________________ माण 1956 - अभिधानराजेन्द्रः भाग - 4 णाण समवायं विनाऽप्युपपन्ना, तथेहाऽऽत्मनि ज्ञानमित्ययमपि प्रत्ययस्तं विनैव चेदुच्यते, तदा को दोष: ? अथाऽऽत्मा कर्ता, ज्ञानं च करणम् , कर्तृकरणयोश्च वर्द्धकिवासीवद्भेद एव प्रतीततः, तत्कथं ज्ञानाऽऽत्मनोरभेदः? इति चेत्।न। दृष्टान्तस्य वैषम्यात्।वासी हि बाह्य करणम् , ज्ञानं चाभ्यन्तर, तत्कथमनयोः साधर्म्यम् ? न चैवं करणस्य द्वैविद्ध्यमप्रसिद्धम् / यदाहुलाक्षणिकाः-" करणं द्विविधं ज्ञेयं, बाह्यमाभ्यन्तरं बुधैः। यथा लुनाति दात्रेण, मेरुं गच्छति चेतसा // 1 // यदि हि किञ्चित्करणमान्तरमेकान्तेन भिन्नमुपदय॑ते, ततः स्याद् दृष्टान्तदाष्टान्तिकयोः साधर्म्यम्, न च तथाविधमस्ति / न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते। अन्यथा दीपेन चक्षुधा देवदत्तः पश्यतीत्यत्रापि दीपाऽऽदिवचक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात् / तथा च सति लोकप्रतीतिविरोध इति / अपि चसाध्यविकलोऽपि वासिवर्द्धकिदृष्टान्तः / तथाहि-नायं वर्द्धकि: काष्टमिदमनया वास्या घटयिष्यते इत्येवं वासिग्रहणपरिणामेनापरिणतः सन्तामगृहीत्वा घटयति, किंतु तथापरिणतस्तां गृहीत्वा। तथापरिणामे च वासिरपि तस्य काष्ठस्य घटने व्याप्रियते, पुरुषोऽपि / इत्येवं लक्षणैकार्थसाधकत्वाद् वासिवर्द्धक्योरभेदोऽप्युपपद्यते, तत्कथमनयोर्भेद एवेत्युच्यते? एवमात्माऽपि-'विवक्षितमर्थमनेन ज्ञानेन ज्ञास्यामि' इति ज्ञानग्रहणपरिणामवान् ज्ञानं गृहीत्वाऽर्थ व्यवस्यति, ततश्च ज्ञानाऽऽत्मनोरुभयोरपि संवित्तिलक्षणैककार्यसाधकत्वादभेद एव / एवं कर्तृकरणयोरभेदे सिद्धे संवित्तिलक्षण कार्य किमात्मनि व्यवस्थितम् , आहोस्विद् विषये इति वाच्यम् ? आत्मनि चेत्-सिद्धं नः समीहितम्। विषये चेत् , कथमात्मनोऽनुभवः प्रतीयते ? अथ विषयस्थितसंवित्तेः सकाशादात्मनोऽनुभवस्तर्हि किं न पुरुषान्तरस्यापि ? तद्भेदाविशेषात् / अथ ज्ञानाऽऽत्मनोरभेदपक्षे कथं कर्तृकरणभाव इति चेत् ? ननु यथा सर्प आत्मानमात्मना वेष्टयतीत्यत्राभेदे यथा कर्तृकरणभावस्तथाऽत्रापि / अथ परिकल्पितोऽयं कर्तृकरणभाव इति चेद्वेष्टनाऽवस्थायां प्रागवस्थाविलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्वम् ? न हि परिकल्पनाशतैरपि शैलस्तम्भ आत्मानमात्मना वेष्टयतीति वक्तुं शक्यम् / तस्मादभेदेऽपि कर्तृकरणभावः सिद्ध एव / कि शु-चैतन्यमिति शब्दस्य चिन्त्यतामन्वर्थः-चेतनस्य भावश्चैतन्यम् / चेतनश्चात्मा त्वयाऽपि कीर्त्यते, तस्य भावः स्वरूपंचैतन्यम् / यच यस्य स्वरूपंनतत्ततो भिन्नं भवितुमर्हति, यथा वृक्षावृक्षस्वरूपम्। अथास्ति चेतन आत्मा, परं चेतनासमवायसंबन्धाद्, न स्वतः; तथा प्रतीतेरिति चेत् / तदयुक्तम् / यतः प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि निर्वाधमुपयोगाऽऽत्मक एवाऽऽत्मा प्रसिध्यति। न हि जातु-चित् स्वयमचेतनोऽहं चेतनायोगात् चेतनः / अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरस्ति, ज्ञाताऽहमिति समानाधिकरणतया प्रतीतेः / भेदे तथा प्रतीतिरिति चेत् / न / कथञ्चित्तादात्म्याभावे सामानाधिकरण्यप्रतीतेरदर्शनात्। यष्टिः पुरुष इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टा, न पुनस्तात्त्विकी। उपचारस्य तु बीज-पुरुषस्य यष्टिगतस्तब्धत्वाऽ5दिगुणैर भेदः, उपचारस्य मुख्यार्थस्पर्शित्वात् / तथा चाऽऽत्मनि ज्ञाताऽहमिति प्रतीतिः कथञ्चिचेतनाऽऽत्मतां गमयति, तामन्तरेण ज्ञाताऽहमिति प्रतीतेरनुपपद्यमानत्वाद्, घटाऽऽदिवत्। न हि घटाऽऽदिरचेतनाऽऽत्मको ज्ञाताऽहमिति प्रत्येति / चैतन्ययोगाभावादसौ न तथा प्रत्येतीति चेत् / न / अचेतनस्यापि चैतन्ययोगाचेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् , इत्यचेतनत्वं सिद्धम्-आत्मनो जडस्याऽर्थपरिच्छेद पराकरोति, तं पुनरिच्छता चैतन्यस्वरूपताऽस्य स्वीकरणीया। ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्रत्ययादपि धनधनवतोर्भेदाभावनुषङ्गः / तदसत् / य तो ज्ञानवानहमिति नाऽऽत्मा भवन्मते प्रत्येति, जडत्वैकान्तरूप-त्वात् , घटवत्। सर्वथा जडश्च स्यात्-आत्मा ज्ञानवानहमिति प्रत्ययश्चस्यादस्य विरोधाभावात् , इति मा निर्णषीः; तस्य तथो-त्पत्त्यसंभवात् / ज्ञानवानहमिति हि प्रत्ययो नागृहीते ज्ञानाऽऽख्ये विशेषणे विशेष्ये चाऽऽत्मनिजातूत्पद्यते, स्वमतविरोधात् ; "नागृहीतविशेषणा विशेष्ये बुद्धिः" इति वचनात् / गृहीतयोस्तयोरुत्पद्यत इति चेत्-कुतस्तद्ग्रहीतिः ? न तावत् स्वतः, संवेदनाऽनभ्युपगमात्। स्वसंविदिते ह्यात्मनि ज्ञाने च स्वतः सा युज्यते, नाऽन्यथा, सन्तानान्तरवत्। परतश्चेत्तदपि ज्ञानान्तरं विशेष्यं ना-गृहीते ज्ञानत्वविशेषणे गृहीतुं शक्यम् / गृहीते हि घटत्वे घटग्रहण-मिति ज्ञानान्तरात्तद्ग्रहणेन भाव्यम् , इत्यनवस्थानात् कुतः प्रकृ-तप्रत्ययः? तदेवं नाऽऽत्मनो जडस्वरूपता संगच्छते। तदसङ्गतौ च चैतन्यमोपाधिकमात्मनोऽन्यदिति वाङ्मात्रम् / स्या०। आचा०। विपा०। ('आता' शब्दे द्वितीयभागे 200 पृष्ठे ज्ञानज्ञानिनोरभेदविचारोऽदर्शि) (15) ज्ञानज्ञानिनोरन्यत्वे बन्धमोक्षपरामर्शःचेयण्णस्स उजीवा, जीवस्स उचेयणाउ अन्नत्ते। दवियं अलक्खणं खलु, हविज न य बंधमोक्खाओ। चैतन्यस्य जीवाजीवस्य चेतनाया अन्यत्वे द्रव्यं जीवद्रव्यमलक्षणं' चेतनालक्षणो जीवः इति लक्षणरहितं भवेत् , चेतनाया घटाऽऽदिवद् जीवादप्येकान्तव्यतिरिक्तत्वाद् , लक्षणाभावे चलक्ष्यस्याप्यभाव इति, खरशृङ्गवत् / अत्यन्तासन् जीवो न बध्यते, बन्धस्य वस्तुधर्मत्वात् / नापि मुच्यते, बन्धाभावादिति बन्धमोक्षावपिन स्याताम्। अथ मन्येथा अचेतनोऽपि स बध्यते, मुच्यते चेति। तदप्ययुक्तम् / अचेतनानामप्येव धर्मास्तिकायाऽऽदीनां बन्धमोक्षप्रसक्तेः / बृ०१ उ०। विशे०। (16) बोधमात्रं, सकारो वा बोधः प्रमाणम्तथाहि-" बोधः प्रमाणम्" इति वदन्तो वैभाषिकाः पर्यनुयोज्याः। किं बोधमात्रस्य प्रामाण्यम्, आहोस्विद्बोधविशेषस्य ? यदिबोधमात्रस्य, तदा तल्लक्षणमयुक्तम् व्यवच्छेद्याभायात्। अबोधस्य व्यवच्छेद्यत्येऽपि संशयविपर्ययाऽऽदीनां बोधस्वभावत्वात् प्रमाणताप्रसक्तिः। नच संशयाऽऽदीनामपि प्रमाणता, लोकशास्त्रविरोधात् / लोकप्रसिद्धं च प्रमाण व्युत्पादयितुमारब्धम् , तत्र चेन्द्रियाऽऽदेरपि प्रमाणतायाः प्रसिद्धेः बोधस्य प्रामाण्येऽव्याप्तिश्च लक्षणदोषः / न चाबोधरूपस्येन्द्रियाऽऽदेर्लोकप्रमाणता नव्यपदिशति, प्रदीपेनोपलब्धं चक्षुषा दृष्ट धूमेनावगतमिति लौकिकव्यवहारदर्शनात् / न चौपचारिकं प्रामाण्यम्, प्रमितिक्रियायां साधकतमत्वेन मुख्यप्रामाण्योपपत्तेः / अत एव शास्त्रान्तरेष्वपि विशेष्योपलब्धिजनकस्य बोधाबोधरूपविशेषत्यागेन, सामान्यतो" लिखितं साक्षिणो भुक्तिः, प्रमाणं त्रिविधं स्मृतम्' इत्युक्तिः / किं चप्रमीयतेऽनेनेति प्रमाणशब्दः करणविशेषप्रतिपादकः / करणविशेषत्वं चास्य विशेष्योपलब्धिजनकस्य बोधाबोधरूपविशेषत्यागेन सामान्यतो