऽर्थसहभाव्येकसाग्यधीनस्तत्रार्थे प्रमाणम् ' इति वैभाषिकोक्तमसङ्गतम् / अपि च-कर्मण्यसी प्रमाणमभ्युपेयते। यत उक्तम्- " सव्यापारमिवाऽऽभाति, व्यापारेण स्वकर्मणि।" इति / कर्मता च बोधसहभाविनोऽर्थस्य तद्बोधापेक्षया न संभवति, तत्समानकालस्य तत्कृतविकार्यत्वात्। द्वयोः कर्मरूपत्वे च तत्र करणक्रिययोः कथं प्रतिनियमः? तदभावे चैकस्य सामग्यधीनतायामपि सर्वः सर्वस्य बोधो भवेत् / किश्चैकसामग्यधीनत्वस्य द्वयोरप्यविशेषाद्यथा बोधार्थस्य ग्राहकः, तथाऽर्थोऽपि बोधस्य किं न भवेत् ? तन्न' निराकारो बोधः प्रमाणं ' संभवति / अथ स्यान्नि-राकारो बोधः, प्रमाणं माऽस्त्वसौ, प्रमितिक्रियायां साधकतमत्वात् प्रमाणम् / ननु च बोधस्य प्रमाणस्वरूपत्वादर्थाऽऽकाराऽऽ - त्मकत्वमयुक्तम्, प्रमेयरूपताऽऽपत्तेः। न च प्रमेयरूपमेव प्रमाणं भवितुमर्हति, प्रमाणस्य तद्ग्राहकत्वेन प्रतिभासनात् / न च तथात्वेन प्रतिभासमानमपि प्रमेयरुपयुक्तम्, प्रमाणप्रमेययोरन्तर्बहि-र्व्यवस्थितत्वेनावभासनात्। भेदेन च प्रतिभासमानं नान्यथाऽधिगन्तुं युक्तम्।न हि प्रतिभासः साक्षात्कारणाऽऽकारत्वात् प्रत्यक्षरूपोऽर्थव्यवस्थापकः प्रमाणान्तरादनुग्रह, वाधां वा प्रतिपद्यते। उक्तं च-"प्रमाणस्य प्रमाणेन, न बाधा नाप्यनुग्रहः / बाधायाम-प्रमाणत्वमानर्थक्यमनुग्रहे / / 1 / / " इति। सर्वदा बहिर्युच्छिन्नाविभासिनोऽध्यक्षस्याप्रमाणत्वे प्रमाणान्तराप्रवृत्तिरेव / न चाध्यक्षेण ज्ञानमेव बहिराकारं प्रतिपद्यते, न बाह्योऽर्थः, इति कथं निराकारता तस्येति वक्तव्यम् ? ज्ञानरूपताया बोधस्याध्यक्ष प्रति-भासनात् अर्थस्य च ज्ञानरूपतायाः प्रतिपत्तेः। न ह्यनहङ्काराऽऽस्पदत्वेनार्थस्य प्रतिभासे अहङ्काराऽऽस्पदबोधरूपस्यैव ज्ञानरूपता युक्ता। यदि स्वहङ्काराऽऽस्पदत्वे नार्थस्य प्रतिभासः स्यात्तदा रूपादभिन्नत्वात्तदात्मनोऽहं घट इति प्रतिभासः स्यात्। न चान्यथाभूता प्रतिपत्तिरन्यथाभूतमर्थ व्यवस्थापयितुं शक्ता, प्रतिपत्तिव्यतिरेकेणाप्यर्थव्यवस्थितिप्रसक्तिश्च; नीलप्रतिपत्तेरपि पीताऽऽदिव्यवस्थापनाप्रसङ्गात्। अथ साकारविज्ञानमाकारप्रतिनियमात्तत्प्रतिपत्त्यैवार्यस्तदाकारता तजनकस्याऽर्थस्य व्यवस्थापये दिति प्रतिकर्मव्यवस्था | सिध्यति; निराकारं तु विज्ञानं बोधमात्रतया व्यवस्थितम् , सर्वार्थान प्रत्यविशिष्टत्वात्। नीलस्येदं संवेदनं न पीतस्येति प्रतिकर्मव्यवस्थानिबन्धनं न भवेदिति साकारं ज्ञानमभ्युपगन्तव्यम्। असदेतत्। सर्वार्थान् प्रति बोधमात्रतया निराकारस्याविशिष्टत्वादिति हेतोर्निराकारत्वमपि चक्षुरादिवृत्या बोधस्य तत्रैव नियमितत्वात्। न च नियतत्वस्य सर्वार्थेषु नीलाऽऽदावेव तस्य प्रतीतिः, समानत्वेऽपि वा पुरोवर्तिन्येव नीलाऽऽदौ / समानत्वस्य संभवात् न सर्वार्थसाधारणी प्रतिपत्तिः निराकारज्ञानवादिनो न काचित् क्षतिः, तथादृष्टत्वात् / न हि दृष्टरनुपपन्नं नाम निराकारत्वे किमिति पुरोवर्तिन्येव नीलाऽऽदौ प्रवर्तते, विज्ञानं चक्षु रादिभिस्तव नियमितत्वादिति प्रतिपादितं प्राक् / कस्मात्तैः तत्र नियम्यत इति चेत् ? अत्र वस्तुस्वभावैरुत्तरं वाच्यम् / न हि कारणानि कार्यजननप्रतिनियमे पर्यनुयोगमर्हन्ति, तत्र तस्य वैफल्यात् / साकारत्वेऽपि चाऽयं पर्यनुयोगः समानः / तथाहि-साकारमपि ज्ञान किमिति नीलाऽऽदिकमेव पुरोवर्ति, सन्निहितमेव च व्यवस्थापयति, तेनैव तथा तस्य जननाऽऽदिवत् समानमेतन्निराकारत्वेऽपि / किशचक्षुरादिजन्यं तद्विज्ञानमिति चक्षुराद्याकारं न भवतीति पर्यनुयोगे भवताऽपि वस्तुस्वभावैरत्रोत्तरं वाच्यमिति वक्तव्यम्, तदस्माभिरभिधीयमानं किमित्यसाङ्गत्यं भवतः प्रतिभाति ? अपि च-साकारता विज्ञानस्य किं साकारेण प्रतीयते, आहोस्वित् निराकारेण ? यदि साकारेण, तदा तत्राऽपि प्रतिपत्तावाका-रान्तरपरिकल्पनमित्यनवस्थाप्रसक्तिः / निराकारेण चेत्, बाह्यार्थस्याऽपि तथाभूते नैव प्रतिपत्तिप्रसक्तिः / न च बाह्ये प्रत्यासत्तिनियमाभावान्न तथाभूतेन प्रतिपत्तिरिति वाच्यम् , इतरत्रापि प्रत्यासत्तिनियमाभावस्य तुल्यत्वात्। शुक्ले पीताऽऽकारदर्शनादभ्रान्तेन प्रतिनियमाभाव इति चेत्, निराकारेऽपि तद्यभ्रान्ततत्वादेव प्रतिनियमो भविष्यतीति किमाकारपरिकल्पनया ? कथमाकारमन्तरेण प्रतिनियम इति न वाच्यम् , आकारेऽप्यस्य समानत्वात्। तथाहि-साकारवादिनोऽपि कथं प्रतिनियम इति प्रेरणायां प्रतिनियताऽऽकारपरिग्रह एव प्रतिनियम इति नोत्तर युक्तम्, प्रतिनियताऽऽकारपरिग्रहस्यैव प्रतिनियमरूपतयोपन्यस्तस्याद्यापि चिरायमाणत्वात् अथ चानुमानाद्वाह्योऽर्थः प्रतीयते, तर्हि प्रतिबन्धसिद्धिर्वक्तव्या। नच बाह्योऽर्थोऽध्यक्षतः कदाचनाऽपि सिद्धो, नापि तत्प्रतिबद्धो ज्ञानाऽऽकार इति न प्रतिबन्धसिद्धिः, तामन्तरेण न चानुमानप्रवृत्तिरिति कथं बाह्यार्थसिद्धिः? यथाऽर्थापत्त्या बाह्योऽर्थोऽधिगम्यते, तथाऽपत्त्याऽर्थस्वरूपप्रतिपत्तौ तस्याः प्रत्यक्षरूपताप्रसक्तेः / न च स्वरूपप्रतिपत्तिमन्तरेणाप्यनुमानवत्तस्याप्रामाण्यम्, अनुमानस्यावगतप्रतिबन्धलिङ्गप्रभवत्वेन प्रामाण्यात्, अत्र च तदभावात् / न चाऽत्यन्तपरोक्षस्यार्थस्य केनचिदाकारण विषयीकरणमिति न तस्य प्रतिपत्तिविषयता, अनुमानविषयस्य तु पूर्वदृष्टत्वात्। इदं तदित्याकारेण प्रतिपत्तिविषयता संभवत्यपीति नार्थापत्त्याऽप्यर्थप्रतीतिः / अथ दूरस्थितवृक्षाऽऽदौ मृत्पिण्डाऽऽकारो यथा बाह्यवृक्षाऽऽद्यर्थव्यतिरेकेण नप्रति-भासविषयः, तद्वत्पुरोवर्तिनिस्तम्भाऽऽदौ तदाकारः सत्येव बाह्ये स्तम्भाऽऽद्यर्थे इति सिद्ध एव बाह्यार्थः। नच वृक्षाऽऽदायपि पिण्डाऽऽद्यकारिएव वृक्षाऽऽदिः,तस्य स्वपरावभासस्यान्यथा-प्रतीतेः। असदेतत्। यतः-स्वपराभ्यामसौ सन्निहितः प्रतीयमानः साकारेण वा ज्ञाने प्रतीयते ? निराकारेण वा ? यदि साकारेणेति पक्षः, तदाऽसावपि ज्ञानाऽऽकार एव, न बाह्योऽर्थ इति क्वचिदप्यसिद्धेरसिद्धो दृष्टान्तः। तथा च-प्रतिबन्धाप्रसिद्धेन ज्ञानाऽऽकाराद् बाह्याऽर्थसिद्धिः / अथ निराकारेण तेनार्थः स्वपराभ्यां प्रतीयत इति प्रतिबन्धसिद्धिरिभ्युपगम्यते पिण्डाऽऽद्याकारस्य बाह्यार्थेन सह (?) नन्वेवं निराकारज्ञानं बाह्यार्थग्राहकं सिद्धमिति व्यर्थ ज्ञानाकारकल्पनम् / न च तत्रापि प्रतिभासमानो वृक्षो ज्ञानाकार एवेत्यपरमर्थ सावयति, तत्राप्यपरापरार्थकल्पनायामनवस्थाप्रसङ्गात् कुतोऽर्थसिद्धिः? ज्ञानाऽऽकाराऽऽदिभिरिति चेत् , ननु प्रतिबन्धाग्रहणे कथं तदा तसिद्धिः? इति पुनरपि तदेव वक्तव्यमित्यपर्यवसिता पर्यनुयोगानवस्था।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy