________________ णाण 1958 - अभिधानराजेन्द्रः भाग - 4 णाण लक्षणाम् / इदमुक्तं भवति- यद्यपि कराऽऽदिचेष्टाऽनन्तरभावेनाऽवग्रहाऽऽदीन् जनयति, तथाऽपि शब्दार्थ एव सा श्रुतज्ञानमेवेत्यर्थः, यस्मात् तयाऽपि विहितया तत्र शब्दार्थप्रत्ययो भवति, अतः शब्दार्थप्रत्ययजनकत्वात् कारणे कार्योपचारात् शब्दार्थप्रत्यय एव सा, न पुनर्मतिः, तथा कर्ताऽपि 'भोक्तृ मिच्छत्यसौ' इत्यादिप्रतिपत्ता जानात्वित्यभिप्रायवानेव भाषणशक्त्यभावे कराऽऽदिचेष्टां करोति। ततश्च कर्ताऽपि शब्दार्थद्योतनाभिप्रायेण क्रियमाणत्वात् कराऽऽदिचेष्टा शब्दार्थ एव / ततश्व एषाऽपि श्रुतकारणत्वात् श्रुत एवान्तर्भवति, शब्दवत् , न मतौ, तथा च सत्येषा परमार्थतो मतेः कारणमेव न भवत्यतः कारणद्वारेणाऽपि न परप्रत्यायकं मतिज्ञानम्, श्रुतं तु तद्वारेण परावबोधकम्। इति युक्तो मूकेतरभेदाद् मतिश्रुतयोर्भेदः // 175 / / विशे० / स्था० / आ०म० / कर्म० / न०। (12) श्रुतानन्तरमवधिज्ञानस्य विवेकःकालविपर्ययस्वामित्वलाभसाधाद् मतिश्रुतानन्तरमवधि-ज्ञानमुक्तम् / प्रवाहापेक्षया, अप्रतिपतितकसत्त्वाऽऽधारापेक्षया वा थावान् मतिश्रुतयोः स्थितिकालः तादानेवावधिज्ञानस्याऽपि तथा यथैव मतिक्षुतज्ञाने मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतः, तथाऽविधज्ञानमपि / तथाहि-मिथ्यादृष्टः सतस्तान्येव मतिश्रुतावधिज्ञानानि, मत्यज्ञाने श्रुताज्ञानविभङ्गज्ञानानि भवन्ति / उक्तं च-" आद्यत्रयमज्ञानम्-पि भवति मिथ्यात्वसंयुक्तम्। '' इति / तथा य एव मतिश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्याऽपि। तथा विभङ्गज्ञानिनः त्रिदशाऽऽदेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानाना लाभसंभवस्ततो लाभसाधाम् अवधिज्ञानानन्तरं च छद्मस्थविषयभावप्रत्यक्षत्वसाधाद् मनःपर्यायज्ञानमुक्तम् / तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति, तथा मनःपर्यवज्ञानमपीति छद्मस्थसाधर्म्यम्। तथा यथाऽवधिज्ञानं रुपिद्रव्यविषयं तथा मनःपर्याय ज्ञानमपि, तस्य मनःपुद्गलाऽऽलम्बनत्वादिति विषयसाधर्म्यम् / तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे वर्तते, तथा मनःपर्यायज्ञानमपीति भावसाधाम्। यथा चाऽवधिज्ञानं प्रत्यक्ष तथा मनःपर्यायमपीति प्रत्यक्षत्वसाधर्म्यम्। उक्तंच-"कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो। माणसमित्तो छउमत्थविसयभावाइँ साहम्मा'' || 87 / / (विशे०) तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, सर्वोत्तमत्वात् , अप्रमत्तयतिस्वामिसाधात् सर्वावसानलाभाच / तथाहि-सर्वाण्यपि मतिज्ञानाऽऽदीनि ज्ञानानि देशतः परिच्छेदकानि, केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं सर्वोत्तम, सर्वोत्तमत्वात् चान्ते सर्वशिरःशेखरकल्पे उपन्यस्तम् / तथा-यथा मनःपर्यायज्ञानमप्रमत्तयतेरेवोदयते, तथा केवलमप्यप्रमादभावमुपगतस्यैव यतेर्भवति, नान्यस्य, ततोऽप्रमत्तयतिसाधर्म्यम् / तथा यः सर्वाण्यपि ज्ञानानि समासादयितुं योग्यः स नियमात् सर्वज्ञानावसाने केवलज्ञानमवाप्नोति, ततः सर्वान्ते के वलमुक्तम् / उक्तं च-"अन्ते के क्लमुरा, जइ सामित्तावसाणलाभाओ।' इति / तथा यथा मनःपर्यायज्ञानं न विपर्ययमासादयति, तथा केवलज्ञानमपाते। विपर्ययाभावसाधर्म्याच मनःपर्यायज्ञानानन्तरं केवलज्ञानमुक्तमिति कृतं प्रसङ्गेन।नं।" खइयं खओवसमियं, दुविहं नाणं मुणेयव्वा खइयं केवलनाण, खओवसमिया सेसणाणाई॥ 1 // "पं० भा०। (13) ज्ञानं प्रत्यक्ष परोक्षं च। तथाहितं समासओ दुविहं पण्णत्तं / तं जहा-पचक्खं च, परोक्खं च / तत्पञ्चप्रकारमपि ज्ञानं समासतः संक्षेपेण द्विविधं द्विप्रकारं प्रज्ञ-सं, तद्यथेत्युदाहरणोपन्यासार्थः / प्रत्यक्षं च, परोक्षं च / नं०। आ० म०। आ० चू०। स्था०। (प्रत्यक्षवक्तव्यता' पचक्ख शब्दे) (परोक्षभेदाः ' परोक्ख' शब्दे वक्ष्यन्ते) (अवध्यादिज्ञानानां व्याख्या स्वस्वस्थाने) (तृतीयभागे ' ओहि ' शब्दे द्वितीयभागे 255 पृष्ठ संशयाऽऽदीनामपि ज्ञानवत्त्वमावेदितम्) (१४)न ज्ञानमात्मव्यतिरेकेण गुणःननु चैतन्यं ज्ञानमात्मनः क्षेत्रज्ञादन्यदत्यन्तव्यतिरिक्तम्, असमासकरणादत्यन्तमिति लभ्यते। अत्यन्तभेदे सति कथमात्मनः संबन्धि ज्ञानमिति व्यपदेशः ? इति पराशङ्कापरिहारार्थमोपाधिकमिति विशेषणद्वारेण हेत्वभिधानम् / उपाधेरगतमौपाधिकम् / सनवायसंबन्धलक्षणेनोपाधिना आत्मनि समेवेतमात्मनः स्वयं जडरूप-त्वात् समवायसंबन्धोपढौ कि तमिति यावत् / यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद् बुध्यादीनां नदानामात्मविशेषगुणानामुच्छेदावसरे आत्मनोऽप्युच्छेदः स्यात्। तदव्यतिरिक्तत्वात्। अतो भिन्नमेवाऽऽत्मनो ज्ञानं यौक्तिकमिति / (स्या०) अत्राह-ज्ञानमपि यद्येकान्तेनाऽऽल्मनः सकाशाद्भिन्नमिष्यते, तदातेन चैत्रज्ञानेन मैत्रस्येव नैव विषयपरिच्छेदः स्यादात्मनः। अथ यत्रैवा-ऽऽत्मनि समवायसंबन्धेन समवेतं ज्ञानं तत्रैव भावावभासं करो-तीति चेत्। न। समवायस्यैकत्वाद् नित्यत्वाद् व्यापकत्वात् च सर्वत्र वृत्तेरविशेषात् समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः। यथा चघटेरूपाऽऽदयः समवायसंबन्धेन समवेताः, तद्विनाशे च तदाश्रयस्य घटस्याऽपि विनाशः। एवं ज्ञानमप्यात्मनि समवेतं, तच क्षणिकं, ततस्तद्विनाश आत्मनोऽपि विनाशाऽऽपत्तेरनित्यत्वाऽऽपत्तिः / अथाऽस्तु समवायेन ज्ञानाऽऽत्मनोः संबन्धः, किंतु स एव समवायः केन तयोः संबध्यते? सम-वायान्तरेण चेदनवस्था, स्वेनैव चेत् , किं न ज्ञानाऽऽत्मनोरपि तथा। अथ यथा प्रदीपस्तत्स्वाभाव्यादात्मानं परं च प्रकाशयति. तथा समवायस्येदृगेवस्वभावो यदात्मानं, ज्ञानात्मानौ च संबन्धयतीति चेत्ज्ञानात्मनोरपिकिंन तथास्वभावता, येन स्वयमेवैतौ संबध्येते ? किञ्चप्रदीपदृष्टान्तोऽपि भवत्पक्षे न जाघटीति / यतः प्रदीपस्तावद् द्रव्यम् , प्रकाशश्च तस्य धर्मः, धर्मधर्मिणोश्च त्वयाऽत्यन्तं भेदोऽभ्युपगम्यते; तत्कथ प्रदीपस्य प्रकाशाऽऽत्मकता? तदभावे च स्वपरप्रकाशकस्वभावताभणितिनिर्मूलैव / यदि च प्रदीपात्प्रकाशस्यात्यन्त भेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिष्यते, तदा घटाऽऽदीनामपि तदनुषज्यते, भेदाविशेषात् / अपि चतौ स्वपरसंबन्धनस्वभावौ समवायाद्भिन्नौ स्याताम् , अभिन्नौ वा ? यदिभिन्नौ, ततस्तस्यैतौ स्वभावाविति कथं संबन्धः ? संबन्धनिन्बधनस्य समवायान्तरस्यानवस्थाभयादनभ्युपगमात्। अथाऽभिन्नौ, ततः समवायमात्रमेव, न तौ। तदव्यतिरिक्तत्वात, तत्स्वरूपवदिति / किस-यथेह समवायिषु समवाय इति मतिः